________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२८२
जैनेन्द्र-व्याकरणम्
[ ० ४ पा० २ सू० ११२-११८
गिरिनदीपौर्णमास्याग्रहायणीयः || ४|२| ११२ ॥ वेति वर्तते । गिरि नदी पौर्णमासी श्राग्रहायणी य इत्येवमन्ताद्वाटो भवति । गिरेरन्तरन्तगिरम् । अन्तर्गिरि । तिष्ठद्वादित्वात्सविधिः । श्रथवा विभक्त्यथें हसः । बहिर्गिरम् । बहिर्गिरि । “पर्यपाङ बहिरन्ववः " [१।३।१०] । उपनदम् । उपनदि । नपि प्रः । उपपौर्णमासम् । उपपौर्णमासि । उपाग्रहायणम् । उपाग्रहायण । झत्रः - उपसमित्रम् । उपसमित् । उपदृपदम् । उपदृषत् ।
Acharya Shri Kailassagarsuri Gyanmandir
स्वाङ्गाद्वेऽक्षिसक्थनः || ४|२| ११३ ॥ स्वाङ्गशब्दाद् यौ अतिसक्थिशब्दौ तदन्तात् वाट्टो भवति । हइति वेति च निवृत्तम् । कल्याणेऽक्षिणी ग्रस्य कल्याणाक्षः । विशालाक्षी । गौरे सक्थिनी अस्य गौरसक्थः । स्वक्षः इत्यत्र " न स्वतिकिमः” [ ४ २२६६ ] इति प्रतिषेधः कस्मान्न भवति ? पतस्य ग्रहणं तत्र व्याख्यातमित्यदोषः । स्वाङ्गादिति किम् ? स्थूलाक्षिरिक्षुः । दीर्घसक्थि शकटम् । अप्रास्थिस्य स्वाङ्गत्य न भवति । व इति किम् ? उत्तमाक्षि । आपादपरिसमाप्तसाधिकारः प्रत्येतव्यः ।
यङ्गुलेः || ४|२||१४|| दारु । अङ्गुलिशब्दान्ताद्वाटो भवति दारुय्यमियेये । द्वे अङ्गुलीय दारु । हुलम् । चतुरङ्गुलम् । धान्यानां विक्षेपणम् ग्रग्रेऽकुलसदृशावयवं काठं दारु तदिह गृह्यते । यतु द्वे अङ्गुली प्रमाणमस्य द्व्यङ्गुलं दारु । तत्र हृदर्थे बसे कृते "अङ्गुलेर्भिसंख्यादेः” [४२]] इत्यः सान्तः । मात्र चोप् । द्रुणोति किम् ? पञ्चाङ्गुलिर्हस्तः ।
द्वित्रिभ्यां मूर्ध्नः || ४|२|१५|| द्वित्रिभ्यां परो यो मूर्धन् शब्दस्तदन्ताद्वाहो भवति । द्विमूर्धः । त्रिमूर्धः । सान्तो विधिरनित्य इति तेन द्विमूर्धा । त्रिमूर्धा ।
उत्स्त्रीप्रमारयोरः || ४|२| ११६ ॥ इति निवृत्तम्, त्यान्तरोपादानात् । इडन्ता ये श्रीशब्दाः प्रमाणीशब्दश्च तदन्ताद्वा त्यो भवति । कल्याणीपञ्चमी यासां रात्रीणां कल्याणीपञ्चमा रात्रयः । कल्याणीदशमा भार्या । स्त्री प्रमाणी येषां स्त्रीप्रमाणाः । कल्याणी प्रमाणी श्रातां कल्याणप्रमाणा भार्याः । डीग्रहणस्यावकाशः कल्याणीद्वितीया । कल्याणीतृतीया । कल्याणीपञ्चमा रात्रय इति । डस्त्रियां प्रधानस्त्रीग्रहणं कर्तव्यम् । अन्यपदार्थवाच्यानां डडन्ता स्त्री प्रधानं यदि भवति तदायं सान्तो भवतीत्यर्थः । ग्रड प्रियादाविति पुंवद्भावप्रतिषेधोऽप्यस्मिन्नेव विषये वक्ष्यते । तेनेह सान्तः पुंवद्भावप्रतिषेधश्च न भवति । कल्याणी पञ्चमी अस्मिन् पक्षे कल्याणपञ्चमीकः पक्ष इति । “नेतुर्नक्षत्रे उपसंख्यानम्" [वा०] । मृगो नेता श्राशां रात्रीणां मृगनेत्राः । पुष्यनेत्राः । नक्षत्रादन्यत्र न भवति । देवदत्तनेत्तृकं सैन्यम् ।
लोम्नोऽन्तर्बहिर्भ्याम् ||४|२| ११७॥ श्रन्तर बहिष् इत्येताभ्यां परो यो लोमशब्दस्तदन्ताद्वादस्यो भवति । श्रन्तर्गतानि लोमान्यस्य अन्तर्लोमः । बहिर्लोमः । "मासामृतित्यान्त पूर्वपदात् ठो वक्तव्यः " [वा०] पञ्च कार्षापणा भृतिरस्य मासस्य “तदस्यांशवस्नभृतयः” [३।४।५५ ] इत्यत्र “संख्यायाः कोऽतिशतः " [ ३।४।१६ ] इति कः । पञ्चको मासोऽस्येति बसे कृते ठः । पञ्चकमासिकः । दशकमासिकः ।
नासिकाया नश्चास्थूलात् खौ ||४|२| ११८ ॥ नासिकाशब्दान्ताद्वादस्त्यो भवति नश्चादेशी नासिकायाः खुविषये न चेत्स्थूलशब्दात्परो नासिकाशब्दः । दुरिव नासिकाऽस्य दुरासः । गौरिव नासिका अन्य गोनसः । व भावार्डी नासिका अस्य वासः । "न्दिरक्तविकारे” [ ४ | ३ | १५१ ] इति पुंवद्भावप्रतिषेधः । सर्वत्र "पूर्वपदात्खावगः " [ ५४८७ ] इति णत्वम् । स्थूलादिति किम् ? स्थूलनासिकः । खाविति किम् ? तुङ्गनासिकः । “खुरखराभ्यां वा न वक्तव्यः [वा०] खरस्येव नासिकाऽस्या अर्चनायाः खरणाः । खुरणाः । प
त्यो भवति खरणसः । कथं शिति नासिकास्य शितिनाः । ग्रहिरिव नासिकाऽस्य अहिनाः । श्रचया इव नासिकास्य अर्चनाः । "वे ड्यायोः क्वचित् खौ च" [ ४।३।१७३ ] इति प्रः । पद्यछान्दसा एते शब्दास्तदयापि नसू वक्तव्यः ।
For Private And Personal Use Only