________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२६६
जैनेन्द्र-व्याकरणम्
[अ० ४ पा० ३ सू० ८२-६०
श्रीमाङोः || ४|३|८२ ॥ गेरिति निवृत्तम् । श्रादिति वर्तते । श्रोम् श्राङ् इत्येतयोः परतोऽवर्णान्तात्पररूपं भवति । का श्रमित्यवोचत् कोमित्यवोचत् । योमित्यवोचत् । सोमित्यवोचत् स्त्री । श्राङि श्रा ऊदा प्रोढा । द्योढा । कदोढा । सोढा स्त्री । आा उता श्रोता । कदोप्ता । श्राङनाङोरेकादेशः तद्वदित्याङ्ग्रहणेन गृह्यते । गिध्वोर्यत्कार्यं तदन्तरङ्गमिति पूर्वमाङः परेण योगः । मर्यादाभिविध्योश्च परेण योगे सति पूर्वेण सह च्यै प्रसज्येत । ऋणात् श्रर्णात् । श्रवर्णात् । श्राङीति पररूपम् । ननु मध्येऽपवादोऽयमेच्यैपो बाधकः कथमुत्तरस्य स्वेऽको दीत्वस्य स्वेऽको दीत्वेऽपीदमनुवर्तत इति तस्यापि बाधा ।
Acharya Shri Kailassagarsuri Gyanmandir
उसि ||४|३|८३॥ उसि परतोऽवर्णान्तात्पररूपं भवति । भिन्युः | छिन्धुः । श्रपुः । श्रुवुः । “श्रातः” [२२४६०] “लङो वा " [२|४|११ ] इति जुम् । लिङादेशे उति प्रयोजनं नास्तीति जुसो ग्रहणम् । कोष्टा । कोषिता इत्यत्र अनर्थकत्वाल्लाक्षणिकत्वाच्चाग्रहणम् । श्रादित्येव । विभयुः ।
एप्यतोऽपदे || ४ | ३ |८४ ॥ अकारस्य पररूपं भवति एयपदे परतः । पचन्ति । पचे । एपीति किम् ? अपचे । श्रादिति वर्तमाने यत इति तपरकरणं किम् ? यान्ति । वान्ति । श्रपद इति किम् ? दण्डाग्रम् । पदादिरयमे ।
डाजहंस्येताघतः ||४|३|८५|| डाजर्हस्य योऽच्छब्दस्तस्येतौ पररूपं भवति । पटत् इति पटिति | छपत् इति छपिति "नानर्थकेन्तेऽल्लोऽन्त्यविधिः " [१०] । इति सर्वस्यातः परत्वम् । डाजर्हस्येति किम् ? श्रदित्याह श्रदिति । श्रव्यक्तानुकरणैकाचौ डाजमुत्पादयतः । इताविति किम् ? पटदत्र । श्रत इति किम् ? छपिदिति
न प्रेस्तो वा ||४३|८६ ॥ म्रिसंशकस्य योऽच्छन्दस्तस्येतौ पररूपं न भवति तकारस्य तु वा भवति । पटत् इति पटपटेति । पटत्-पटदिति । छपच्छपेति । छपच्छपदिति । "वीप्सा" [५/३/३ ] आदि सूत्रेण द्वित्वम् । समुदायानुकरणे भवत्येवातः पररूपम् । पटत्पटिति ।
safe नित्यम् ||४|३|८७ || डाजन्ते म्रौ परतो डाजर्हस्यातस्तकारस्य नित्यं पररूपं भवति । पटपटाकरोति । इदमेव ज्ञापकम् । टिखात्पूर्वे “डाचि" इति द्वित्वम् ।
स्वेको दीः ॥४३॥ कः स्वेऽचि परतो दीर्भवति । द्वयोरेक इति वर्तते । लोकाग्रम् । विद्यान्तः । कवीन्द्रः । मधूदकम् । पितृषभः । स्वे इति किम् ? दध्यत्र । अक इति किम् ? एप्यतोऽपदे इत्यनुवृत्तौ अग्नये । नावावित्यत्रकारौकारयोर्दीत्वे द्वयोरैक्यं प्रसज्येत । यथा सागता । चीत्येव । दधि शीतम् । दीत्ववचनं त्रिमात्राद्यादेशप्रतिषेधार्थम् ।
सुटि पूर्वस्वम् ||४|३|८६ ॥ श्रको दीरचीति वर्तते । अचि सुटि परतः पूर्वस्वं दीर्द्वयोरेको भवति । श्रग्नी । वायू | "एप्यतोऽपदे" [४/३/८४] इत्यनेन प्रकारे परतः पररूपविधिः स्वेऽको दीत्वमनन्तरं बाघते नोत्तरं सुटि पूर्वस्वदीत्वम् । पूर्वग्रहणम् अग्नीत्यादिषु परस्वदीत्वनिवृत्त्यर्थम् । श्रक इत्येव । रायौ । रायः । द्वयोरेकत्वं स्यात् । श्रचीत्येव । देवः ।
शसि ||४|३|१०|| शसि परतः पूर्वस्वं दीर्भवति । मालाः । बुद्धीः । कुमारीः । धेनूः पश्य ।
नश्च पुंसि || ४ | ३ | ६१ ॥ शसि परतः पूर्वस्वं दीर्भवति नकारश्चान्तादेशः पुंसि गम्यमाने । देवान् । कवीन् । पटून् । कर्तृन् । पुंसीति लिङ्गनिर्देशः । लिङ्गं च प्रत्ययधर्मः । वस्तुधर्मे सत्यसति वा यत्र शब्दः पुंलिङ्गाकारं प्रत्ययं जनयति तस्मिन् प्रत्ययवमें पुंसि गम्ये नकारो भवति । वस्तुनि नपुंसकेऽपि पष्ठान् पश्य । स्त्रीरूपेऽपि वस्तुनि दारान् पश्य । स्थूरान् पश्य । अररकान् पश्य । स्थूराया अररकाया अपत्यानि गर्गादित्वाद्य, तस्य बहुवे “यत्रोः " [१|४|१३५ ] इत्युप् । “हृदुप्युप्" [१1१18 ] इति स्त्रीत्यस्य टापोनिवृत्तौ शस्न ( शसो नः ) । इह च पुंलिङ्गाकारप्रत्ययाभावात् सत्यपि प्राणिधर्मे पुंस्त्वे न भवति । चञ्चाः पश्य । वर्धिकाः पश्य । चञ्चा इव चञ्चाः चञ्चासदृशान् पुरुषान् पश्येत्यर्थः । स्त्रीवस्तुन्यपि भवति भ्रकुंसान् पश्य । सत्यपि वस्तुधर्मे नत्वं वृक्षान् पश्य ।
For Private And Personal Use Only