________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८८
जैनेन्द्र-व्याकरणम्
[ श्र० ४ पा० ३ सू० ८-११
प्रति स्थानिवद्भाव इति धौ कच्यनक्खे सन्वदिति धौ परतः सन्वद्भावो विधीयमानः प्रस्य स्थानिय [द्भावाने
प्रतिषिध्यते ।
सन्यङोः || ४|३८|| पे प्यस्य पुत्रपत्योर्जिः || ४ | ३ || वन्धौ वे ||४३|१०|| वचिस्वपियजादीनां किति || ४ | ३ |११ ॥ ग्रहिज्यावयिव्यधिवशिव्यचित्रश्चिप्रच्छिभ्रजां ङिति च || ४ | ३|१२|| ] नर्थकः । यङुत्रन्तस्य प्रकृतिवद्भावो योऽन्यस्मिन्नेति तिपा निवर्त्यो यथास्तिभवत्योमिंङीति यङन्तस्य मिप्रतिषेधो मा भूत् । बोभवीति । इह तु यपि त्यखे त्याश्रयमिति प्राग् द्वित्वानिर्भवत्येव । वेवेक्ति । बर्भीष्ट । बर्भुजीति ।
चस्यैषां लिटि || ४|३|१३|| एषां वच्यादीनां लिटि परतश्चस्य जिर्भवति । उवाच । उवचिथ । इयाज । इयजिथ | उवाप | उवपिथ । सुष्वाप । सुष्वपिथ । जिज्यौ । जिज्याथ । वेनः स्थानिवद्भावेन उवाय । उवयिथ । उवास । उवसिथ । विव्याध । विव्यधिथ । विव्याच । विव्यचिथ । ग्रहिभ्रत्नप्रच्छामविशेषः । ब्रश्चेस्तु वनश्च वत्रश्चिथ "न जौ जि: [ ४|३|३१ ] वकारस्य न भवति । पिदर्थमिदम् । किन्तु परतः परत्वाज्जौ कृते द्वित्वम् । ऊचतुः । ऊचुः । अनन्तरपरिभाषा ह्यनित्या । अधिकाराद्वच्यादीनामेव ग्रहणे सिद्धे एषां ग्रहणं चखनिवृत्त्यर्थम् ।
I
कचि स्वापः || ४|३|१४ ॥ कचि परतः स्वापेर्जिर्भवति । सूपत् । सुषुपताम् । तू पुन् । स्वपेरिंगचि लुङि कचि च कृते द्वित्वात्परत्वादनेन जिः । “युङ: " [ ५१२१८३ ] एप् । “खौ कच्युङ : " [ ५/२/११५ ] इति प्रादेशो द्वित्वम् । घेर्दीत्वम् । कचीति किम् ? स्वापितः । स्वाप्यते । स्वापेरिति किम् ? स्वपेरित्युच्यमाने वचनात्केवलादपि कच् स्यात् । स्वापं करोतीत्यत्रापि केचिदिच्छन्ति । केवलमक्तिः ( क्खतः ) सन्वद्भावाभावात् घेर्दीत्वं न भवति । सुषुपत् ।
स्वपिस्यमिवेत्रां यङि || ४ | ३|१५|| स्वपि स्यमि व्येञ् इत्येतेषां यङि जिर्भवति । सोसुन्यते । सेसिभ्यते । वेबीयते । स्वपिव्येञोः किति जिर्विहितः । यङि सर्वेषामप्राप्ते विधिः । “वशेर्यङि प्रतिषेधो वक्तव्यः " [ वा० ] वावश्यते । “ग्रहिज्यावशि” [ ४।३।१२] इति पाठे प्राप्तिः । यङीति किम् ? स्वप्नः ।
चायः कीः || ४ | ३ | १६ | चायः की इत्ययमादेशो भवति यङिः परतः । चेकीयते । चेकीयेते । चेकीयन्ते । दीत्वोच्चारणं किम् ? “दीरकृद्गे" [ ५।२।१३४ ] इति यत्र दीत्वं नास्ति तत्र यपि श्रवणार्थम् । चेकीतः । चेकीथः ।
स्फायः स्फीते ||४|३|१७|| स्फायः स्फी इत्ययमादेशो भवति तसंज्ञे परतः । स्फीतः । स्फीतवान् । तइति किम् ? स्फाय्यते । स्फातिः । स्फीतीभवतीति च्व्यन्तस्य रूपम् ।
पूर्वस्य स्त्यः || ४|३|१८|| ते इति वर्तते । प्रपूर्वस्य स्त्यायतेर्जिर्भवति ते परतः । प्रस्तीतः । प्रस्तीतवान् । “स्फादेः” [ ५।३।६० ] इत्यादिना नत्वस्यासिद्धत्वात्प्रागेव जिः पुनर्विहतनिमित्तत्त्वान्न भवति । "प्रस्त्यो वा " [५।३।६१] इति मत्वपक्षे प्रस्तीमः प्रस्तीमवान् । प्रपूर्वस्येति किम् ? संस्त्यानः । प्रहत्य इति सिद्धे पूर्वग्रहणं नियमार्थम् । श्रन्यपूर्वस्यापि मा भूत् । संप्रस्त्यानः । अथवा प्रपूर्वो यस्माद्गिसमुदायात्स प्रपूर्वः, तदवयवस्यापि स्यायतैर्यथा स्यादित्येवमर्थम् । प्रसंस्तीतः । प्रसंस्तोतवान् । इहान्ये ष्ट्यै स्त्यै इत्यनयोः सामान्येन निर्देशः ।
घनस्पर्शयोः श्यः || ४ | ३ | १६ | द्रवघने स्पर्शे च वर्तमानस्य श्यायतैर्निर्भवति ते परतः । शीनं घृतम् । शीनं मेदः । " श्याञ्चिदिवः " [ ५/३६५ ] इत्यादिना नत्वम् । द्रवावस्थायाम् घनभावमापन्नमित्यर्थः । स्पर्श शीतं वर्तते । गुणवत्यपि स्पर्शोऽस्ति शीतमुदकम् । शीतो वायुः । द्रवघनस्पर्शयोः किम् ? संश्यानो वृश्चिकः । 'स्फादेरातः' [५|३|६०] इत्यादिना नत्वम् ।
३. प्रतिष्टु [ ] कोष्टकान्तर्गतानां सूत्राणां वृत्तिस्त्रुटिता । सूत्राणि तु जैनेन्द्रपञ्चाध्यायीमनुसृत्यात्र निर्दिष्टानि ।
For Private And Personal Use Only