________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६०
जैनेन्द्र-व्याकरणम् [अ० ४ पा० ३ सू० ३०-३८ आदेरेकाच इत्यनुवर्तनात् । एवं तींदमेव ज्ञापकम् । थस्य निमित्तेऽन्येन व्यवहिते जिन भवति । तेन सिद्धम् । जिह्वायकीयिषति । हायकमिच्छति । ह्वायकीयतेः सन् ।
थस्य ॥४॥३॥३०॥ ह्वयतेस्थस्य जिर्भवति । जुहषति । जोहयते । जुहाव । सामर्थ्यात्थनिमित्ते परतो जिदितव्यः । अत्रोपचारात्थार्थो हृयतिस्थ: तस्य जौ कृते द्वित्वम् ।
न जौ जिः॥४॥३॥३१॥ जौ परतः पूर्वस्य जिन भवति । विद्धः । विचितः। संवीतः। बचेजिवचनं ज्ञापकम् । "अन्तेऽलः" [१॥१॥४६] इति नाश्रीयते । “अनन्त्यविकारेऽन्त्यसदेशस्य" प०] इत्यनित्या । तत एकेनापि योगेनयावन्तो यणन्तेषां सर्वेषां जो प्राते प्रतिषेधोऽयम् । ननु तथाप्येकयोगेन युगपजे : पूर्वस्य परस्य च निवृत्तस्वात्सिद्धस्य कथं प्रतिषेधः १ अत्रोच्यते-न जौ जिरिति स्वाश्रयकार्यस्य जेः परपूर्वत्वस्य प्रतिषेधः । ततो यणादेशे सति सिध्यति रूपम् । पुनर्जिग्रहणं प्रकरणान्तरविहितस्यापि जेः प्रतिषेधार्थम् । यूना । यूने । “श्वयुवमघोनोऽहति" [४।४।१२१] इति जिः । अत्र स्वेऽको दीत्वस्य स्थानिवद्भावादुकारेण व्यवधानं न चिन्तनीयम् । "प्रपूर्वस्य स्त्यः” [।३।१८] इत्यत्र पूर्वस्येति वर्तते । तेन पूर्वमात्रस्य प्रतिषेधः । उपोषुषा । उपोषुषे इत्यत्र भिन्ननिमित्तत्वान्न प्रतिषेधः । जावित्यत्रेकारोऽपि प्रश्लिष्यते ततः श्वयतेः कचि न जिः । अशिश्वियत् ।
लिटि शो यः॥४॥३२॥न जिरिति वर्तते। लिटि परतो वेजो यकारस्य जिन भवति । वेजो यकारस्याभावात् वयेर्यकारस्य प्रतिषेधः । वेञ्ग्रहणस्योत्तरत्र प्रयोजनम् । ऊयतुः । ऊयुः । स्थानिवद्भावेन यजादित्वात् किति जिः प्राप्तः । लिड्ग्रहणमुत्तरार्थम् ।
वो वा किति ॥४॥३॥३३॥ लिटि किति परतो वो वकारस्य जिन भवति । ऊवतुः । ऊचुः । यजादित्याजिः प्राप्तः “प्ये च” [४।३।३४] इति वक्ष्यमाणेन प्रतिषद्धोऽनेन विकल्प्यते। परत्वाज्जौ कृते द्वित्वम्। "वार्णाद् गावं बलीयः" [परि०] इत्युवादेशे कृते स्वेऽको दीत्वम् | पने-ववतुः । वयुः। वेत्रग्रहणानुवृत्तेः स्थानिवद्भावेन वयि वकारस्य न प्रतिषेधः । कितीति किम् ? वविथ ।
प्य च ॥४॥३॥३४॥प्ये लिटि च वेजो जिन भवति । प्रवाय । उपवाय । ववौ । ववतुः । वत्रुः । बविथ । किद्ग्रहणं वाग्रहणं चानधिकृतम् । “चस्यैषां लिटि" [१।३।१३] इति यजादित्वाच्च जो प्राते प्रतिषेधोऽयम् । अस्मिन्नेव नित्ये प्राप्त कित्सु 'वो वा किति [३३३३] इति विकल्पः । वेग्रहणानुवृत्तरिह स्थानिवद्भावाभावाद् वयेरप्रतिषेधः । उवाय । ऊयतुः। ऊयुः । स्थानिवद्भावे हि "लिटि वेजो यः" [४३॥३२] इत्यनर्थकं स्यात् । अनेनैव यकारस्यापि प्रतिषेधः स्यात् । .
ज्यः ॥४॥३॥३५॥ ज्या इत्येतस्य प्ये जिन भवति । प्रज्याय । उपज्याय । चानुकृष्टत्वाल्लिटीति निवृत्तः । व्यः ॥४॥३॥३६॥ व्या इत्येतस्य च प्ये जिन भवति । प्रत्याय । उपव्याघ । सूत्रान्तरमुत्तरार्थम् ।
परेवा ॥४॥३॥३७॥ परेरुत्तरस्य व्या इत्येतत्य प्ये वा जिभवति । परिवीय । परिव्याय । परत्वाद्दोत्वे कृते तुगभावः ।
एचोऽशित्याः ॥४३३८॥ धोरिति वर्तते। एजन्तस्य धोरशित्यात्वं भवति । ग्लै। ग्लाता । ग्लातुम् । शो-निशाता । निशातुम् । “अन्तेऽलः" [१३१४६] इत्येच आकारः । एच इति किम् ? कर्ता । कर्तुम् । अशितीति किम् ? ग्लायति । म्लायति । अशितीति प्रसज्यप्रतिषेधः शिति नेति । अनैमित्तिकमात्वम् । ग्लानीयम् । तेन आयाद्यभावः । सुत्रः । सुम्लः । “प्रातो गौ" [२।१1१०६] इति कः। सुग्लानम् । “युजातः” [२।३।१०६] इति युच्च सिद्धः । "मिष्मीब्दीड प्येच" [३४३] इति चकारादेविषये चात्ववचनं ज्ञापकम् । परनिमित्तस्यैच श्रात्वं न भवति । चेता। स्तोता। प्रतिपदोक्तपरिभाषा बनित्या तेन कापयतीत्यादौ पुक् सिद्धः। शकार इद्यस्य सोऽयं शित् तदादौ न भवति । न तु तदन्ते । जग्ले मम्ले इति । धोरित्येव । गोभिः । नौभिः।
For Private And Personal Use Only