________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्र० ४ पा० ३ सू० १२-६६ ]
महावृत्तिसहितम्
२६७
नेच्यात् ||४|३|१२|| इचि मुटि परतोऽवर्णान्तात्पूर्वस्वं दीनं भवति । इन्द्रौ । चन्द्रौ । विद्ये । श्रद्ध े । इत्यत्र परत्वादुत्तरसूत्रेण प्रतिषेधो न्याय्यः । इचीति किम् ? देवाः । श्रादिति किम् ? अग्नी ।
सच || ४ | ३|१३|| श्रादिति नाधिकृतम् । ग्रन्ताज्जसिचि च परतः पूर्वस्वं दीनं भवति । कुमार्यौ । कुमार्यः । वामोचौं । वामोर्वः । विधे । शुद्धे । माला इत्यत्र “स्वेको दी : " [४३८८] इति दीत्वं द्रष्टव्यम् । द्य इति स्पष्टार्थ वचनम् । इचि प्रसंज्ञयाऽपि वर्णस्य यद्यनेन प्रतिषेधः स्यान्नेच्यादिति सूत्रमनर्थकं स्यात् । कवयः । पटव] इत्यत्र जसि परत्वादेया भवितव्यम् । देवाः । अग्नी । वायू इत्यत्र “सुटि पूर्वस्त्रम्" [४३] इति सुग्रहणसामर्थ्याद्दीत्वम् ।
पूर्वोऽमि ||४|३|१४|| कोऽमि परतो द्वयोरेकः पूर्वो भवति । देवम् । कविम् । मालाम् । भानुम् । पूर्वग्रहणं पूर्वस्य दीत्वप्रतिषेवार्थम् । पूर्वरूपं यथा स्यात् । यदि पूर्वः प्रो द्वयोरेकादेशः प्रो भवति अथ दीसंज्ञो दीर्भवति । श्रचीत्यनुवर्तनान्मकारस्य पूर्वस्वं न भवति । क इत्येव । रायम् । नावम् । सुटीत्येव । श्रचिनवम् । सुनवम् ।
जेः ||३६|| रचि परतः परः पूर्वा भवति । इष्टः । उतः । गृहीतः । जिविधानसामर्थ्याद्यणादेशो न स्यात् । पूर्व पुनर्लभ्येत । इदं शक शकदर्थमिति वोरधः (ओरचः) प्रत्यासन्नस्य पूर्व कृते पुनः पूर्वत्वं न भवति ।
एकोऽति पदान्तात् ||४|३|१६|| एङ: पदान्तादति परतो द्वयोरेकः पूर्वो भवति । मुनेऽनघ । सावोऽनव । एक इति किम् ? दध्यत्र । अतीति किम् ? पटवि । तपरकरणं किम् ? पटवायादि । पदान्तादिति किम् ? नयनम् । सुनयः ।
ङसिङसोः || ४|३|६७॥ एङझेऽति वति । एङो ङसिङसोरति परतो द्वयोरेक: पूर्वो भवति । ग्रपदान्तोऽयमारम्भः । कचेरागच्छति । कः स्वम् । पटोरागच्छति । पटोः स्वम् । ङसिङसोरेङश्च यथासंख्यं न भवति |. “ओरावश्यके” [२।१।१०२] “ओः पुत्रराज्ये" [५।२।१७८ ] इति ङसिना उसा च निर्देशात् ।
ऋत उत् ॥४३॥६८॥ ङसिङमोरति परत ऋत उद्भवति द्वयोरेक इत्येव । कर्तुरागच्छति । कर्तुः स्वम् । द्वयोः स्थान प्रदेशोऽन्यतरेण व्यपदेशं लभते इति "रन्तोऽणुः " [१|१|४८ ] इति रन्तत्वम् । "रात्सः " [ ५/३/४२ ] इति सखम् । ङसिङसोः सकारस्य वा रित्वविसर्जनीयौ रन्तत्वं दुरुपपादं चेत् । ऋत इति तपरकरणं किमर्थन् ? " प्रोऽवात् " [ ११२/४७ ] इत्यादावनुकरणस्य द्विमात्रस्य माभूत् । उदिति तपरकरणं स्वग्रहण निवृत्त्यर्थम् ।
ख्यत्यादतः ||४|३|६६ ॥ रूयत्यात्परयोङसिङसोरत उद्भवति । ख्यत्यादिति खीखिशब्दयोस्तीतिशब्दयोश्च यणादेशे कृते श्रागन्तुनाऽऽकारेणानुकरणनिर्देशः । सख्युरागच्छति । सख्युः स्वम् । पत्युरागच्छति । पत्युः स्वम् । श्रतीत्यनुवर्तमानेऽत इति स्थानिनिर्देशो द्वयोरेकस्य निवृत्त्यर्थः । ख्यत्यादिति विकृतनिर्देशः किम् ? या देशाभावे मा भूत् । अतिसखेरागच्छति । अतिसखेः स्वम् । प्रतिपतेरागच्छति । श्रतिपतेः स्वम् । "स्त्रसखि" [१||६७ ] इत्यत्र पर्युदास श्रभितः सखिशब्दादन्यः समुदायः सुमंज्ञो भवति । इदं च विकृतनिर्देशस्य प्रयोजनम् । सह खेन वर्तते इति सखः सखमिच्छतीति सखीयति सखीयतेः क्विप् । श्रतः खम् । “बलि व्योः खम्” [४|३|५५] इति यकारस्य खम् । यखविधिं प्रत्यखस्य स्थानिवद्भावप्रतिषेधः । ननु "वर्णाश्रये नास्ति स्याश्रयम्" [प० ] इति त्यखेत्याश्रयन्यायेनापि विपो नष्टस्य बलादित्वं नास्ति काबुपसंख्यानमित्यदोषः । ङसिङसोः परतो यादे सख्युरिति भवति । तथा लून्युः । पून्युः । लूनमिच्छति पूनमिच्छति । लूनीयतेः क्वित्रन्तस्य ङसिङसोर्यणादेशः । नत्वस्यासिद्धत्वादुत्वं भवति ।
३८
For Private And Personal Use Only