SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अ० ४ पा० ३ सू० २०-२६] महावृत्तिसहितम् २८६ प्रतेः ॥४।३।२०॥ प्रतिपूर्वस्य श्यायतेर्भिवति ते परतः। प्रतिशोनः । प्रतिशीनवान् । अद्रवघनस्पर्शार्थोऽयमारम्भः । चाऽभ्यवात् ॥४।३२२|| अभि अब इत्येवंपूर्वस्य श्यायतेर्वा जिभवति ते परतः । अभिशीनः । अभिश्यानः। अवशीनः । अवश्यानः । अभ्यवशीनः। अभ्यवश्यानः। विपर्यासे प्रयोगो नास्ति । द्रवघनस्पर्शविवक्षायां प्राप्तेऽन्यत्राप्राप्त इत्युभयत्र विकल्यः । अन्यगियोगे केचिन्नेच्छन्ति । समभिश्यानम् । समवश्यानम् । अन्ये तु पूर्वमात्रेऽन्यगियोगेऽपिति विकल्पमिच्छन्ति । अभिसंशीनम् । अभिसंश्यानम् । अवसंशीनम् । अवसंश्यानम् । क्षीरहविषोः शतम् ॥४ २ ॥ शृतमिति निपात्यते क्षीरविषोः पाके । शृतं क्षीरम् | शृतं हविः स्वयमेव देवदत्तेन वा । त्रै पाके इति कृतात्वत्य भौवादिकस्य श्रा पाके इत्यादादिकस्य च ग्रहणम् । तथा श्रा पाके इति चौरादिकस्य णिचि पुकि च कृते श्रा पाक इति मित्सु पाठात्प्रादेशेश्रपिः । अनयोः श्राश्रयोः ते परतः शृभावो निपात्यते। क्षीरहविषोरिति किम् ? आश्राणा यवागूः । वेति व्यवस्थितविभाषानुवृत्त तुमति णिचि नेष्यते । अपितं हविर्देवदत्तेन जिनदत्तेन । प्यायः पी ॥३।२३॥ प्यायः पी इत्ययमादेशो भवति ते परतः । पीनौ स्तनौ। पीनावंसौ। “ोदितः" [५।३।६३] इति नत्वम् । प्रकृतो जिरुत्तरस्य यस्य प्रसज्येत । लिङाङोखलादौ च यखं नास्ति । तदर्थश्चादेशः। आङः ॥४॥३॥२४॥ श्राङः परस्य प्यायः पी इत्ययमादेशो भवति ते परतः । अापीनः । श्रापीनवान् । श्राङ एव प्यायः पी भवति नान्यस्माद् । प्रप्यानश्चन्द्रमाः। अन्धृधसोः ॥४।३।२५॥ अन्धूधमोरर्थयोः प्राङः परस्य प्यायः पी भवति ते परतः । अापीनोऽन्धुः । आपीनमूधः। अन्धुर्बणम् । ऊधः सनपर्यायः। अयमपि नियमः। अाङ् पूर्वात्याधुधसोरेव । नान्यस्मिन्नर्थे । अाप्यानश्चन्द्रमाः। लिड्योः ।।४।३।२६॥ त इति निवृत्तम् निमित्तान्तरोपादानात् । लिटि यङि च परतः प्यायः पी इत्ययमादेशो भवति । श्रापिप्ये । प्रापिप्याते | आपिप्यिरे। परत्वात्पीभावे कृते पुनः प्रसङ्गाद् द्वित्वम् । "एर्गिवाक्चादुङोऽसुधियः" [४७८] इति यणादेशः । यङि-यापेपीयते । आपेपीयेते। आपेपीयन्ते । यङपि "त्यखे त्याश्रयम्" [१११।६३] इति श्रापेपेति । आपेपीतः । अापेप्यति । न वा श्वेः ॥४॥२७॥ जिरिति वर्तते । श्वयतेन वा जिभवति लिड्योः परतः । शुशाव | शिश्वाय । शुशुवतुः । शिश्यिवतुः । शोशूयते । शेश्वीयते । लिटि किति यजादिप्राप्तिर्नेति प्रतिषिध्यते। ततः समीकृते विषये विकल्पः। पिति किति च लिटि यङि च प्रवर्तते । ननु शिश्वायत्यत्र जिना मुक्ते पक्षे "चस्यैषां लिटि" [४॥३॥१३] इति चस्य प्राप्नोति नायं दोषो नेत्यनेन श्वयतेर्यावती प्राप्तिः सा सर्वा प्रतिषिध्यते। ततो विकल्पः । यदि चत्य क्रियेत प्रतिषेधोऽनर्थकः स्यात् । __ सन्कचोरें ॥४।३।२८॥ सन्परे कच्परे च णौ परतः श्वयतेर्ने वा जिर्भवति । शुशावयिषति । अन्तरङ्गपरिभाषा ह्यनित्या । पूर्वविप्रतिषिद्धेन जौ कृते ऐपि "श्रो पुयणज्ये" [५।२।१७८] इति ज्ञापकात् स्थानिवद्भावेन द्वित्वम् । पक्षे शिश्वाययिषति । कचि अशुशवत् । अशिश्वियत् । हो जिः ॥४॥३॥२९॥ ह्वयतेजिर्भवति सन्परे कच्परे च णौ परतः । जुहावयिपति । जुहावयिषतः । जुहावयिषन्ति । कचि-अजूहवत् । अजूहवताम् । अजूहवन् । अनवकाशत्वाजिना सावकाशः "शाच्छासाह्वादि" [५११४२] सूत्रेण यक् वाध्यते । पुनर्जिग्रहणं नित्यार्थम् । ननु थस्येति वक्ष्यते तेनैवायं जिः सिद्धः। हयतेरेवायं य For Private And Personal Use Only
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy