________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्र० ४ पा० २ सू० १४०-१५१ ]
महावृत्तिसहितम्
२८५
सुसंख्यादेः || ४|२| १४०॥ सुश्च संख्या च सुसंख्ये ते श्रादी यस्य तस्य स्वादेः संख्यादेश्च पादशब्दस्य खं भवति बसे ! शोभनौ पादावस्य सुपाद् । द्वौ पादावस्य द्विधाद् । त्रिपाद् । चतुष्पाद् ।
कुम्भपद्यादिः || ४|२|१४१ ॥ कुम्भपदीप्रभृतयः शब्दा निपात्यन्ते । क्वचिद्वेऽपि से कृते "पादो वा " [३|१|१५] इति विकल्पे प्राप्ते नित्यो ङीविधिर्निपात्यते । कुम्भ इव पादावस्या कुम्भपदी । एकः पादोऽस्या एकपदी । शितिपदी । सूत्रपदी । सूत्रसितपदी । सितसूत्रपदी । गोधापदी । जालपदी । जलपदी। कलशपदी । विपदी | सुपदी । निष्पदी । श्रार्द्रपदी । द्रोणपदी । कुटीपदी । कृष्णपदी । सूकरपदी । मुनिपदी । शकृत्पदी | ष्ट|पदी |
are दन्तस्य तु ||४ |२| १४२|| सुसंख्यादेरिति वर्तते । स्वादेः संख्यादेश्व दन्तशब्दस्य दतृ इत्ययमादेशो भवति बसे वयसि गम्यमाने । शोभना दन्ता श्रस्य सुजाता वा सुदन् कुमारकः । द्वौ दन्तावस्य बालकस्य द्विदन् | त्रिदन् | चतुर्दन् । वयसोति किम् सुदन्तो दाक्षिणात्यः । चतुईन्त ऐरावतः ।
स्त्रियां खौ ॥४|२|१४३॥ स्त्रीलिङ्गेऽन्यपदार्थे दन्तशब्दस्य दतृ इत्ययमादेशो भवति सान्तः खुविषये । य इव दन्तास्था अयोदती । फालदती । स्त्रियामिति किम् ? नागस्येव दन्तास्य नागदन्तको नाम कश्चित् । खाविति किम् ? समदन्ती । "नासिकोदरोष्ठ” [ ३|१|४० ] इत्यादिना ङोविधिः ।
वा श्यावारोकात् ||४|२| १४४ ॥ स्त्रियामिति निवृत्तम् । खाविति वर्तते । श्याव अरोक इत्येताभ्यां परस्य दन्तशब्दस्य वा दतृ इत्ययमादेशो भवति सान्तो बसे । श्यावा दन्ता अस्य श्यावदन् । श्यावदन्तः । अरोका निश्छिद्राः निर्दीप्तयो वा दन्ता ग्रस्थ ग्ररोकदन् ग्ररोकदन्तः ।
शुद्धायान्तशुभ्रवृषवराहात् ||४|२| १४५ || खाविति निवृत्तम्। वेति वर्तते । शुद्ध, ग्रान्त, शुभ्र, वृष, वराह इत्येतेभ्यः परस्य दन्तशब्दस्य दतृ इत्ययमादेशो भवति बसे सान्तः । शुद्रा दन्ता ग्रस्य शुद्धदन्, शुद्धदन्तः । कुड्मलाग्रमिव दन्ता अस्य कुण्डमलाग्रदन् । कुड्मलाग्रदन्तः । शिखराग्रदन् । शिखराग्रदन्तः । शुभ्रदन् । शुभ्रदन्तः । वृपदन् । वृषदन्तः । वराहदन् । वराहृदन्तः । " अन्येभ्योऽपि भवतीति वक्तव्यम्" [aro] दिन् । अहिदन्तः । मूषिकादन् । मूषिकादन्तः ।
ककुदस्यावस्थायां खम् ||४ |२| १४६ || कालादिकृतो बालादिभावोऽवस्था । ककुदशब्दान्तस्य खं भवति सान्तः अवस्थायां गम्यमानायाम् । श्रसञ्जातं ककुदमस्य सञ्जातककुत् । पूर्णककुद् । वृद्ध इत्यर्थः । यष्टिककुद् । मध्यशरीर इत्यर्थः । अवस्थायामिति किम् ? श्वेतककुदः । कथं ककुद्मा निति ? यावादिपु हलन्तानिपातनात्सिद्धम् ।
अौ त्रिककुद् ||४|२| १४७॥ श्रावन्यपदार्थे खं निपात्यते । त्रीणि ककुदान्यस्य त्रिककुद् । श्रद्रेरियं संज्ञा । अन्यत्र त्रिककुद इति भवति ।
व्युदः काकुदान्तात् ॥ ४२॥१४८॥ वि उद् इत्येताभ्यां परस्य काकुदशब्दस्य खं भवति सान्तं बसे । विशिष्टं काकुदस्य विकाकुद् | उत्कृष्टं काकुदमस्य उत्काकुत् ।
पूर्णाद्वा ||४ |२| १४९ ॥ पूर्णशब्दात्परस्य काकुदस्य वा खं भवति सान्तं बसे । पूर्णकाकुत् । पूर्णकाकुदः ।
सुहृदददौ मित्रामित्रयोः ||४ |२| १५० || सुहृद् दुर्हृद् इत्येतौ शब्दौ निपात्येते यथासंख्यं मित्रामित्रयोरभिधेययोः । सुदुस्शब्दाभ्यां परस्य हृदयशब्दस्य बसे हृदादेशो निपात्यते । शोभनं हृदयमस्य सुहृद् मित्रम् | दुष्टं हृदयमस्य दुर्हृदमित्रम् । मित्रामित्रयोरिति किम् ? सुहृदयः साधुः । दुर्हृदयः खलः ।
उरःप्रभृतिभ्यः कप् ||४|२| १५१ ॥ उरःप्रभृत्यन्ताद् बात्कचित्ययं त्यो भवति सान्तः । व्यूढमुरोऽस्य व्यूहोरस्कः | "कुत्रस्ये” [ ५।४।२६ ] इति रेकस्य सत्वम् । प्रभूतसर्पिष्कः । " इणः षः " [५।४।२७] इति षत्यम् ।
For Private And Personal Use Only