________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैनेन्द्र-व्याकरणम् [अ० ४ पा० ३ सू० ११५-११८ चतुष्पाच्छकुनिष्वपाद्धर्षादौ ॥४।३।११।। अपात्परस्य किरतेश्चतुष्पात्सु शकुनिषु च यो हर्पादिस्तस्मिन् विषये सुड् भवति । दविधिप्रकरणे "किरतेहपजीविकाकुलायकरणे" [१॥२॥३३] इत्यत्र स्थितो हादिगणो गृह्यते । हर्ष-अपस्किरते वृषभो हृष्टः । जीविकायाम्-अपस्किरते कुक्कुरो भक्षार्थी । कुलायकरणेअपस्किरते श्वा श्राश्रयार्थी । चतुष्याच्छकनिष्विति किम् ? अपकिरति देवदत्तो दृष्टः । हर्षादाविति किम् ? अपकिरति धान्यं काकश्चापलेन ।
कुस्तुम्बुरुगोष्पदास्पदाश्चर्यावस्करापस्करापरस्परविष्किरमस्करमस्करिप्रतिष्कशप्रस्करवहरिश्चन्द्रपारस्करप्रभृतीनि च ॥४३॥११६॥ कुस्तुम्बुरुप्रभृतीनि पारस्करप्रभृतीनि च शब्दरूपाणि निपात्यन्ते । कुस्तुम्बुरुशब्दो जातौ निपात्यते । कुस्तुम्बुरुर्धान्यकं तृण जातिः । तत्फलान्यपि कुस्तुम्बुरूणि । जातेरन्यत्र कुत्सितानि तुम्बुरूणि । कुत्सितानि तिन्दुकीफलानीत्यर्थः । गोष्पदशब्दे सुडागमः पत्वं च निपात्यते सेविते। गवां पदमस्मिन् देशे। गावः पद्यन्ते वाऽस्मिन्निति गोष्पदो देशः। गोष्पदमरण्यम् । असेविते नब्यूर्वस्य निपात्यते । न विद्यते गवां पदमभ्याम् अगोष्पदा अरण्यानी । सेवितत्वप्रतिषेधे हि यत्र सेवितत्वसम्भवस्तत्रैव त्यादन्यत्रासम्भवे न स्यादिति पृथगसेवितग्रहणम् । न विद्यतेऽस्मिन्निति विग्रहात् । प्रमाणे गोष्पदमात्र क्षेत्रम् । गोष्यदपूरं वृष्टो देवः । एतेष्विति किम् ? गोपदम् । आस्पदमिति प्रतिष्टायाम् । प्रास्पदमनेन लब्धम् । अन्यत्र आपदापदम् । श्राश्चर्यमित्यद्भुतेऽर्थे ।
आश्चर्य यदि स भुजीत । आश्चर्यमाकाशेऽनिबन्धनानि नक्षत्राणि न पतन्ति । अाचर्य व्रतमन्यत्र । “चरेराडि चागुरौं” [वा०२।११८७] इति यः । अवस्कर इति वर्चस्के । अवपूर्वास्किरतेः कर्मणि "स्वग्रहवृगमोऽच्" [२।३।५२] इति अच् । कुत्सितं वर्ची वर्चस्कम् अन्नमलम् । तत्सम्बन्धाद्देशोऽपि तथोक्तः । अवकरोऽन्यत्र | अपस्कर इति रथाङ्गे। अपकीर्यतेऽसावित्यपस्करो रथावयवः । अपकर इत्यन्यत्र । अपरम्पर इति क्रियासातत्ये । अपरस्पराः सार्था गच्छन्ति । सततं गच्छन्तीत्यर्थः । अपरे परे चेति द्वन्द्वः ।
व्यान्तेऽह्मवश्यमोनाशस्तुमः कामे मनस्यपि । हिते तते समो वा खं मांसस्य पचि युड्घजोः ॥ इति समो मकारस्य खे। सतत शब्दास्यणि सातत्यम् । अपरपराः मार्थाः गच्छन्तीत्यन्यत्र । “विष्किर इति शकुनौ सुडागमो वा निपात्यते । विकिरतीति विष्किरः विकिरो वा शकुनिः । “ज्ञाकप्री" [1१1१0८ इत्यादिना कः । सुट पक्षे "सिवुसहसुट्स्तुस्वन्जाम्" [५।४।५२] इति पत्वम् । मस्करमस्करिणौ. वेणुपरिव्राजकयोः । मस्करो वेणुः दण्डो वा हस्तिदमनः । मस्करी भिक्षुः । मकरो ग्राहः मकरी समुद्रः इत्यत्र । अथवा "शमस्य करे शखमाङः करिशब्दे प्रादेशश्च निपात्यते वेणुपरिव्राजकयोः । प्रतिष्कश इति निपात्यते सहायश्चेत् ।" कश गतिशासनयोरित्यस्य प्रतिपूर्वस्य पचायचि सुडागमः षत्वं च निपात्यते । देशान्तरमहं व्रजामि भवने त्वं प्रतिष्कशः । प्रतिकशोऽन्यः । प्रस्तावहरिश्चन्द्रौ भवत ऋषी चेत । प्रकण्वो देशः। हरिचन्द्रो माणवक इत्यन्यत्र । पारस्करप्रभृतीनां च खौ सुडागमो निपात्यते । पारस्करो देशः । कारस्करो वृक्षः। वनस्पतिश्चैत्ररथं पातीति । रथस्या नदी। किष्कुः प्रमाणम् । किष्किन्धा गुहा । तबृहतोः करपत्योश्चोरदेवतयोः सुट तखं च । तस्करः । बृहस्पतिः । तत्करो बृहत्पतिरित्यन्यत्र । अजस्तुदम् । कात्तीरं च नगरम् । अजनुदम् कातीरमित्यन्यत्र । प्रात्तम्पती गवि कर्तरि । प्रस्तुम्पति गौः । अन्यत्र प्रतुम्पति स्त्री । पारस्करप्रभृतिराकृतिगणः ।
प्रायाञ्चित्तिचित्तयोः ॥४।३।११७।। प्रायात्परयोः चित्तिचित्तयोः सुड् भवति । प्रायस्य चित्तम् प्रायश्चित्तम् । प्रायश्चित्तिः । “स्तो श्चुना श्चुः" [५।४।११६] इति सुटः श्चुत्वम् ।
भादाविदमोऽन्वादेशेऽश् ।।४।३।११८॥ भादौ परत ३दमोऽशादेशो भवत्यन्वादेशे । यस्य पूर्व क्रियागणद्रव्यैः संबन्धः कृतस्तस्यैव पश्चाक्रियागुणद्रव्यान्तरेण संबन्धे क्रियमाणेऽन्वादेशोऽनुकथनं भवति । क्रियासंबन्धे इमकाभ्यां छात्राभ्यां रात्रिरुषिता । अथो अाभ्यां हिंसा च कृता । कुत्साऽज्ञातयोः "झिसर्वनाम्नोऽकप्राक्टेः
For Private And Personal Use Only