________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्र० ४ पा० ३ सू० १०८ - ११४ ]
महावृत्तिसहितम्
२६६
दिघ उत् ||४|३|१०८ || “ एकोऽति पदान्तात् " [४/३/६६ ] इत्यतः पदग्रहणमनुवर्तते । दिवित्येतस्य पदस्योकारादेशो भवति । द्युभ्याम् | युभिः । पदस्येति किम् ? दिवा । दिवे । “निरनुबन्धकग्रहणे न सानुबन्धकस्य " [१०] इति मृद एवं दिवेर्डिवित्यनन सिद्धस्य ग्रहणं न धोरुकारानुबन्धकस्य । अक्षद्युभ्याम् | अक्षयुभिः । दिव्यतेः किपू । "ः शूर् च " [ ४|४|१७३ ] इति ऊठ् | उदिति तपरकरणं किम् ? यावताऽर्धमात्रस्य हलः स्थाने आनन्तर्यामात्रिक एवं भविष्यति । " च्छ्वोः शूद् च" इत्यत्र कितीत्यनुवर्तनादूढोऽपि निवृत्त्यर्थं नोपपद्यते । इहाद्यौ भवतीति च्वावागते निवृत्ते झ (भि)संज्ञकस्य दिव उत्त्वे कृते छु भवतीति "व" [५/२/१३५ ] इति दीत्व निवृत्त्यर्थम् |
हल्येतत्तदोरनसेकोः सुखम् ||४ | ३ | १०६ ॥ सन्धाविति वर्तते । एतत्तदोरककारयोर्हलि परतः सुखं भवत्यनसे । एष ददाति । स ददाति । हलीति किम् ? एषोऽत्र । सोऽत्र । एतत्तदोरिति किम् ? को दाता । यो धन्यः । ग्रनञ्च इति किम् ? अनेषो ददाति । असो ददाति । नञ्स इति प्रसज्यप्रतिषेधः । पर्युदासे हि उत्तरपदार्थप्रधानत्वन्तर एवं सुखं स्यात् । परमैष ददाति । परमस ददाति । केवलयोरनञ्स इति किम् ? वाक्ये भक्त्येव । नैष ददाति । नस ददाति । अकोरिति किम् ? एपको ददाति । सको ददाति । " तन्मध्यपतितस्तद्ग्रहणेन गृह्यते " [१०] इति प्राप्तिः । सग्रहणं किम् ? एतौ तौ चरतः । एतत्तदोरिति द्वित्वनिर्देशाद् वाया एक: सुते । ईपबहुत्वे हि एतत्तेषामिति ब्रूयात् । सुखमिति गमकत्वात्सः ।
सम्पर्युपात्कृञः सुभूषे ||४|३|११०॥ सम्, परि, उप इत्येतेभ्यः परस्य कृञः सुडागमो भवति भूपेऽर्थे | संस्करोति । समत्करोत् । संस्कारः । अन्तरङ्गत्वेन द्वित्वाडागमाभ्यां प्राक्सुट् । परिष्करोति । “सिबुसहसुद्स्तुस्वजाम्” [५१४/५२ ] इति षत्वम् । पर्यस्करोत् । परिचस्कार । उपस्करोति । उपास्करोत् । उपचस्कार | भूष इति किम् ? उपस्करोति ।
समाये ||४|३|१११ ॥ संसर्गः समुदायो वा समवायः । तस्मिन् समादिभ्यः कृञः सुड् भवति । तत्र न संस्कृतमनित्यम् अत्रापि कारणसमवायो गम्यते ।
उपात्प्रतियत्नवैकृतवाक्याध्याहारे ||३|३|११२|| उपात्परस्य कृञः प्रतियत्न वैकृत वाक्याध्याहार इत्येतेष्वर्थेषु भवति । विद्यमानस्य गुणाधानमपूर्वर्जनं वा प्रतियत्नः । तत्र एधोदकस्योपस्कुरुते । काण्डं शरस्योपस्कुरुते । " प्रतियत्ने कृञः " [ १।४।६०] इति कर्मणि ता । विकृतत्वं वैकृतम् । तत्र उपस्कृतं भुङ्क्ते । उपस्कृतं गच्छति । वाक्यैकदेशो वाक्यगभ्यमानार्थस्य वाक्यस्य वाक्यावयवस्य स्वरूपेणोपादानं वाक्याध्याहारः । तस्मिन् उपस्कृतं जल्पति । उपस्कृतमधीते । सोपस्कारं व्याचष्टे । पदान्तराण्यध्याहृतानि कथयतीत्यर्थः । एतेष्विति किम् ? उपकरोति ।
किरतेवे ||४|३|११३|| उपादिति वर्तते । उपात्परस्य किरतेर्लवविषये सुड् भवति । उपस्कीर्य मद्रका लुनन्ति । उपस्कारं मद्रा लुनन्ति । " ञ्चाभीच्ण्ये” [२।४८] इति राम् । “वा चेष्टिवेष्टयोः " [५/२/१६३ ] इत्यतो विकल्पानुवृत्तेराभीक्ष्ण्येऽपि द्वित्वाभावः “युव्या बहुलम् ” [ २|३|६४] इति बहुलवचनादनाभीक्ष्ण्ये वा गम् | लव इति किम् ? उपकिरति देवदत्तः ।
वधे प्रतेश्च || ४ | ३|११४ || प्रतेरुपाच्च परस्य किरतेः सुड् भवति वधेऽर्थं । प्रतिस्त्रीणं हि ते वृपल ब्रूयात् । उपस्कीर्ण हि ते वृषल भूयात् । अत्र वधः किरतेरभिधेयत्वेन विवक्षितो न विषयतया । तदुक्तम्टाच्छान्निधन बिभ्रता नृसिंह सैंहीमतनुं तनुं त्वया ।
"स मुग्धकान्तास्तनसङ्गभङ्गुरैरुरोनिदारं प्रतिचस्करे नखैः ॥ [ शिशु० १४७
D
हतः इत्यर्थः । वध इति किम् ? प्रतिकीर्ण बीजम् । “हनश्च वधः " [२।३।६३ ] इति हन्तेरचि वध इति भवति ।
For Private And Personal Use Only