________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अ० ४ पा० ३ सू० ३६-४८] महावृत्तिसहितम्
२६१ न व्यो लिटि ॥४॥३॥३६॥ व्ययतेलिट्यात्वं न भवति । संविव्याय । संविव्ययिथ । णलि “चस्यैषा लिटि" [।३।१३] इति जिः । “णित्यचः " [५।२।३] इत्यैप् । आयादेशः। थे "वोपदेशे” [५।१।१०८] इति सूत्रे "अव्याद्" इति प्रतिषेधात्कादिनियमादिट् ।
॥४३॥४०॥ स्फुरि स्कुलि इत्येतयोरेच श्रात्वं भवति घत्रि परतः । विस्फारः । विस्फालः । “भावे" [२।३।१७] "अकर्तरि" [२।३।१८] "हलः" [२।३।१०२] इति “करणाधिकरणयोः" [२।३।१६] वा यत् । “स्फुरिस्कुयोनिनिवेः" [५/४/५८] इति वा षत्वम् ।
क्रीजेो ॥४॥३॥४१॥ की इङ् जि इत्येतेषामेच अात्वं भवति णी परतः । क्रापयति। अध्यापयति । जापयति । परनिमित्तस्याप्येच प्रात्वमनेन विधीयते ।
सिध्यतेरज्ञाने ॥४॥३॥४२॥ णाविति वर्तते । सिध्यतेरेच प्रात्वं भवति ज्ञानादन्यत्र णौ परतः । अन्नं साधयति । अर्थ साधयति । अज्ञान इति किम् ? प्राचारः कुलं सेधयति । क्षमा धर्म सेधयति । ज्ञापयतीत्यर्थः । श्यविकरणनिर्देशाविध गतावित्यस्य भौवादिकस्याग्रहणम् ।
मिमीन्दीङ प्ये च ॥४॥३॥४३॥ मिञ् मीत्र दीङ् इत्येतेषां प्ये च एचश्चात्वं भवति । प्ये प्रमाय । एद्विषये प्रमाता । प्रमातुम् । प्रमापयति । मिझो निमाय । निमाता । निमातुम् । निमापयति । दौड:अवदाय । अवदाता । अवदातुम् । अवदापयति । चकारो ज्ञापकः । परनिमित्तस्यैच श्रात्वं न भवति । तेन चेतादिष्वात्वाभावः । एच इत्यर्थवशाद्विशेषणलक्षणा •ता । एचो या प्रकृतिस्तस्याः प्राक्योत्पत्तेरात्वं भवति । एवं चाकाराएणधन्युचः सिद्धाः। अवदायः "श्याव्यध" [२११४] श्रादीति णः । अबदायो वर्तते । सुदानम् । “निमिमीलियां खाचोरात्वप्रतिषेधो वक्तव्यः" [वा०] सुनिमयः। निमीनाति निमानं वा निमयः। "अकर्तरि वाऽचि प्रतिषेधः । एवं मिनोतेरपि । लियो "विभाषा लियोः" [३।४४] इति व्यवस्थितविभाषा ज्ञापनादेव खाचोःप्रतिषेधः सिद्धः ।
विभाषा लियोः ॥४॥४४॥ लिनातेलीयतेश्च विभाषयाऽऽत्वं भवति प्ये एविषये च । विलाय विलीय । एज्विषये विलाता । विलेता। विभाषेति व्यवस्थितविभाषा । तेन धाष्टर्यसम्माननयोरात्वम् । श्येनो वर्तिकामपलापयते ।
णम्यपगुरो बा ॥४॥३॥४५॥ एच इति वर्तते । णमि परतः अपगुर एच प्रात्वं भवति वा । अपगारम् । अपगोरम् । अस्यपगारं युध्यन्ते । अस्यपगोरं युध्यन्ते । “प्रमाणासत्योः" [२१४६३६] इति णम् । “वा भादि" [११३८४] इति पसः । पुनर्वाग्रहणं पूर्वस्य व्यवस्थितविभाषाज्ञापनार्थम् ।
॥४॥३॥४६॥ चिज स्फुर इत्येतयोगी परत एचो वाऽऽत्वं भवति । धर्म चापयति । धर्म चपयति । नयनं फारयति । नयनं स्कोरयति ।
प्रजने वातः॥४॥४७॥ प्रजनेऽर्थे वाते परतो वाऽऽत्वं भवति । पुरो वातो गाः प्रवापयति । पुरो वातो गाः प्रवपयति । लवणं गाः प्रवपयति । लवणं गाः प्रवापयति । प्रजनो गर्भाधानम् । वातेः प्रजनेऽर्थे वृत्तिास्ति तेनारम्भः।
विभेतेर्हेतुभये ॥४॥३॥४८॥ बिभेतेहे तुभयेऽथे णौ परतो वाऽऽत्वं भवति । मुण्डो भापयते । जटिलो भापयते । मुण्डो भीषयते । जटिलो भीषयते । हेतुः स्वतन्त्रस्य कर्तुः प्रयोजकः । ततः साक्षाद्भयमत्र प्रतीयते । भयशब्दो भावसाधनोऽपादानसाधनो वा । नपुंसकलिङ्गे भावे "अज्विधौ भयादीनामुपसंख्यानम्" [वा०] कादिनिवृत्त्यर्थम् । भावे हेतोभयं हेतुभयम् । अपादाने हेतुरेव भयं हेतुभयमिति शेयम् । “णे स्मेर्हेतुभये" [१।२।६४] इति दविधिः । श्रात्वाभावपक्षे "ईतः पुनित्यम्" [॥३॥४६] इति षुक् । हेतुभय इति किम् ? कुञ्चिकयैनं भीषयति । नात्र प्रयोजकाद्धेतोभयं किन्तर्हि कुञ्चिकारूपात्कारणात् । तिपा निर्देशो यबन्तनिवृत्यर्थः बिभेति तमन्यः प्रयुङ्क्ते (भाययति पुनः पुनरतिशयेन भाययति,) बिभाययीति ।
For Private And Personal Use Only