________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म. पा०२ सू०६६-७३] महावृचिसहितम्
संख्याषाडोऽबहुगणात् ॥४॥६६॥ "संख्येये संख्यया झ्यासन्ना" [१३१८७ ] इत्यादिना प्रतिपदोक्लो यः संख्याया बसस्तस्मादबहुगणान्ताः सान्तो भवति । समीपे दशानामिमे उपदशाः ।
आसन्ना विंशतेरिमे आसन्नविंशाः। अदरे त्रिंशतोऽदरत्रिंशाः। द्वौ वा त्रयो वा द्वित्राः । पञ्चषाः । संख्याग्रहणं किम् ? चित्रगुः। संख्याबसस्य प्रतिपदोक्लस्य ग्रहणादिह न भवति । द्विगुः। दशगुः । अबहुगणादिति किम् ? उपबहवः । इदमेव ज्ञापकं बहुगणयोः संख्या संज्ञा भवति । गणशब्दस्य डे सत्यसति च नास्ति विशेषस्तस्य प्रतिषेधोऽन्यसंख्याकार्यलाभार्थः। गणकृत्वः । गणधा। "प्रकरणे संख्याया षयस्योपसंख्यानं निस्त्रिशाद्यर्थम्"। निर्गतानि त्रिंशतो निस्त्रिशानि। निश्चलारिंशानि। निरशीतानि वर्षाणि वर्तन्ते । निर्गतस्त्रिंशतोऽङ्गुलिभ्यो निस्त्रिंशः खङ्गः।) आदिशब्दः प्रकारवाची तेन त्र्यादेनं भवति।
ऋकपूरब्धःपथोऽनते ॥४२॥७०॥ ऋच, पुर , अप् , धूः , पथिन् इत्येवमन्तेभ्यः अ इत्ययं सान्तो भवति अक्षसंबन्धी चेःशब्दो न भवति । बादिति निवृत्तं सामान्येन विधानम् । सान्ताधिकारसामर्थ्यात्तदन्तग्रहयाम् । अकारस्यानक्षशब्दे परतः स्वेऽको दीत्वं कस्मान्न कृतम् ? शकन्भ्वादित्वात्पररूपं द्रष्टव्यम् | सौत्रो वा निर्देशः । अर्धर्चम् । अनुचो माणवकः। अबवचम् । ललाटस्य पूर्ललाटपुरम् । द्विर्गता प्रापोऽस्मिन् द्वीपः। समीपः । राज्यस्य धू राज्यधुरा । महाधुरा । मोक्षपथः । राजपथः। अनक्ष इति किम् १ अक्षस्य धूः अक्षधूः। दृढधूरक्षः। अत्र केषाश्चिदस्ति । "अनृचो माणवो ज्ञयो बहवृचरचरणे स्मृतः।" तेनेह न भवति । अनृक्क साम । बह्वृक्कं सूक्तम् ।
प्रत्यन्ववात्मामलोम्नः ॥४।७१ ॥ प्रति अनु अव इत्येव-पूर्वात्सामान्ताल्लोमान्ताच्च श्रः सान्तो भवति । प्रतिगतं साम प्रतिसामम् । श्रनुसामम् । अवसामम् । प्रतिलोमम् । अनुलोमम् । अवलोमम् । "तिकुमादयः" [११३८१] इति षसः। अन्यपदार्थे बपो वा कर्तव्यः । यदा तु हसः, तदा "अनः" [२।११०] "नपो वा" [१॥२॥१.१j इति परत्वाद्विकल्पः । प्रतिसामम् । प्रतिसाम । प्रतिलोमम् । प्रतिलोम।
"कृष्णोदकपाण्डुपूर्वाया भूमेरत्योऽयमिष्यते । गोदावर्याश्च नाश्च संख्याया उत्तरे यदि ॥' [वा०]
कृष्णाभूमः । पाण्डुभूमः । बसो यसो वा। द्वे गोदावयौं समाहृते द्विगोदावरम् । पञ्चनदम् । "नदोभिश्च" [॥३॥१७] इति इसः। चकाराद्भूमिरपि भवति । द्विभूमः । सप्तभूमः प्रासादः। कचिदन्यत्रापीष्यते । पद्मनाभः । ऊर्णनाभः । वर्षरात्रः।
अजीवेऽक्ष्णः ॥॥२७२॥ अजीवे वर्तते योऽक्षिशब्दस्तदन्तात्सात् अ इत्ययं त्यो भवति । कमलस्याक्षि कमलाक्षम् । अथवा कमलमक्षीव कमलाक्षम् एवं लक्षणाक्षम् । पुष्कराक्षम् । कबरस्याक्षि कबरानम् । श्रश्वानां मुखाच्छादनं बहच्छिद्रकमित्यर्थः। अजीव इति किम् १ अजाक्षि । कथं प्रासादस्य गवाक्षम्। कटाक्ष इति । एवमादयोऽपि रूढिशब्दा इति न जीवेऽक्षिशब्दस्य वृत्तिः।
स्त्रोधेनुवाग्दारात्पुंसनडुन्मनोगोभ्यः ॥४॥२१७३।। स्त्री, धेनु, वाक्, दार इत्येवम्पूर्वेभ्यो यथासंख्यं पुंस्, अनडुह् , मनस्, गो इत्येभ्यः श्रः सान्तो भवति । स्त्री च पुमांश्च स्त्रीपुंसौ । कचिद्यसेऽपि भवति । पूर्व स्त्री पश्चात्पुमान् स्त्रीपुंसं विद्धि राक्षसम् । स्त्रीपुंसः शिखण्डी। द्वन्द्वयसाभ्यामन्यत्र न भवति । खियाः पुमान् । परिशिष्टेभ्यो द्वन्द्व एव त्यो भवति । धेनुश्च अनड़वाश्च धेन्वनडुहो । वाक्च मनश्च वाङ्मनसम् १ दाराश्च गावश्च दारगवम् ।
१. कवणाक्षम् पू० । २. 'गोम्बा' इति बहुवचनान्तः पाठचिन्स्यः, ग्रन्थे सर्वत्रैकवचनस्यैव प्रयोगदर्शनात् ।
For Private And Personal Use Only