________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०२
जैनेन्द्र-व्याकरणम् [अ० ४ पा० ३ सू० १२५-१३१ डड्यात्मनः ॥४।३।१२।। डडन्ते द्यौ अात्मनः परस्या भाया अनुन् भवति । आत्मना पञ्चमः आत्मना षष्ठः। “प्रकृत्यादिभ्य उपसंख्यानम्" [वा०] इति भा। डडन्तेन भान्तस्य सविधेरिदमेव ज्ञापकम् । गम्यमानक्रियापेक्षया करणे वा भा। आत्मना कृतः पञ्चमः अात्मना पञ्चमः कथमयं प्रयोगः। जनार्दनस्त्वास्मचतुर्थ एव । बसोऽयम् । श्रात्मा चतुर्थः । व्यपदेशिवद्भावादन्यपदार्थत्वम् । यथा चारुशरीरः शिलापुत्रक इति ।
खौ पराच्च ॥४।३।१२६॥ खुविषये पराच्चात्मनश्च परस्य डेरनुब् भवति । प्रतिपदोक्तस्य डेग्रहणम् । परस्मैभाषः । परस्मैपदम् । श्रात्मनेभाषः। आत्मनेपदम् । तादर्थेऽबुक्ता । आत्मार्थ पदमात्मनेपदम् । सविधेरिदमेव ज्ञापकम् । असदार्थ इति विकृतेः प्रकृत्या पस उक्तः ।
ईपोऽद्धलः ॥४।३।१२७॥ अदन्ताद्धलन्ताच्च सामर्थ्यान्मृदः परत्या ईपोऽनुब् भवति खुविषये । अरण्येतिलकाः। अरण्येमाषकाः। वनेकिंशुकाः। वनेवल्वजकाः। बनेहरिद्वकाः। पूर्वाह्वस्फोटकाः । कपपिशाचकाः। “खौ" [ ३८] इति षसः। हलन्तात । त्वचिसारः। दृपदिमाषकः। युधिष्ठिरः । निपातनाद्गविष्ठिरः । नन्ववादेशेऽन्तरङ्गे कृते हलन्तता न | "अन्तरङ्गानपि विधीन् बहिरङ्ग उब्बाधते" [५०] । अन्यथा नदीकुकुटिकादिषु यणादेशे सत्यनुप प्रसज्येत । श्रद्धल इति किम् ? नद्यां कुक्कुटिका । भूमिशर्करा । भूमपाशः । "अखौ हृद्युभ्यामिवर्थे ईपू तस्याश्चानुब् वक्तव्यः” [प०] । हृदिस्पृक् । दिविस्मृक् । न वक्तव्यः । यो हि हृदयं स्पृशति । “षे कृति बहुलम्" [ ४।३।१३२] इत्यनुप् । स चानुप् हृदिति प्रकृत्यन्तरं यत्तस्माद्भवति । "अप्सुमति चाखौ वक्तव्यम्” [वा०] । अप्सुमान् "अप्सव्य इत्यादावपि वक्तव्यः" [वा०] | अप्सु भवोऽप्सव्यः । अप्सुयोनिः।
कारे प्रायः ॥४॥३।१२८॥ यूथे गृहे क्षेत्रे धान्याद्यं वस्तु रक्षानिर्देशार्थं यदवश्यं राज्ञे देयं स कारः । तद्वाचिनि द्यौ ईपोऽनुन् भवति खौ प्रायः। खाविति वर्तते । श्रद्धल इति च । अदन्तात् । तूपे शाणः । मुकुटे कार्षापणः । हले द्विपदिका | हले त्रिपदिका । द्वौ द्वौ पादौ देयौ । “वीप्सादण्डत्यागे वुन्" [४।२।१०] इति वुन् । “खौं" [१॥३॥३८] इति षसः । हलन्ताद्-दृषदि माषकः । समिधि मापकः । खुविषये पूर्वणैव सिद्ध प्रायोग्रहणार्थमेतत् । तेन कारे वचिदनुम्न भवति । यूथे पशुः । यूथपशुः। यूथे वृपः । यूथवृषः । “खौ" [१॥३॥३८] इति पसः । कार इति किम् ? अभ्याहिते पशु: । कारादन्यस्य देयत्य नामैतत् । उ युपरि पशुस्य इत्यर्थः । “ईपोऽद्धलः" [५।३।१२७] इत्यनेनापि कारग्रहणादिहानुम्न भवति । अद्धल इत्येव जङ्घाकार्षापणः । मधीकार्षापणः। नदीदोहः । कारसंज्ञा एताः।
___ हलि ॥४॥३॥१२६॥ हलादौ कारे द्यौ ईपोऽनुन् भवति । स्तूपेशाणम् । नियमार्थमिदम् । हलादावेव नाजादौ । अविकटोरणः।
मध्यान्ताहरौ ॥४।३।१३०॥ मध्य अन्त इत्येताभ्याम् ईपोऽनुब् भवति गुरौ यो । मध्येगुरुः । अन्ते गुरुः । सविधेरिदमेव ज्ञापकम् । असंज्ञाऽर्थोऽयं यत्नः । ___अकामेऽमूर्धमस्तकात्स्वाङ्गात् ॥४॥३॥१३१॥ मूर्धमस्तकवर्जितात्स्वाङ्गात्परस्या ईपोऽनुबु भवतिअकामे द्यो। कण्ठेकालः । उरसिलोमा। वहे गडुः । उदरे मणिः । व्यधिकरणनामपि कचिवसः । उरसिलोमश इत्यत्र मत्वर्थीये कृते उरसीत्यनेन योगः | अकाम इति किम् ? मुखे कामोऽस्याः मुखकामा स्त्री। अमूर्धमस्तकादिति किम् ? मूर्धशिखः। मस्तकशिखः ।। उभयप्रतिषेधात्स्वरूपग्रहणम् । तेन पर्यायादनुप् । शिरसिशिखः । स्वाङ्गादिति किम् ? पानशौण्डः । स्वाङ्गादिति कर्तुमशक्यम् । मूर्धमस्तकपर्युदासेन स्वङ्ग एव सात्ययात् । तक्रियते "अद्रवं मूर्तिमद्" इत्यादिपरिभाषिकवाङ्गसम्प्रत्ययार्थम् । तेनाप्राणिस्थादनुम्न भवति । मुखे पुरुषा अस्याः मुखपुरुषा शाला । अद्धल इत्येव । अडलिब्रणः । जङ्घावलिः । बसाविमौ । असंज्ञार्थमारम्भः ।
For Private And Personal Use Only