________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैनेन्द्र-व्याकरणम्
[प्र.४ पा० २ सू०१४-५०
जमिरकीर्तितोऽभवत् । अर्ककीर्तरभवत् । मेघप्रभो मेघेश्वरतोऽभवत् । गम्यमानपक्षापेक्षा ता । व्याश्रय इति किम् ? देवदत्तस्य हस्तः।
रोगादपनये ॥४२॥५४॥ अपनयः चिकित्सेत्यर्थः। ताया इति वर्तते । रोगवाचिनस्तान्तात् वा तसिर्भवति अपनये गम्यमाने । प्रवाहिकायाः कुरु । प्रवाहिकातः अपनयमस्याः कुर्वित्यर्थः । अपनय इति किम् ? प्रवाहिकायाः करोति प्रकोपमित्यर्थः ।
कृम्वस्तियोगेऽतत्सत्त्वसम्पत्तरि च्विः ॥४॥५५॥ वेतीहानुवर्तते । न सः असः कारणमित्यर्थः । अतस्य तत्त्वम् विकाररूपापत्तिः श्रतत्तत्त्वम् । सम्पद्यते इति सम्पत्ता सम्पद्यतेः कर्तेत्यर्थः । श्रतत्तत्त्वे गम्यमाने सम्पद्यतेः कर्तरि वर्तमानात् सुबन्तात् उत्तरावस्थाभिधायिनश्चिर्भवति कृवस्तिभियोंगे। अल्पान्तरार्थेन शब्देन विग्रहः क्रियते । अशुक्लं शुक्लं करोति शुक्लीकरोति प्रासादम् । अत्र करोतेः कर्मभावमापन्नोऽपि प्रासादः सम्पद्यतेः कर्ता भवति अत एवं विग्रहः । अशुक्लः शुक्लः सम्पद्यते तं करोति शुक्लीकरोति । शुक्लीभवति । शक्तीस्यात् । शुक्लशब्दाच्च्विः । इकारः "वौ" [२/१३५] इति विशेषणार्थः। चकारोऽपि तत्रैव विशेषणार्थः । तत्र विरित्युच्यमाने दर्विः,बागृविरित्यत्र "रीङ ऋत:" [५।२।१३६] इति रीङ्भावः प्राप्नोति । वकारः "विडाजूर्यादिः" [१२।१३२] इति विशेषणार्थः । तत्र हि विग्रहणेऽक्रियमाणे चिनोतेस्तद्विकाराणां वा ग्रहणं प्रसज्येत । पूर्वस्य सुपः "सुपो धुमृदोः" [१॥४११४२] इत्युप् । "अस्य च्वौ" [५।२।१४१] इतीत्वम् । परस्य सुपः "सुपो मेः" [४|११०] इत्युप् । कर्मभावाभिधायिन्यपि कृत्रादौ चिर्भवति । शुक्लीक्रियते। अशुक्लस्य शुक्लस्य क्रिया शुक्लीभवनमिति द्रव्यस्य गुणक्रियाद्रव्यसमूह विकारयोगेऽतत्तत्त्वमुदाहार्य क्रियायोगे-कारकीभवति । कारकीकरोति । कारकीस्यात् । द्रव्ययोगे-दण्डीकरोति । दण्डीभवति । दण्डीस्यात् । “दीरकृद्गे' [श२।१३४] "च्चौ" [१२।१३५] इति दीलम् | समूहे-गा असङ्घ सङ्घ करोति सङ्घीकरोति । सङ्घीभवन्ति गावः । सङ्घीस्युः। विकारे-पटीकरोति तन्तून् । पटीभवन्ति । पटीस्युः । घटीकरोति मृदः । घटीस्यात् । अत्रायमर्थः । यत्र कारणाद्विकारस्याभेदो विवक्ष्यते तत्रायं च्विः । न तु यत्र कारणाकार्यस्य भेदः। यथा वीरणभ्यः कटं करोति । मृदो घटं करोति । कृम्वस्तियोगे इति किम् ? अशुक्लः शुक्लो जायते । अतत्तत्त्वे इति किम् ? शुक्लं करोति । घटं करोति । अत्र विकारस्यैव विवक्षा कारणस्याविवक्षितत्वा सम्पत्तग्रहणं किम् ? कर्तुरन्यस्मिन् कारके मा भूत् । अशुक्ले सत् शुक्ले सम्पद्यते । अदेवगृहे सत् देवगृहे सम्पद्यते । कथं समोपीभवति । दूरीभवति । अत्राप्युपचारात् । तस्थे द्रव्ये वर्तमानस्य कर्तृलम् ।
मनोरुश्चक्षुश्चेतोरहोरजसः खम् ॥४२॥५६॥ मनःप्रभृतीनां शब्दानामलोऽन्त्यस्य खं भवति च्वौ परतः। अविशेषेण पूर्वेणैव चिः सिद्धः । खमनेन विधीयते । न च खविधौ तदन्तविधिप्रतिषेधः । स-त्यविधौ तदन्तविधिप्रतिषेधात् । तदन्तानां केवलानां चेह ग्रहणम् । अनुन्मनसम् उन्मनसं करोति उन्मनीकरोति । उन्मनीभवति । उन्मनीस्यात् । अरूकरोति । अरूभवति । श्ररूस्यात् । “दीरकृद्गे' [१।२।१३४] "चौ" [५।२११३५] इति दीखम् । उच्चतूकरोति । उच्चतूभवति । उच्चतूस्यात् । विचेतीकरोति । विचेतीभवति । विचेतीस्यात् । विरहीकरोति । विरहीभवति । विरहीस्यात् । विरजीकरोति । विरजीमवति । विरजीस्यात् ।
साद्वा कात्स्न्य ॥४१२।५७॥ कृभ्वस्तियोगेऽतत्तत्त्वे सम्पत्तरीति वर्तते । अवत्तत्त्वविषये कास्न्य गम्यमाने सादित्ययं त्यो भवति वा । अनग्निम् कृत्स्नमस्त्रम् अग्निकरोति अग्निसातकरोति । अग्निसाद्भवति । अग्निसात्स्यात् । उदकसात्करोति । उदकसाद्भवति । उदकसात्स्यात् । वावचनाविरपि समुच्चीयते । अग्नीकरोति । उदकीकरोति । कात्स्यादन्यत्र विरेव भवति ।
सम्पदा चाभिविधौ ॥४॥२२५८॥ नानाद्रव्याणां सर्वात्मना एकदेशेन वा विकाररूपापत्तिरभिविधिः। एकद्रव्यस्य सर्वात्मना विकाररूपापत्तिः कात्यमिति भेदः। अभिषिधौ गम्यमाने विविषये साद्भवति सम्पदा
For Private And Personal Use Only