________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६२
जैनेन्द्र-व्याकरणम् [अ० ४ पा० ३ सू० ४६-५७ ईतः षुङ् नित्यम् ॥४॥३॥४६॥ विभतेरीकारान्तस्य हेतुभयेऽर्थ नित्यं घुगागमो भवति णौ परतः । मुण्डो भीषयते । जटिलो भीषयते । ईत इति निर्देशादैपः प्रागेव षुक् । हेतुभय इत्येव । कुञ्चिकयैनं भाययति । नात्र साक्षात्प्रयोजको भयकारणम्; किन्तर्हि ? करणात् । दविधिश्च न भवति ।
स्मिङः ॥४॥३॥५०॥ हेतुभय इति वर्तते णाविति च । स्मिङ् इत्येतस्य णौ परत श्रात्वं भवति हेतुभयेऽथे । मुण्डो विस्मापयते । जटिलो विस्मापयते "णे स्मेर्हेतुभये" [१।२।६४] इति दः। हेतुभय इति किम् ? कुञ्चिकयैनं विस्माययति । स्मयत्यर्थ एव भयमित्युपचर्यते । नहि मुख्यवृत्या भये स्मयतेवृत्तिः ।
झल्यकिति सृजदृशोऽम् ॥४॥३॥५१॥ झलादावकिति परतः सृदृशोरमागमो भवति । स्रष्टा ।स्रष्टुम् । स्रष्टव्यम् । द्रष्टा । द्रष्टुम् । द्रष्टव्यम् । विशेषविहितत्वात्सामान्यविहितस्य "ध्युङः” [५।२।८३] एपो बाधकोऽयम् अनाक्षीत् इत्यत्र पूर्वममि कृते “व्रजवद" [५।११७६] इत्यादिनै । झलीति किम् ? सर्जनम् । दर्शनम् । अकितीति प्रसज्यप्रतिषेधादिह न भवति रज्जुसृड्भ्याम् । देवदृग्भ्याम् । धोः स्वरूपग्रहणे तत्यविज्ञानाद्वा ।
वाऽनुदात्तस्यर्दुङः ॥४॥३॥५२॥ अनुदात्तस्य धोः ऋदुङः वा अमागमो भवति झलादावकिति परतः । त्रप्ता । ता । द्रप्ता । दर्ता । तृपिपीरधादौ विकल्पितेटौ तत्रानुदात्तपाठोऽमागमार्थः । अनुदात्तत्येति किम् ? बर्दा तर्दा । वृढः । तृढः । उदित्वात्पक्षेऽनिटौ । ऋदुङः इति किम् ? भेत्ता । भेत्तुम् । झलीत्येव । तर्पणम् । दर्पणम् । अकितीत्येव । दृप्तः।
ध्वादेः षस्सः ॥४॥३॥५३॥ धोरादेः षकारस्य सकारादेशो भवति । अज्दन्त्यपरा सादयः पोपदेशाः । सृपिसृजिसत्यास्तृसेकसृवर्जम् । स्वदिस्मिविदिस्वञिस्वपयस्तु मूर्धन्यादिपाठाः । उदाहरणम् । पह सहते । षिच सिञ्चति । भिष्वप् सुतः । “त्यादेशयोः” [५।४।३६] इति पवार्थ श्रादेशः । धोरिति किम् ? षोडन् । षडिकः । श्रादेरिति किम् ? लषति । धोरिति वर्तमाने पुनधुग्रहणं धुरखे यो युः तदादेः षकारस्य सत्वार्थम् । सुब्धोर्मा भूदिति | पोडोयते । पण्डी । “ष्टीवतिवष्कतिष्ठ्यायतीनां प्रतिषेधो वक्तव्यः" वा०] । टिव थकारपरः ठकारपरश्चेष्यते । तेन चविकारे तेष्ठीव्यते । टेष्ठोव्यते ।
यो नः ॥४॥३॥५४॥ धोरादेणकारस्य नकार आदेशो भवति । सर्व नादयो णोपदेशाः । नृतिनन्दिनक्कनदिनटिनार्धनाश्र्वर्जम् । णम्-नमति । णी-नयति । णह-नह्यति । “गेरसेऽपि विकृतेः" [५।१६८] इति णत्वार्थमादेशः । पुनर्धग्रहणात्सुब्धोएंकारस्य नत्वं न भवति । णकारीयति । वादेरित्येव । चणति | योगविभागः सत्वस्य श्रीवत्यादावनित्यत्वज्ञापनार्थः ।
वलि व्योः खम् ॥४॥३५॥ वलि परतो वकारयकारयोः खं भवति | धोरधोर्वा । देदिवः, सेसिवः । यजन्ताद्वसि वकारस्य खम्। जीवरदानुक् । जीरदानुः। यकारस्य,ऊपो-ऊत्तम् । क्नूयी-क्नूतम् । “असिद्धं वाहिरङ्गमन्तरङ्गे" प०] इत्यनिल्या तेन बहिरङ्गे इयादेशे एयादेशे च सत्यन्तरङ्गं यखम् । पचेत् । दासेरः । क्विपि कण्ड्रयतेः बोभूयतेश्च कण्डूः । बोभूः । अतः खे कृते "बलि व्योः खम्"नित्यत्वात्विपः खेऽपि क्वचिद्वर्णाश्रयेऽ त्याश्रयमिति त्यखे त्याश्रयाद्लादित्वम् । वलीति किम् ? दीव्यते । ताय्यते ।
हल्ङ यापो द्यः सुसिप्त्यनच् ॥४॥३॥५६॥हलन्तात् ङी च अाप च या दीः तदन्ताच्च परेषां सुलिप्तीनां खम् । व्यर्थ स्कान्तखेन सिद्धमिति चेत्, न सिध्यति । उखादित्यत्र कान्तखस्यासिद्धत्वे पदान्तत्वाभावाइत्वं न स्यात् । स्फादिसिखे वा विभक्तिसकारस्य रित्वविसर्जनीयौ स्याताम् । अभिनोऽत्रेति स्फान्तखस्यासिद्धत्वादेरुत्वं न स्यात् । अबिभर्भवानित्यत्र "रात्सः" [५।३।४२] इति नियमात्तिपः खं न स्यात् ।
केरेङः ॥४।३।५७॥ के खं भवति एङन्तादुत्तरस्य । हे अग्ने । हे वायो। प्रादिति खात्परत्वेन 'प्रस्यैप्" [५।२।१०३] इति एए ।
For Private And Personal Use Only