________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६४
जैनेन्द्र-व्याकरणम् [अ० ४ पा० ३ सू०६६-७४ शक्तौ ॥४॥३॥६९॥ अयमपि नियमः । शक्तावेव क्षिज्योरयादेशो नान्यस्मिन्नथें । क्षेयम् ।
धोस्तस्मिन्नेव ॥४॥३७०॥ धोस्तस्मिन्नेव यित्ये य एच तस्यायादयो भवन्ति । लज्यम् । अवश्यलाव्यम् । धोरिति किम् ? मृदो नियमो मा भूत् । माण्डव्यः । गव्यम् । तन्निमित्तस्यातन्निमित्तस्य च "यि त्ये" [३।६७] इत्यादेशः । तन्निमित्तस्येति किम् ? उपोयते । औयत । लौयमानिश्चैत्रः । कर्मणि लट् । यक जित्वम् । गिधोर्यकाय तदन्तरङ्गमिति "श्रादेप" [१।३.७५] । लटि लावस्थायामडागमोऽन्तरङ्ग इति “अटश्च” [४३.७८] इत्यैप् । अन्तरङ्गपरिभाषा ह्यनित्या तेन बहिरङ्गत्वेऽप्येप् । लोयमानिरिति प्रत्युदाहरणम् । एवकार इष्टतोऽवधारणार्थः। घोरेव तस्मिन्निति नियमो मा भूत् | एवं हि बाभ्रव्य इत्यत्र न स्यात् ।
क्रय्यः स्वार्थे ॥४॥७२॥ कय्य इति निपात्यते स्वार्थे गये । स्वार्थो द्रव्यविनिमयः। कय्यः कम्बलः। क्रव्या गौः । क्रयार्थ प्रसारितः। अन्यवस्तुसंग्रहार्थमिति यावत् । क्षिज्योरिति नियमादप्राप्तोऽयादेशो निपात्यते । स्वार्थ इति किम् ? क्रेयं धान्यं न चास्ति क्रय्यं स्वीकर्तव्यं धान्यं किं तर्हि परकीयम् । क्रयार्थ प्रसारितं नास्तीत्यर्थः ।
द्वयोरेकः ॥४॥३॥७२॥ "ख्यत्यादतः" [३६] इति वक्ष्यति । प्रागेतस्माद् द्वयोः पूर्वपरयोरेको भवतीत्येषोऽधिकारो वेदितव्यः । वक्ष्यति आदेषु । देवेन्द्रः । द्वयोग्रहणं किम् ? पूर्वपरयोयुगपदादेशप्रतिपत्त्यर्थम् । इतरथा हि यत्र कानिर्देशः सावकाशस्तत्र पूर्वस्य निर्देशः। यत्रेम्निर्देशः सावकाशस्तत्र परस्य । ततश्च पर्यायेण कार्य स्याद् यथा “सचस्योभौ" [५१०५] इत्यत्र णकारद्वयम् । एवमिहापि कार्यद्वयं माभूदित्येक ग्रहणं क्रियते।
तद्वत् ॥४॥३॥७३॥ द्वयोरेक इति वर्तते । तयोरिव तद्वत् । तयोविद्यमानयोर्यत्कार्य तत्कृतेऽप्येकादेशे यथा स्यात् । यत्पूर्वमवयवमाश्रित्य कार्य क्रियते, यच्च परं तत् कृतेऽप्येकादेशे भवति । असति सूत्रेऽवयवग्रहणेन न गृह्येत । क्षोरोदकवत् । पूर्वावयवे प्रयोजनम् । वामोरूरिति मृद ऊरित्यमृदो मृदमृदोरेकादेशो मृद्वद्भवति । यथा शक्येत कर्तुं मृद इति स्वादिविधिः । अन्यथा वृक्षः प्लक्ष इत्यादावेव स्यात् । परावयवे प्रयोजनम्देवावित्यत्रोकारः सुम् । असुबकारः। सुबसुपोरेकादेशः सुब्बद् भवति । यथा शक्येत कर्तुम् “सुम्मिङन्तं पदम्" [१।१०३] इति । अन्यथा साधुः पूज्य इत्यादावेव स्यात् । अधोत्येत्यत्र द्वयोरेकादेशेऽपि प्राश्रयस्तुकू सिद्धः । "उभयत आश्रयणे न तद्वद्भावः” [वा०] । तेन उपोह्यते । प्रोह्यते इत्यत्र “गेरूहः प्रः" [५।२।१३२] इति उभयाश्रयः प्रादेशो न भवति । इह कार्यातिदेशोऽभिप्रेतो न रूपातिदेशः । तेन वर्णाश्रये विधौ तद्वद्भावो न भवति । मालाभिरित्यत्र पूर्वान्तत्वमाश्रित्य "भिसोऽत ऐस्" [५/११८८] इति न भवति । जुहावेत्यत्र "थस्य' [४।३।३०] इति ह्वयतेजौ कृते "जे:” [४।३।६५] परपूर्वत्वे च तस्य परवद्भावात् "जातो णलः औ" [५।२।३०] इति न भवति । अत्यै अङ्कः परवद्भावाभावात् । “एङोऽति पदान्तात्" [४१३१६६] इति न भवति । अस्या अंङ्क इति सिद्धम् । वत्कणात् स्वाश्रयमपि । तेन ङोटोस्तुकं प्रति परादित्याभावे "वा पदस्य" [ ६] इति विकल्पः सिद्धः । वृक्षेच्छत्रम् । वृछत्रम् । अपचेच्छत्रम् । अपचेछत्रम् । संवेञः क्वौ जिः । जेः पूर्वत्वम् । तस्य परादित्वाभावे प्राश्रयस्तुक सिद्धः। समुत् ।
षत्वेऽसद्वत् ॥४।३।७४॥ षत्वे कर्तव्ये एकादेशोऽसद्वद्भवति। त्यादेशलक्षणे प्राप्त प्रतिषेधार्थमिदम् । कोऽय । योऽस्य । कोऽस्मै। कोऽसिचत् । योऽसिचत् । "ह्वालिप्सिचः" [२११०४६] इत्यत् । “एडोऽति पदान्तात" [ १६] इत्येकादेशस्यासिद्धत्वादिण उत्तरस्य त्यादेशसकारस्य षत्वं प्रसक्तं न भवति । "नाद्यन्ते" [५/७६] इति षत्वप्रतिषेधो न सिध्यति तद्वद्भावेन परादित्वादेकादेशस्य । ननु चैकपदाश्रये पत्वेऽन्तरङ्गे एकादेशस्यासिद्धत्वम् | अनित्यैषा परिभाषा । ततोऽक्षधरित्यत्र बहिरङ्ग ऊठ यणादेशे नासिद्धः। घेऽसददिति सिद्ध षत्वे इति गुरुनिर्देशः किमर्थः ? पादान्तपदाचोरेकादेशः षत्वेऽसदद्भवति । नान्यत्रेति
For Private And Personal Use Only