________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अ० ४ पा० २ सू० ८४.६]
महावृत्तिसहितम्
२७९
तप्तान्ववाद्रहसः ॥४२८४|| प्रच्छन्न उपशुप्रयोगो वा रहः । तप्त अनु अव इत्येतेभ्यः परो यो रहाशब्दस्तदन्तादस्त्यो भवति। सम्भवतः सस्य ग्रहणम् । तप्तं रहः तप्तरहसम् । अनुगत रहा अनुरहसम् । अनुगत रहोऽस्मिन्वाऽनुरहसम् । अवरहसम् ।
प्रतेकरस ईपः ॥४।२।८५॥ प्रतेः परात् उरःशब्दादीबर्थे वृत्ते अस्सान्तो भवति | उरसि वर्तते प्रत्युरसम् । विभक्त्यर्थे इसः। अथवा विग्रहवाक्ये ईवन्तादुरःशब्दादस्त्यो भवति । प्रतिष्ठितमुरसि प्रत्युरसम् । "विप्रादयः" [२८] इति षसः । ईप इति किम् ? प्रतिगतमुरः प्रत्युरः।
द्विस्तावात्रिस्तावाऽनुगवम्॥४॥२॥८६॥ द्विस्तावा त्रिस्तावा, अनुगव इत्येते शब्दा निपात्यन्ते । द्विस्तावतीति विगृह्य द्विस्तावा वेदिः। काचिदभिधीयते । मयूरव्यंसकादित्वात्सः। श्रः सान्तः पुंवद्भावष्टिखं च निपात्यते । एवं त्रिस्तावतो त्रिस्तावा वेदिः। वेद्यभिधानादन्यत्र न भवति द्विस्तावती त्रिस्तावती परिखा । अत्रापि अध्याहतक्रियापेक्षया क्रियाभ्यावृत्तिरस्ति । द्विस्तावती मीयते परिच्छिद्यते वा। तेन सुप सिद्धः। अनुगविऽभिधेय] वमिति [अस्सान्तो] अत्यान्तो निपात्यते श्रायामिन्यभिधेये। गामन्वायतम् अनुगवं यानम् । "प्रायामिना" [१३/१३] इति हसः । यथा गौरायतस्तथा यानमप्यायतमित्यर्थः। श्रायाम्यभिधानादन्यत्र न भवति । गवां पश्चादनुगु ।
गेरध्वनः ॥४।२।८७॥ गिसंज्ञोपलक्षितेभ्यः परादध्वशब्दादस्त्यो भवति । सम्भवतः सस्य ( षसस्य) ग्रहणम् । प्रगतोऽध्वानं प्राध्वो रथः । प्राध्वं शकटम् ।
षेऽङ्गुलेर्भिसंख्यादेः ॥४।२।८८॥ झिसंख्यादेरअलिशब्दादस्सान्तो भवति । अतिक्रान्तमङ्गलीरत्यङ्गुलम् । निर्गतमङ्गुलिभ्यो निरङ्गलम् । संख्यादेः-द्वयोरमुल्योः समाहारो द्वषङ्गुलम् । व्यङ्गलम् | चतुरगुलम् । तथा द्वे अङ्गुली प्रमाणमस्य द्वयङ्गुलम् । “हृदर्थ'' [१३।४६] इति रसः। प्रमाणेऽर्थे आगतस्य मात्रटः "रादुबखौ" (३२।२६] इत्युप् । बस इति किम् १ पञ्चाङ्गुलीहस्तः।
अहस्सवैकदेशसंख्यातपुण्याच्च रात्रे ॥४।२।८६॥ षे इति वर्तते । अहन् , सर्व, एकदेश, संख्यात, पुण्य इत्येतेभ्यः पराद्रात्रिशब्दाद् झिसंख्यादेश्च अस्त्यो भवति पसे । श्रहश्च रात्रिश्च अहोरात्रः । पस्यासम्भवात् अत्र द्वन्द्वो वेदितव्यः । "अहो रिविधौ रात्रि रूपरथन्तरेषु' [वा०] इति रित्वम् । सर्वा रात्रिः सर्वरात्रः । “पूर्वकालैक" [१॥३॥४४] इत्यादिना षसः । एकदेशात्-पूर्वा रात्रिः पूर्वरात्रः। अपरा रात्रिः अपररात्रः । उत्तरा रात्रिः उत्तररात्रः। गत्येकदेशे रात्रिशब्दो वर्तते । ततः सामानाधिकरण्यम् । “विशेषणं विशेष्येणेति" [१३२५२] इति षसः । संख्यातरात्रः। पुण्यरात्रः। भयादेः-अतिक्रान्तो रात्रिर्मातरात्रः। नीरात्रः । संख्यादा-द्वयो रात्र्योः समाहारो द्विरात्रम् । त्रिरात्रम् ।
एभ्योऽलोऽह्नः ॥४६॥ राजाऽहःसस्विभ्यष्टो विधास्यते, तस्मिन् सति अहनित्येतस्य अह्लादेशो भवति एभ्यः सर्वादिभ्यः परस्य । एभ्य इति निर्देशो झिसंख्यादेरपि ग्रहणार्थः । तत्संभवादहःशब्दपूर्वत्यं नाश्रीयते । सर्वमहः सर्वाह्नः। 'टखोरेवांत' [४॥४।१३३) इति टिखे प्राप्तेऽनेनाहादेशः। 'मतोहः" [५।] इति णलम् । पूर्वाह्नः। अपराह्नः। संख्याताह्नः । पुण्यशब्दात्प्रतिषेधं वक्ष्यति । झिसंख्यादेः-- निष्कान्ताऽहो निरही कथा । द्वयोरहो वा द्वयही पूजा । व्यही पूजा । हृदर्थे रसे कृते भवाथै आगतस्याणः "रस्योवनपत्ये' [१०] इत्युप् । द्यौ रसे संख्यादिः प्रयोजयति । द्वेऽहनी जातस्य द्वथहजातः । त्यह्नजातः । “काला मेथैः" [॥३॥६७) इति त्रिपदः षसः। एकशब्दात्प्रतिषेधं वक्ष्यति ।
न समाहारे ॥२६॥ समाहारलक्षणे षसे अहन्नित्येतस्याह्लादेशो न भवति । पूर्वसूत्रेण संख्यादेरिति प्राप्तः प्रतिषिध्यते । द्वयोरहोः समाहारो द्वथहः । यह । "टखो बाहः" [१।४।१३३] इति टिखम् ।
For Private And Personal Use Only