________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अ०४ पा० २ सू० ११९-१२८]
महावृत्तिसहितम्
२८३
गेः ॥४ा२११६॥ गेः परो यो नासिकाराब्दस्तदन्ताद्वादस्यो भवति । नश्चादेशः अयमविषये विधिः। उन्नता नासिकाऽस्य उन्नसः । प्रवृद्धा नासिकाऽस्य प्रणसः । “णत्वविधौ गेर्नस उपसंख्यानम्" [वा०] इति णत्वम् अत्ये । “वेः ख्वादेशो वक्तव्यः" [वा०] विगता नासिकाऽत्य विखुः ।
सोः प्रातर्दियाश्वसः ॥४॥२।१२०॥ सोः परे ये प्रातर् , दिवा, श्वस् शब्दास्तदन्ताद्वादल्यो भवति । शोभनं प्रातरस्य तुपातः । “झे मात्रे टिखम्" [वा०] इति टिखम् । विग्रहवाक्ये शोभनमिति नपुसकत्वं गम्यमानकर्मापेक्षम् । शोभनं प्रातःकाले कर्मास्येत्यर्थः । एवं शोभनं दिवा अस्येति सुदिवः । शोभनं श्वोऽ स्य सुश्यः ।
प्रोष्टेण्यजात्पदः ॥४।२।१२१॥ प्रोष्ठ, एणो, अज इत्येतेभ्यः परः पदशब्दो बसे निपात्यते । प्रवृद्धौष्ठः प्रोष्ठो गोरित्यर्थः। प्रोष्ठस्येव पादावस्य प्रोष्ठपदः । अस्सान्तः पादशब्दस्य च पद्भावो निपात्यते । एण्या इव पादावस्य एणीपदः । अजपदः ।
चतुश्शारेरनिकुनेः ॥४॥२२१२२॥ चतुश्शारिशब्दाभ्यां परौ यौ अखिकुक्षिशब्दौ तदन्ताद्वादल्यो भवति । चतस्रोऽत्रयोऽस्य चतुरस्त्रः । शारेवि कुक्षिरस्य शारिकुक्षः ।
नगद स्सोः सक्थिहलेर्वा ॥४ारा१२३।। नञ् , दुस् , सु इत्येतेभ्यः परौ यौ सक्थिहलिशब्दो तदन्तादल्यो वा भवति । अविद्यमानं सक्थि अस्य असक्थः । असक्थिः । दुस्सक्थः । दुस्सक्थिः। मुसक्थः । सुसक्थिः । महद्धल हलिः । अविद्यमानो हलिरस्य अलः । अइलिः । दुईलः । दुईलिः । सुहलः । सुहलिः । सक्थि शब्दस्थाने सक्तिशब्दं केचित्पठन्ति । सञ्जनं सक्तिः ।
प्रजामेधादस् ॥४।२।१२४॥ वेति नाधिकृतम् । नञ् , दुस् सु इत्येतेभ्यः परौ यौ प्रजामेधाशब्दो तदन्ताद्वादसित्ययं त्यो भवति। न विद्यते प्रजा श्रस्य अग्रजाः। दुधजाः । सुप्रजाः। न विद्यते मेधा अस्ट अमेधाः । दुर्मेधाः । “अल्पाञ्च मेवाया इति वक्तव्यम् ” [वा०] अल्पमेधाः । अल्पमेधसौ । अल्पमेध सः ।
धर्मात्केवलादन ॥४।२।१२५॥ केवलो धर्मशब्द एव यत्रोत्तरपदम् अन्यसा (म)ध्यपदं नास्ति तदन्ताद्वादन्नित्ययं त्यो भवति । साधूनामिव धर्मोऽस्य साधुधर्मा । प्रियधर्मा । केवलादिति किम् ? परमः स्वो धर्मोऽस्य परमस्वधर्मः । सन्दिग्धसाध्यधर्मः ।
सुहरिततृणसोमाजम्मात ॥४।१२६॥ जम्भशब्दो दन्तविशेषवाची अभ्यवहार्यवाची च । सु. हरित, तृण, सोम इत्येतेभ्यः परो यो जम्भराब्दस्तदन्तादनित्ययं त्यो भवति । शोभनो जम्भोऽस्य सुजम्भार शोभनदंष्ट्र: शोमनाहारो वा । हरितमिव जम्मोऽस्य हरितानि वा जम्भान्यस्य वा हरितजम्मा । तृणमिव जम्भोऽस्य तृणानि जम्भोऽस्य वा तृण जम्मा। एवं सोम जम्मा । स्वादिभ्य इति किम् ? स्थूलजम्भः ।।
दक्षिणेमा लुब्धयोगे ॥४॥२॥१२७॥ ईममिति बहुनामवेयं वणनामधेयं वा । दक्षिणेर्मेति वसोऽन्नन्तो निपात्यते लुब्धयोगे। दक्षिणमीममस्य दक्षिा मृगः । ब्याधस्य हन्तुकामस्य दक्षिणमङ्गं बहुकृत्वा स्थितः । अथवा दक्षिणमङ्गं वारणतमस्य ब्याधेनेत्यर्थः । लुब्धयोग इति किम् ? दक्षिणेमः पशुः ।
. पशु
अइच ॥४।१२८॥ शब्देन आर्थः कर्मव्यतिहारो ग्रहणप्रतिग्रहणादिलक्षणो गृह्यते । जार्थं यो बसस्तस्मादिजित्ययं त्यो भवति । चकारः तिष्ठद्ग्वादिषु इजिति पठ्यते तत्र विशेषणार्थः । “तत्रेदमिति सरूपे" [१॥३॥८६] "तेनेदम्" [१॥३॥६०] इति च अयं बसः कर्मव्यतिहारे वर्तते । केशेषु च केशेषु च गृहीत्वा इदं युद्धं प्रवृत्त केशाकेशि । कचाकचि । इचस्तिष्टद्ग्वादिषु पाठात् हसंज्ञा | "अन्यस्यापि" [४।३।२३२] इति पूर्वपदस्य दील्वम् । दण्डैश्च दण्डैश्च इदं युद्धं दण्डादएिड । मुसलामुसलि युद्धं वर्तते ।
For Private And Personal Use Only