________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अ० ४ पा० ३ सू० ७५-८१] महावृत्तिसहितम् ज्ञापनार्थः । तेन उपसेदुषः पश्य । अनुषुषः पश्य । “वसोर्जिः" [।४।१२०] "जेः [३६५] पूर्वत्वम् । उकाराकारयोरेकादेशः षत्वेऽसद्वन्न भवति ।
आदेप् ॥४॥३।७५॥ अवर्णान्तादचि परत एब् भवति । देवेन्द्रः । गन्धोदकम् । महर्षिः । द्वयोः स्थाने एको भवति । “एङि पररूपम्" [४।३।८:] इत्यत्र परग्रहणं पूर्वापेक्षं तेन परत्यान्तरतमो एबू ऋवणे परतः प्रसज्यमान एव परस्यान्तरतमोऽकारः "रन्तोऽणुः" [११११४८] इति रन्तो भवति ।
एज्यप ॥४।३।७६। अवर्णान्तादेचि परतो द्वयोरेक ऐब् भवति । ("प्रसिद्ध कसुरैश्यस्य सर्वज्ञस्य महौजसः । व्यतीतौपम्यधर्मार्थ वचः पायान्महौषधम् ॥")
"अक्षादहिन्यामैब्बक्तव्यः" [वा०] अक्षौहिणी। "प्रादूहोढोढ्य षैष्येषु" [वा०] प्रौदः। प्रोटिः । प्रैषः । प्रैष्यः । "स्वादीरेरिणोः" [वा०] स्वैरं । स्वैरी। लिङ्गविशिष्टस्य स्वैरिणी । “ऋते भासे" [वा०] दुःखातः । ऋत इति किम् ? सुखेतः । भास इति किम् ? परमतः। स इति किम् ? सुखेनतः । “ऋणदशप्रवत्सतरकम्बलवसनानामृणे" [वा०] ऋणार्णम् । दशार्णम् । प्राणम् । वत्सतराणम् । कम्बलार्णम् । वसनार्णम् ।
इत्येधत्यूट सु ॥४॥३७॥ एति एधति ऊठ इत्येतेषु परतोऽवर्णन्तादैब् भवति । एचीति वर्तमानमेते'विशेषणम । एधतेयभिचाराभावात् । ऊस्वरूपेण गृह्यते । उपैमि । उपैषि । उपैति । उपैधते । प्रैधते । एडिपररूपापवादः । पुरस्तादपवादोऽनन्तरस्य एङि पररूपत्य बाधकः नोत्तरस्य “श्रोमाङोः"[३२] इति प्राड पररूपस्य । तेन आ इतः । एतः । उपेतः । ऊठ-धौतः । धौतवान् । एचीत्येव । उपेतः । प्रेतः । __ अटश्च ॥४॥३७८॥ एचीति निवृत्तमचीति वर्तते । अटश्च अचि द्वयोरेक ऐब् भवति । ऐक्षिष्ट । ऐहिष्ट । श्रीब्जीत् । अौम्भीत् । ऐक्षत । ऐहत । आर्नोत् । ऐक्षिष्यत् । औम्भिष्यत् । चशब्दोऽवधारणार्थः। श्रट एवैचि यथा स्यात् । यदन्यत्प्राप्नोति तन्मा भूत् । अोङ्कारमैच्छत् । औङ्कारीयत् । “एप्यतोऽपदे" [१।३।४४ "श्रोमाङो" ८२] इति पररूपं प्राप्तम् । या उद अोढः अोढमैच्छत् प्रौढीयत् । “ोमाडोः" [ २] इति पररूपं प्राप्तम् । उस्रामैच्छत् श्रौत्रीयत् । प्रतिपदोक्तपरिभाषानाश्रयणे "उसि" [४।३।३] इति पररूपं प्राप्तम् ।
धावृति गेः ॥४॥३७६॥ आदिति वर्तते । अवर्णान्ताद्गः ऋकारादा धौ द्वयोरेक ऐब भवति । उपार्छति । प्रार्च्छति । उपाध्नाति । प्रार्नोति । प्रसज्यमान एवैप "रन्तोऽणुः” [॥१॥४८] इति रन्तो भवति । गेरिति किम् ? इहर्छति । प्रगता ऋच्छका अस्मिन् देशे प्रर्छको देशः। ऋतीति किम् ? प्रेक्षते । तपरकरणं किम् ? उप ऋकारीयति उपक यति । “वा सुपि" [४३८०] इति विकल्पः प्रसज्येत । गेरिति निर्देशाद् धुग्रहणे लब्धे धाविति किम् ? धावेव यथः स्यात "ऋत्यकः" [४।३।१०५] इति प्रकृतिभावो धोर्मा भूत् ।।
वा सुपि ॥४।३।८०॥ ऋ! रादौ सुब्धौ गेरिवर्णान्तस्य वा ऐब् भवति । उपार्षभीयति । उपर्षभीयति । प्रार्षभीयति । प्रपंभीयति । “गेरध्वनः" [४।२।८७] इत्यत्र यथा गिसंज्ञोपलक्षितानां ग्रहणं तथेह मा भूदिति धुग्रहणमनुवर्तते । प्रर्षभं वनम् इत्य न भवति ।
- एङि पररूपम् ॥४॥३॥८१॥ आदिति वर्तते । गेर्धाविति च । अवर्णान्ताद्रेः एङादौ धौ पररूपमेकादेशो भवति । उपेलयति । प्रेलयति । उपरोषति । ऐषि प्राप्ते “वा सुपि" [४।३।८०] इत्यपि वर्तते । उपेलकीयते । उपैलकीयते । उपोदनीयति । उपौदनीयति । एङि परमिति सिद्ध रूपग्रहणादिष्टं लभ्यते । "एवे चानियोनेपाल वि० इहेव । अयेव । अनियोग इति किम् ? इहैव भव माऽद्य गाः। “शकन्ध्वादिषु पररूपम्" [वा०] शकअन्धुः शकन्धुः । कर्क अन्धुः कर्कन्धुः । कुलटा । सीमन्तः केशेषु । सीमान्तोऽन्यत्र । "प्रोत्वोष्ठयोः से वा पररूपम्' [वा०] स्थूलोतुः । स्थूलोतुः । विम्बोष्ठी । बिम्बौष्ठी । “नासिकोदरौष्ठ" [३।११४८] इत्यादिना की । स इति किम् ? वाक्ये मा भूत् । पश्योष्ठं देवदत्त ।
For Private And Personal Use Only