________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२००
जैनेन्द्र-व्याकरणम्
[00.पा.२सू० २३-१००
अत्र संख्यादेरिति वक्तव्यम् । इह मा भूत् । सङ्गतानि समाहृतान्यहानि समहा इति नैष दोषः । प्रतिपदं "डवर्था समाबारे" [१॥३२४६] इति समाहारे विहितस्य षसस्येह ग्रहणं न प्रादिलक्ष णस्य । समाहार इति किम् । द्वयोरहोर्भवो व यह्नः उत्सवः । हृदर्थे रसे कृतेऽण आगतस्य पस्योबनपत्ये" [३३१७४] इत्युप् ।
पुण्यैकाभ्याम् ।।४।२।२।। पुण्यैकशब्दाभ्यां परस्य अहन्नित्येतस्य अह्लादेशो न भवति । पुण्यमहः पुण्याहः । एकमहः एकाहः । “पूर्वकाखैक" [१३.४४] इत्यादिना षसः।
राजाऽहासखिभ्यष्टः ॥४.२/६३ राजन् , अहन् , सखि, इत्येतदन्ताटो भवति । देवराजः । द्वयोरहोः समाहारो द्वथहः। परमाहः। राजसखः । स्त्रियाः पूर्वपदार्थप्राधान्येऽतिक्रान्ता राजानम् अतिराजी । नकारान्तलक्षणीविधेः परत्वादनेन टः। “मृग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्” प. इतीह कस्मान भवति ? मद्राणां राज्ञी मद्रराज्ञी । मद्रसखी । अनित्यैषा परिभाषेति न भवति ।
गोरहृदुपि ॥ ४।२।९४ ॥ गोशब्दाडो भवति अहृदुब्विषये । पञ्चानां गवां समाहारः पञ्चगवम् । महागवः । राजगवो । अतिगवी । पञ्चगवधनः। अहृदुपीति किम् ? पञ्चभिः क्रीतः पञ्चगुः । दशगुः । हृदर्थे "संख्यादी रश्च" [१।३।४७] इति रसे कृते क्रीतार्थे अागतस्य श्राीयस्य ठणो “रादुबखौ" [२६] इत्युप् । अत्रान्तरङ्गत्वात्प्रागेव सान्तो भविष्यतीति प्रतिषेधोऽनर्थकः । नैवं शक्यम् अनुपीति विषयनिर्देशाब्विषये प्रतिषेधः । हृदग्रहणं किम् ? सुबुन्विषये प्रतिषेधो मा भूत । पञ्चगवमिच्छति पञ्चगवीयति । उन्ग्रहण किम् ? हृतः श्रवणविषये प्रतिषेधो मा भूत् । पञ्चभ्यो गोभ्य श्रागतं पञ्चगवरूप्यम् । पञ्चगवमयम् । हृदर्थे रसे कृते टः सान्तः । “हेतुमनुष्याद्वा रूप्यः" । [३।३।५५] "मयट्" [ ३।३।५६] इति रूप्यमयटौ।
उरसोऽये ।।४।२।९५।। अयं प्रधानम् । अग्रे वर्तते य उरःशब्दस्तदन्तात्याट्टो भवति । हस्तिनामुरः हस्त्युरसम् । अश्वोरसम् । रथोरसम् । समानाधिकरणे वा षसः । हस्तिन इवोरसः हस्त्युरसम् । यथा देहावयवानाम उरोऽयम् प्रधानम् एवमिहाप्युरःशब्देन प्रधानभूतं विवक्षितम् । अग्रे इति किम् १ पुरुषस्योरः पुरुषोरः।
सरोऽनोऽश्मायसः खुजात्योः ॥४।२।९६॥ सरस् , अनस् , अश्मन् , अयस्, इत्येवमन्तात्षाहो भवति खुविषये जातो च। जलसरसमिति संज्ञा । मण्डूकसरसमिति जातिः संज्ञा वा। महानसमिति संज्ञा । उपानसमिति जातिः संज्ञा वा। स्थूलाश्मः। अमृताश्म इति जातिः। पिण्डाश्म इति संज्ञा जातिवर्वा । कनकाश्म इति जातिः। लोहितायस इति संज्ञा जातिर्वा । कालायसमिति जातिः । खुजात्यारिति किम् १ परमसरः।
ग्रामकोटाभ्यां तक्ष्णः ॥४।२।९७॥ ग्राम कोट इत्येताभ्यां यस्तक्षशब्दस्तदन्तात्याट्टो भवति । ग्रामस्य तक्षा ग्रामतक्षः। कुट्यां भवः कौटः, कौटश्चासौ तक्षा कौटतक्षः । स्वायत्तकर्मजीवीत्यर्थः । ग्रामकौयभ्यामिति किम् ? राजस्तक्षा राजतक्षा।
शुनोऽते ।।३२।९८॥ श्रतिशब्दात्परो यः श्वन्शब्दस्तदन्तात्याट्टो भवति । अतिक्रान्तः श्वानमतिश्वो वराहः । अतिश्वो नीचजनः।
उपमानात् ॥ MIRREE॥ उपमीयतेऽनेनेत्युपमानम् । उपमानात्परो यः श्वन्शब्दस्तदत्ताट्टो भवति । ब्याघ्र इव श्वा व्याघ्रश्वः । सिंहश्वः । मयूख्यसकादित्वात्षसः ।
___ अजोवे ॥॥२।१००।। पूर्वसूत्रे उपमानग्रहणं पूर्वपदविशेषणम् । इह शुनो विशेषणम् । अजीवे वर्तते यः श्वशब्द उपमानवाचो तदन्तात्षाट्टो भवति । श्राकर्षः श्वा इव श्राकर्षश्वः। फलकश्वः । “व्याप्रैरुपमेयोऽतयोगे" १५१] इति सः। अजीव इति किम् ? वानरोऽयं श्वा इव वानरश्वा ।
For Private And Personal Use Only