________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अ० ४ पा० ३ सू० ११६ - १२४ ]
महावृत्तिसहितम्
२०१
को दः " [ ४ | १|१३० ] इत्यकि कृते साकइदमो हलि खं न भवति । "अनाप्यकः " [ ५/१/१७० ] इत्यत्र ककारस्येत्यनुवर्तनात् तेनादेशः । गुणसंबन्धे इमकस्य छात्रस्य कुलमशोभनम् अथो अस्य शीलमपि । द्रव्यसंबन्धे इमकस्य राज्ञो जनपदो दुर्विहितः थो अस्य भृत्याश्चावश्याः ।
टोसिन देतदश्च ||४|३|११६ ॥ टा ओोस् इप् इत्येतेषु परत एतद इदमश्च एनदित्ययमादेशो भवति न्वादेशे । एतेन छात्रेण रात्रिरधीता अथो एनेन निपुणमधीता । एनदादेशे कृते त्यदाद्यत्वम् । दकारान्तत्वं नपुंसके प्रयोजयति । एतयोरात्रयोश्शोभनं शीलम् अथो एनयो रूपमपि । एतं छात्र काव्यमध्यापय ग्रंथो एनं गणितमपि । एतं जैनेन्द्रमध्यापय ग्रंथो एनं तर्कमपि । एतमर्थिनः संबध्नते प्रथो एनं मित्राणि च । इदमः
पिने छात्रे रात्रिरधीता अथ एनेन निपुणमधीता । श्रनयोश्छात्रयोः शोभनं शीलम् ग्रथो एनयो रूपमपि । इमं छात्र काव्यनध्याय श्री एनं गणितमपि । इदं सरो भ्रमराः सेवन्ते अथ एनद्विहङ्गाश्च । इदमस्तसोः परतः पूर्वेणाशादेशः प्राप्तोऽन्यत्राप्राप्त एनदादेशः ।
धावनु || ४ | ३ |१२० || द्याविति अनुत्रिति च एतद् द्वितयमधिकृतं वेदितव्यम् । “ज्योतिरुद्गतौ” [१/२/३६ ] इति निर्देशान्न सामान्येन धावनुप । प्राग्गोरधिकाराद् द्यावित्यधिकारः । अनुबधिकारः प्रागानङः । वक्ष्यति “कायाः स्तोकादेः " [ ४ | ३ | १२१ ] स्तोकान्मुक्तः । श्रल्पान्मुक्तः । " स्तोकान्तिकदूरार्थकृच्छ्र " [१|३|३४ ] इति सः । द्वित्वहुत्वयोरनभिधानान्न सः । अभिधानेन भवति । गोषुचरः । वर्षासुजः इति । धाविति किम् ? निष्कान्तः स्तोकान्निः स्तोकः । " ग्रनङ हुन्छ" [४|३|१३८ ] इति द्यावानङादेशः । होतापोतारौ । नेष्टोद्गातारौ । द्यावित्येव । होतारौ । होतृभ्याम् । सुपि माभूत् । "इक: प्रो ङया:" [ ४।३।१७२] इति प्रादेशो द्यौ । श्रामणिपुत्रः । सेनानिपुत्रः । सुपि माभूत् । ग्रामणीभ्याम् ।
कायाः स्तोकादेः || ४ | ३ | १२१ ॥ स्तोकादिभ्यः परस्याः काया अनुभवति द्यौ । “ स्तोकान्तिकदूरार्थकृच्छ्र क्तेन" [१|३| ३४ ] इत्यत्र स्थितः स्तोकादिर्गृह्यते । "स्तोकान्तिकदूरार्थकृच्छ्रं तेन" इति सः। श्रपादानलक्षणेयं का । काया इति किम् ? स्तोकेन मुक्तः स्तोकमुक्तः । स्तोकादेरिति किम् ? बृकाद्भयं वृकभयम् । कथं ब्राह्मणाच्छंसी ऋत्विग्विशेषः । उच्यते रूढशब्दोऽयं गोशब्दवदस्य व्युत्पत्तिः । ब्राह्मणादध्याहृत्यावयवमर्थ वा शंसतीत्येवंशीलः ब्राह्मणाच्छंसी । श्रपादाने का । "साधनं कृता " [ १।३।२६ ] इति सः । “वे कृति बहुलम् ” [ ४|३|१३२ ] इत्यनुप् ।
भाया ओजस्सहोऽम्भस्तपोऽञ्जसः || ४ | ३ | १२२|| श्रजत्, सहस, अम्भत् तपत् इत्येतेभ्यः परस्या भाया अनुभवति । अञ्जसा कृतम् । सहसा कृतम् । श्रम्भसा कृतम्। तपसा कृतम् | "साधनं कृता बहुलम् " [१|३|२६ ] इति सः ।
खौ मनसः || ४ | ३ | १२३ || खुविषये मनसः परस्या भाया अनुभवति । मनसा गुप्ता । मनसा गता । करभा । खाविति किम् ? मनोदत्ता ।
ज्ञायिनि || ४ | ३ | १२४ || श्राज्ञायिनि द्यौ मनसः परस्या भाया अब भवति । मनसा श्राजानातित्येवंशीलो मनसाऽज्ञायी । श्रखावपि यत्नोऽयम् । "पुंसाऽनुजो जनुषान्ध इत्यनुव्वक्तव्यः " [वा०] । अनुजातोऽनुजः । पुंसा हेतुना करणेन वा श्रनुजः पुंसाऽनुजः । “साधनं कृता” [ १।३।२६ ] इति प्रसः । यदा पुमांसमनुजातस्तदा पुमनुज इति । जनुषा जन्मनाऽन्धो जनुषान्धः । “प्रकृत्यादिभ्य उपसंख्यानम् " [वा०] इति भा । "भा गुणोच्याऽर्थेनोनैः” [ १।३।२७ ] इति सः ।
For Private And Personal Use Only