SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २८४ जैनेन्द्र-व्याकरणम् [ अ० ४ पा० २ सू० १२६-१३६ द्विदण्ड्यादिः || ४|२|१२६ ॥ द्विदण्ड्यादयः शब्दा इजन्ता निपात्यन्ते । यथा गणे पठितास्तथैव साधवो वसेऽन्यत्र च भवन्तीत्यर्थः । द्वौ दण्डौ श्रस्मिन् प्रहरणे द्विदडि प्रहरति । द्विमुसलि प्रहरति । क्रियाविशेषणादन्यत्र न भवति । द्विदण्डा शालेति । षसेऽपि भवति । निकुच्य कर्णौ निकुच्यकणि धावति । याकुच्यपादौ श्राकुच्यपदि शेते । मयूरव्यंसकादित्वात्वतः । पादस्य च पद्भावो निपातनात् । प्रोह्य पादौ प्रोद्यपदि हस्तिनं वाहयति । द्विदशि । द्विमुसलि । उभाञ्जलि | उभयाञ्जलि । उभाकरी । उभयाकरिण । उभाहस्ति । उभयाहस्ति । उभावाणि । उभवापाणि । उभाचाहु । उभयाबाहु । निपातनादिचः खम् । एकपदि । प्रोपदि । कुच्यपदि । निकुच्यकणि । संहतपुच्छि । 1 Acharya Shri Kailassagarsuri Gyanmandir सम्प्राजानुनो ज्ञः || ४|२|१३०॥ सम्प्र इत्येताभ्यां परस्य जानुशब्दस्य ज्ञ इत्ययमादेशो भवति बसे । सङ्गते जानुनी अस्य संज्ञः । प्रकृते जानुनी अस्य प्रज्ञः । ज्ञ इत्युकारान्तः केषांचिदादेशः । मतद्वयमपि प्रमाणम् । वोऽर्ध्वात् ||४/२/१३१ ॥ ऊर्ध्वशब्दात्परस्य जानुशब्दस्य वा ज्ञ इत्ययादेशो भवति । ऊर्ध्वं जानुनी अस्य ऊर्ध्वशः, ऊर्ध्वजानुः ऊर्ध्वजानुको वा । ऊधसोऽनङ् ||४|२|१३२॥ ऊधः शब्दान्तस्य यस्य अनङादेशो भवति सान्तः । कुण्डमित्र ऊधोऽस्याः कुडोनी | परत्वात्सकारस्य श्रनङादेशे कृते पश्चात् " ऊधसः " [ ३|१|१३ ] इति ङोविधिः । एवं घट इव Galsस्या घटोनी । इह मा भूत् । महोधाः पर्जन्यः । अनङयकार उत्तरत्र सार्थकः । इह नङादेशेऽपि न दोषः । नङादेशो भवति । गाण्डीवं धनुरस्य गाण्डीवधन्वा । धनुषः ||४|२|१३३॥ धनुःशब्दान्तस्य बसस्य जगवधन्वा । शार्ङ्गधन्वा । वाखौ ||४|२|१३४॥ धनुः शब्दान्तस्य सस्य वा अनङादेशो भवति सान्तः खुविषये । पूर्वेण नित्ये प्राते विभाषेयम् । दृढं धनुरस्य दृढधन्वा । दृढधनुः । पुष्पधन्वा । पुष्पधनुः । जायाया निङ् ||४|२|१९३५|| जायाशब्दान्तस्य सस्य निङादेशो भवति । युवतिया यस्य युवजानिः । वधूजानिः । कारस्य निङादेशः । “वलि व्योः खम् " [ ४|३|५५ ] इति यकारस्य खम् । गन्धस्येरुत्पूतिसुसुरभिभ्यः || ४|२| १३६ ॥ उत्, पूति, सु, सुरभि इत्येतेभ्यः परस्य गन्धशब्दस्य इकारादेशो भवति सान्तो बसे । उद्गतो गन्वोऽस्य उद्गन्धिः । पूतिर्गन्धोऽस्य पूतिगन्धिः । सुगन्धिः | सुरभि गन्धिः । अयं गन्धशब्दोऽस्त्येव गुणवचनः । तद्यथा उत्पलगन्धः । चन्दनगन्ध इति । अस्ति द्रव्यवचनः । तद्यथा गन्धान् पिनष्टीति । तयो मुख्यो गुणवचनस्तस्य ग्रहणम् । तेनेह न भवति । शोभनो गन्धोऽस्य सुगन्ध श्रापणिकः । अल्पाख्यायाम् ||४|२| १३७ ॥ अल्पपर्यायो यो गन्धशब्दस्तदन्तस्य बसस्य वा इकारादेशो भवति सान्तः । श्रभिधानवशाद् व्यधिकरणोऽत्र सः । अन्नस्य गन्धोऽस्मिन् अन्नगन्धिः । ग्रन्नगन्धम् । घृतगन्धि | घृतगन्धम् भोजनम् । अथवा अन्नं गन्धोऽल्पमस्मिन्निति समानानिकरणो बलः । उपमानात् ||४|२|१३८ ॥ उपमानात्परो यो गन्धशब्दस्तदन्तस्य वत्येकारादेशो भवति । पद्मस्य गन्ध गन्धोऽस्य पद्मगन्धिः । पद्मगन्धः । उत्पगन्धः । उत्पलगन्धिः । . खं पादस्याहस्त्यादेः || ४|२| १३६ ॥ वेति निवृत्तम् । उपमानादिति वर्तते । हस्त्यादिवर्जितादुपमानात्वरस्य पादशब्दस्य खं भवति । बसे सान्त इत्यनुवर्तनात् इह "परस्यादेः " [11३1५१] इति एषा परिभाषा नोपतिष्ठते । व्याघ्रस्येव पादावस्य व्याघ्रपाद् । सिंहपाद् । ग्रहस्त्यादेरिति किम् ? हस्तिन इव पादावस्य हस्तिपादः । कपोत ( लक) पादः । हस्तिन् । कपोलक | गण्डोलक | गण्डके । महिला । दासी । गणिका । कुसूल । १. गण्डूक पू० । २. महेला ब०, पू० For Private And Personal Use Only
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy