SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ०४ पा० २ ०११-६४ ] महावृत्तिसहितम् २७५ कृभ्वस्तिभिश्च योगे । वर्षासु सर्व लवणमनुदकमुदकं सम्पद्यते उदकसात्सम्पद्यते । उदकसात्करोति । उदकसाद्भवति । उदकसात्स्यात् । अस्मिन् कटके उत्पातेन सर्व शस्त्रमग्निः सम्पद्यते श्रग्निसात्सम्पद्यते । श्रग्निसात्करोति । श्रग्निसाद्भवति । अग्निसात्स्यात् । वेत्यनुवृत्तेः कृभ्वस्तिभिर्योगे चिचरपि भवति । उदकीकरोति । उदकीभवति । उदकीस्यात् । तदधीनोक्तौ ||४| २|५९॥ श्रतत्तत्वे इति निवृत्तम् अर्थान्तरोपादानात् । तदधीनेऽभिधेये साद्भवति । कृम्वस्तिभिः सम्पदा च योगे । उक्तिग्रहणसामर्थ्यात् यत्र तदायत्तं प्रतीयते, तस्मात्स्वामिविशेषवाचिनस्त्यः । राज्ञ श्रायत्तं राजाधीनं करोति । राजसात्करोति । राजसात्स्यात् । राजसात्सम्पद्यते । श्राचार्यसात्करोति । श्राचार्यसाद्भवति । श्राचार्यसात्स्यात् । श्राचार्यसात्सम्पद्यते । वेत्यनुवृत्तेर्वाक्यमपि साधु । देये त्रा ||४|२|६० ॥ तदधीनोक्लाविति वर्तते । देय दातव्यमित्यर्थः । तदधीने देयेऽभिधेये त्रा इत्ययं त्यो भवति साच्च कृम्वस्तिभिः सम्पदा च योगे । श्राचार्याधीनं देयं करोति श्राचार्यत्रा करोति । श्राचार्य सात्करोति । श्राचार्यसात्स्यात् । श्राचार्यत्रा सम्पद्यते । श्राचार्यसात्सम्पद्यते । वेत्यनुवृत्तेर्वाक्यमपि । देय इति किम् ? राजखाद्भवति राष्ट्रम् । अव्यक्तानुकरणाने काचोऽनितौ डाच् ||४|२/६१ ॥ शब्द इति सामान्येन व्यक्तोऽव्यक्तोsकारादिव विशेषेणाव्यक्तः । तस्यानुकरणं यत्तस्मादव्यक्तानुकरणादने काचोऽनितौ डाजित्ययं त्यो भवति कृभ्वस्तिभिर्योगे । पटत्करोति । पटपटाकरोति । पटद्भवति । पटपटाभवति । पटत्स्यात् । पटपटास्यात् । पटदिति क्रियाविशेषणम् । एतत् प्रादिवत् करोत्यर्थं विशिनष्टि न पुनः कारकत्वेनाभिसम्बध्यते । डकारः टिखार्थः । चकारो "ढाचि" इति विशेषणार्थः । डाचीति विशेष्यनिर्देशात् प्रागेव टिखाद् द्वित्वम् "म्रो हाचि " [ ४ | ३ |८७ ] इति पूर्वस्य तकारस्य पररूपम् । डाजन्तस्य " चिवडाजूर्यादिः " [ १।२।१३२ ] इति तिसंज्ञा । एवं दमदमाकरोति । दमदमाभवति । दमदमास्यात् । श्रव्यक्तानुकरणादिति किम् ? दृषत् करोति । श्रनेकाचं इति किम् ? खात् करोति । श्रनिताविति किम् । पटिति करोति । "ढाजहंस्येतावतः " [ ४|३|८५ ] इत्यच्छन्दस्य पररूपम् । श्रनिताविति प्रतिषेधार्थकः । कथमिति चेत् ? डाजन्तस्य तिसंज्ञा । तस्य "प्राग्घोस्ते" [ १।२।१४६ ] इति कृभ्वस्तिभ्यः प्राक्प्रयोगेऽनिति परतैव भवति । एवं तहि इतौ प्रतिषेधवचनम् श्रनिष्टशब्दनिवृत्त्यर्थम् । पटच्छब्दादिति शब्दप्रयोगे डाचि कृते इति पटपटाकरोतीत्यनिष्टः शब्दो मा भूत् । कृञो द्वितीयतृतीयशंवबोजात्कृषौ ||४/२/६२|| कृञो ग्रहणं स्वस्त्योर्निवृत्त्यर्थम् । कृञो योगे द्वितीय तृतीय शंव बीज इत्येतेभ्यः शब्देभ्यो डाज्भवति कृषिविषये । द्वितीयं विलेपनं करोति क्षेत्रस्य द्वितीयाकराति क्षेत्रम् | डाांच द्वित्वमनित्यमिति वक्ष्यते । योऽसौ करोतेः कर्मणश्च विग्रहे संबन्धः, स उत्पन्ने [डाचि निवर्तते । द्वितीयादयस्तु शब्दाः प्रादिवत् क्रियाविशेषणभूताः । क्षेत्रं कर्म भावमुपयाति । एवं तृतीयाकरोति क्षेत्रम् | शंयं करोति कुलिजस्य शंवाकरोति कुलिजम् । श्रन्ये तु शंवाकरोतीत्येव सार्थ दर्शयन्ति । अनुलोमविलोमाभ्यां कर्षतीत्यर्थः । बीजं करोति क्षेत्रस्य बीजाकरोति क्षेत्रम् । वपतीत्यर्थः । सह बीजेन विलेखनं करोतीत्यर्थः । कृषाविति किम् ? द्वितीयं विवरणं करोति सूत्राणाम् । गुणात्संख्यादेः ||४||६३ ॥ कृञ इति वर्तते । कृषाविति च । गुणशब्दान्तात्संख्यादेमृ दो डाभवति कृञो योगे । द्विगुणं विलेखनं करोति क्षेत्रस्य द्विगुणाकरोति क्षेत्रम् । श्रथवा द्वौ गुणौ विगृह्य हृदर्थे रसः । तस्मात्त्यः । गुणादिति किम् । द्वे परिवर्तने करोति क्षेत्रस्य । संख्यादेरिति किम् ? समगुणं करोति क्षेत्रम् | कृषावित्येव । द्विगुणं करोति वज्रम् । समयासपत्रानिष्पत्रा निष्कुला सुखाप्रिया दुःखाशूला सत्याभद्रा भद्राः ॥४/२/६४ ॥ समया For Private And Personal Use Only
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy