SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्र० ४ पा० ३ सू० १५५-१५8 ] महावृत्तिसहितम् ३०७ झरूपकल्पवेलबुवगोत्रमतहते प्रोऽनेकाचः || ४ | ३ | १५५ || ईदिति वर्तते । झ, रूप, कल्प, चेल, ब्रुव, गोत्र, मत, हृत इत्येतेषु परतः उक्तपुंस्कात्परो य ईकारः स्त्रीत्यस्तदन्तस्यानेकाचः प्रो भवति । कुमारितरा । कुमारितमा । कुमारिरूपा । कुमारिकल्पा । "तसादौ " इति पुंवद्भाव ईकारादन्यत्र सावकाशोऽनेन प्रादेशेन बाध्यते कुमारिचेली । कुमारिनुवा । कुमारिगोत्रा । कुमारिमता । कुमारिहता । चेलट्शब्दः पचादौ पठ्यते । ब्रूञः शे ब्रुव इहैव निपात्यते । चेलहू ब्रुवगोत्रशब्दाः कुत्सनशब्दाः । “कुत्स्यं कुत्सनैः” [१।३।४८ ] इति सः । मतहताभ्यां विशेषणलक्षणो यसः । श्रनेकाच इति किम् ? स्त्रीतरा । स्त्रितरा । “वा मोः " [ ४।३।१५६ ] इति विकल्पः । उक्तपुंस्कादिति किम् ? ग्रामलकीतरा । बदरीतरा । अनुक्तपुंस्कादपि कचित् इष्यते । लक्ष्मितरा । तन्त्रितरा । ईदिति किम् ? दत्तातरा । गुप्तातरा । स्त्रीत्य इति किम् ? ग्रामरणोतरा। सेनानीतरा । वा मोरिति विकल्पे प्राते पुरस्तादपवादोऽयम् । वा मोः || ४ | ३ | १५६ ॥ मुसंज्ञकस्य वा प्रो भवति झादिषु परतः । अनेन विशेषेण विकल्पे प्राप्ते पुरस्तादनेकाच ईकारस्य नित्यः प्रादेश उक्तः । ततोऽन्यदुदाहरणम् । एकाच् ईकारः ऊकारः सर्वः । तिरा । स्त्रीतरा । स्त्रितमा । स्त्रीतमा । वामोरुतरा । वामोरूतरा । एवं रूपादिष्वपि नेयम् । उक्तपुंस्कादनूरिति निवृत्तम् । एकार्थ इत्येतदनुवर्तते । तेन स्त्रिया हतः स्त्रीहत इत्यत्र न प्रादेशः । कृत्संज्ञकस्य मोर्न भवतीत्येके । लक्ष्मीतरा । लक्ष्मीतमा । उगितश्च ॥ ४३॥१५७॥ उगितश्च परस्य मोर्चा प्रादेशो भवति भादिषु परतः । श्रेयसितरा । श्रेयसीतरा । विदुषितरा । विदुषीतरा । चशब्दः पक्षे पुंवद्भावसमुच्चयार्थः । श्रेयस्तरा । विद्वत्तरा । “रूप” [४|३|१५५] आदिना नित्यः प्रादेशः प्राप्तः पूर्वसूत्राद्वेति व्यवस्थितविभाषाऽपेक्ष्यते । तेनाञ्चतेर्नित्यः प्रादेशः । प्राचितरा । श्रान्महतो जातीये च || ४ | ३ | १५८ ॥ श्राकारादेशो भवति महतो जातीये एकार्थे द्यौ च परतः । महाजातीयः । महापुरुषः । महतः सन्महत्परमेत्यादिना प्रतिपदोक्त द्यौ त्वं सिद्धम् । एकार्थावर्तन सेपि प्राणार्थम् । महाप्राणः । महाबाहुः । जातीये चेति किम् ? महतः पुत्रो महत्पुत्रः । श्रादिति द्विमात्रोच्चारणमुत्तरार्थम् । पुंवद्यजातीयादिसूत्रे पुंवदिति योगविभागात्पु वद्भावः । इहादिति योगविभागादात्वम् । तेन "महत्या घासकार विशिष्टेषु व्यधिकरणत्येऽपि पुंवद्भावात्वे भवतः " [वा०] महत्या घासो महाघासः । महत्याः कारो महाकारः । महत्या विशिष्टो महाविशिष्टः । श्रमहान् महान् सम्पन्नो महद्भूतश्चन्द्रमा इत्यत्र च निवृत्ते “ स्विडाजूर्यादि : " [ १ | २|१३२] इति तिसंज्ञा । भूतशब्देन “ तिकुप्रादयः " [ १३1८१] इति पसे कृते गौणत्वान्महदर्थस्यात्वाभावः । पूर्वोक्तयोगविभागात्त्विह महतीशब्दस्य पुंवद्भावः श्रमहती महती सम्पन्ना महद्भता कन्या । यटनः संख्यायामाशीत्योः प्राक्छतात्त्रेस्त्रयः ४ | ३ | १५६ ॥ द्विष्टन् इत्येतयोराकारादेशो भवति संख्यायां यौ प्राकू शतात् बसमशीतिं च वर्जयित्वा त्रेश्च त्रयसित्ययमादेशो भवति । द्वादश । द्वौ च विंशतिश्च द्वाविंशतिः । “लिङ्गम शिष्यं लोकाश्रयत्वात्" । अथवा द्वद्यधिका विंशतिः द्वाविंशतिः ! समानाधिकरणाधिकद्युखं शाकपार्थिवादिवद्द्रष्टव्यम् । अष्टादश । अष्टाविंशतिः । श्रष्टात्रिंशत् । त्रयोदश । त्रयोविंशतिः । त्रयस्त्रिंशत् । द्वष्टनरिति किम् ? चतुर्दश । संख्यायामिति किम् ? द्विमूली । श्रष्टमूली । त्रिमूली । समाहारे पसः । "संख्यादी रश्च” [ १।३।४७ ] इति रसंज्ञः | "रात्" [३।१।२५] इति ङीविधिः । श्रवाशीत्योरिति किम् ? द्वौ वा त्रयो वा द्वित्राः । श्रष्टदशाः । त्रिदशाः । “संख्याबाड्डोऽबहुगणात् " [४/२/६६] इति ङः सान्तः । द्वयशीतिः । व्यशीतिः । बसेऽशीतौ च न भवति । प्राक्शतादिति किम् ? द्वद्यधिकं शतं द्विशतम् । त्रिशतम् । त्रिसहस्रम् | For Private And Personal Use Only
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy