________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अ० ४ पा० ३ सू० ५८-६८ ] महावृत्तिसहितम्
२६३ प्रात् ॥४॥३॥५८॥ प्रान्तात्परस्य केः खं भवति । हे देवदत्त । हे जिनदत्त । बसपक्षेऽनजिति वर्तते तच्च प्रादिति कानिर्देशात् तान्तं सम्पद्यते । ततः केरवयवस्यानचः खं भवति । एवं हे कुएडेत्यत्र हलो मकारस्य खं भवति । हे कतरदित्यत्र स्वमोः परतः किकृते "नपः स्वमोः" [५।१।२०] इत्युप् ।
पिति कृति तुक ॥४॥३५९।। प्रादित्यस्य तापक्लूप्तिः । पिति कृति तुगागमो भवति प्रान्तस्य । प्रकृत्य । प्रस्तुत्य । अग्निचित् । सोमसुत् । कृतीति वचनाद्धोरयं तुक | पितीति किम् ? चितम् । स्तुतम् । कृतीति किम् ? बहुकर्तृकः । प्रस्येति किम्? प्रलूय । ग्रामणीः । ग्रामणीकुलमित्यत्र बलाश्रयस्य प्रादेशस्यासिद्धत्वान्नान्तरङ्गस्तुक् ।
सन्धौ ॥४॥३॥६०॥सन्धावित्यधिकारो वेदितव्यः । यदित ऊर्ध्वमनुक्रमिष्यामः सन्धिविषये तद्वेदितव्यम् । लोकत एव संश्लेषः सन्निकर्षो वा सन्धिरिति ज्ञातव्यम् । यथा "एप्यतोऽपदे" [३४] अत्रेकारादिः । वक्ष्यति 'अचीको यण" [४३३६५] । दध्यशान । सन्धाविति किम् ? दधि अशान ।
छे॥४।३६१॥ छकारे परतः सन्धौ प्रस्य तुम्भवति । गच्छति । इच्छति । पृच्छति । प्रस्यात्र तुझ्न तदन्तस्य । यदि प्रान्तस्य स्याच्चिच्छिदुरित्यत्र "हलोऽनादेः" [५।२।१६ खं प्रसज्येत । नन्वक्यवावयवोऽपि समुदायावयव इति खं प्राप्नोति । एवं तर्हि पूर्वान्तकरणाधिकारात्वं न भवति ।।
प्राङ्माङोः ॥४॥३६६२।। प्राङ् माङ् इत्येतयोश्छे परतस्तुग भवति । ("ईषदर्थे क्रियायोगे मर्यादाऽभिविधौ च यः। एतमातं ङिन्तं विद्याद्वाक्यस्मरणयोरङित् ॥")
ईपच्छाया आच्छाया। क्रियायोगे-आच्छिनत्ति । मर्यादाऽभिविध्योः । आच्छायायाः । माङमाच्छिदत् । माच्छासीत् । “वा पदस्य" [४।३।६४] इति विकल्पः प्राप्तः। अनूल (नुबन्ध) करणं किम् ?
आच्छात्रमानय । श्राछात्रमानय । स्मरणे डित्त्वं नास्ति । उपमा छत्रमानयति । “गामादाग्रहणेष्वविशेषः" [प०] इति प्राप्तिः । अथवा नेदं प्रत्युदाहरणम् । श्राङा सहचरितस्य माङो निसंज्ञकस्य ग्रहणाद्धोरप्राप्तिः ।
द्यः ॥४।३।६३॥ दीसंशस्य छे तुम्भवति । होच्छति । म्लेच्छति । अपचाच्छाद्यते ।
वा पदस्य ॥४।३।६४॥ धन्तत्य पदस्य छे वा तुग्भवति । कुवलीच्छाया । कुवलीछाया । शमीच्छाया। शमीछाया । दीसंज्ञकस्य तुग्भवति स चेत्पदस्येति । तेनासामध्येऽपि तुग्विकल्पः सिद्धः। तिष्ठतु कुमारी छत्रं हर देवदत्त ।
अचीको यण ॥४।३।६५। अचि परत इको यणादेशो भवति । दद्वथशान । मद्ध्वपनय । “अनचि" [५/१२७ इति द्वित्वम् । भर्थः । लाकृतिः । “असिद्धं बहिरङ्गमन्तरङ्ग" [प०] इति यादीनां न स्फान्तखम् । अचीति किम् ? दधि करोति । मधु कृतम् । इक इति किम् ? भवानन्त । हलो मा भूत् । स्वेऽचि दौत्वं वक्ष्यति । पारिंशेष्यादन्यत्र यण।
--एचोऽयवाभावः ॥४॥३॥६६॥ एचः स्थाने अय् अव् आय् ाव इत्येते आदेशा भवन्ति अचि परतः । चयनम् । लवनम् । चायकः । लावकः । कयेते । पटविह ।
यि त्ये॥४।३।६७॥ यकारादौ त्वे अयादय आदेशा भवन्ति । बाभ्रव्यः । माण्डव्यः । गव्यः । नाव्यो हृदः । यीति किम् ? गोभ्याम् । नौभ्याम् । त्य इति किम् ? गोयानम् । नौयानम् । योति योगविभागः। तेन गोयंता. वध्वपरिमाणे अनादेशो भवति । गव्यूतिः । अयायादेशयोः केचित्प्रतिषेधमिच्छन्ति । तेन रायमिच्छति रैयति ।
क्षिज्योः ॥४॥३६॥ क्षि जि इत्येतयोरेचो यि त्येऽयादेशो भवति । क्षेतुं शक्यं क्षय्यम् पापम् । जेतु शक्यो जय्यः शत्रुः । “शकि लिङ च” [२।३।१४८] इति व्या भवन्ति । नियमार्थोऽयमारम्भः। धुषु क्षिज्योरेव नान्यस्य धोः। चेयम् । नेयम् । तत्रापि तुल्यजातीययोरेकारैकारयोनिवृतिः । धोरोकारौकारयोः पूर्वेणावावादेशौ भवतः । लव्यम् । पव्यम् । अवश्यलाव्यम् । अवश्यपाव्यम् । मयूरव्यंसकादित्वात्सः । व्यान्ते झवश्यमोनाश इति ।
For Private And Personal Use Only