________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैनेन्द्र-व्याकरणम् [अ० ४ पा० २ सू० १५२-१५६ चित्रोपानकः । उरस् । सर्पिष् । उपानह । पुमान् । अनड्वान् । पुमानित्येवमादयः पञ्चशब्दा विभक्त्यन्ताः पठ्यन्ते । एकवचनान्तानामेव यथा स्यात् । द्विवचनबहुवचनान्तानां मा भूत् । तत्र “शेषाद्वा" [४।२।१५४] इति विकल्प एव भवति । द्विपुंस्कः। द्विपुमान् । बहुपुंस्कः। बहुपुमान् । दरी। "ऋन्मोः" [४।२।१५३] इत्येव सिद्धः किमर्थ दरीशब्दः पठ्यते ? "सहेति तुल्ययोगे" [१॥३॥६१] इतीदं सूत्रं कबभावार्थमित्यस्मिन् पक्षे कग्रहणार्थमिदं वचनम् । दधि । मधु । शालि | अर्थान्नञः। कथमयं प्रयोगः । “अन्यथैवंकथमित्थंस्वनर्थात्" [२।४।१३] इति सौत्रोऽयम् ।
इनः स्त्रियाम् ॥४।२।१५२॥ इनन्ताद् वात् कत्रित्ययं त्यो भवति स्त्रियामन्यपदार्थे । बहवो दण्डिनोऽस्यां बहुदण्डिका । एवं बहुस्वामिका । बहुवाग्मिका । स्त्रियामिति किम् ? बहुदण्डी ग्रामः । बहुदण्डिको वा ।
ऋन्मोः ॥२॥१५३॥ ऋकारान्तान्मुसंज्ञान्ताच्च बात्कन् भवति सान्तः । बहुकर्तृकः । तकार उच्चारणार्थः । बहुकुमारिकः । बहुब्रह्मबन्धूकः ।
शेषाद वा ॥४२॥१५॥ यस्माद्वात्सान्तो न विहितः स शेषः। शेषाद्वात् वा कब भवति सान्तः । बह्वयः खट्वा यस्य सः बहुखट्वाकः । बहुखट्वः । “ऋकपूरब्धूः" [२१७०] इत्यादिना सूत्रेण विशेषो व्याख्यातः । "अनुचो माणवो ज्ञेयो बढचश्चरणे स्मृतः" ततोऽन्यत्रायं विकल्पः । अनृक्कम् साम । अनृक् साम । बढक्कं सूक्तम् । बहूवृक्सूक्तम् । शेषादिति किम् ? प्रियपुरः । प्रियपथः ।
न खौ ॥४।२।१५५॥ खुविषये बात् कर न भवति । येन केनचित्प्राप्तत्य कपोऽयं निषेधः नामग्र(ग्रा)मः ? ' ' | विश्वदेवः । विश्वयशाः । श्वेता अश्वतयो यस्य श्वेताश्वतिः ।
ईयसश्च ॥२।१५६॥ ईयसन्ताद्वात्क न भवति । येन केनचित्प्राप्तस्य प्रतिषेधः। बहवः श्रेयांसोऽनिन् बहुश्रेयान् । विद्यमानश्रेयान् । “शेषाद्वा" [४२।५४] इति प्राप्तस्य प्रतिषेधः । “मृद्ग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्” [वा०] बह्वयः श्रेयस्योऽस्य बहुश्रेयसी पुरुषः । “ऋन्मोः" [१२।५३] इति प्राप्तस्य प्रतिषेधः । अत्र “स्वीगोर्नीचः" [१1१1८] इति प्रादेशोऽपि न भवति। उक्तं हि तत्र-"ईयसो बसे पुंचद्भाववचनम्" [वा०] | नात्र पुंवदूचनेन स्त्रीत्यस्य निवृत्तिरिष्टा किं तर्हि यथा पुंसि ईकारस्य प्रादेशो न भवति । ग्रामणी देवदत्त इति । एवमीयसः परस्यापि स्त्रोत्यस्य । अथवा प्रश्लेषनिर्देशात् ईकारः सिद्धः । ई ईयसः ईयस इति । चकारः स्त्रियामित्यस्यानुकर्षणार्थः । तेन स्त्रियामीकारो भवति । न प्रादेश इति ।
स्तुते भ्रातुः ॥४।२।१५७॥ स्तुतं पूजितमित्यर्थः । स्तुतेऽर्थ यो भ्रातृशब्दस्तदन्ताद्वात्कन भवति । शोभनो भ्राता यस्य सुभ्राता । दर्शनीयभ्राता । स्तुत इति किम् ? दुतृकः । मूर्खभ्रातृकः ।
नाड़ीतन्त्र्योः स्वाङ्गे ॥४।२।१५८॥ स्वाङ्गमिह पारिभाषिकम् । स्वाङ्गे यौ नाड़ीतन्त्रीशब्दौ वर्तते तदन्ताद्वात्कन्न भवति । बह्वयः नाड्योऽस्मिन् बहुनाडिदेहः । बहुनाडिजङ्घा । बहव्यः तन्यो धमन्योऽस्या बहुतन्त्रीगीवा । स्त्रीत्यो न भवतीति प्रादेशो नास्ति । स्वाङ्ग इति किम् ? बहुनाडीकः स्तम्भः । बहुतन्त्रीका वीणा ।
निष्प्रवाणिः ॥४।२।१५६॥ प्रकर्षण ऊयतेऽस्यामिति प्रवाणीति निपात्यते । निर्गता प्रवाणो अस्य निष्पवाणिः कम्बलः । प्रत्यग्र इत्यर्थः । “ऋन्मोः " [३१२१५३] इत्यस्य प्रतिषेधः । ये तु प्रवाणीशब्दमिकारान्तं पठन्ति तेषां “शेषाद्वा" [४।२।५४] इत्यस्य प्रतिषेधः । “त्यः" [२॥१॥१] “परः" [२।१।२] "ड्याम्मृदः” [३।१३] इत्योपामधिकाराणामिदमवसानम् ।
इत्यभयनन्दिविरचितायां महावृत्तौ चतुर्थस्याध्यायस्य द्वितीयः पादः समाप्तः ।
For Private And Personal Use Only