________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म. ४ पा० २ सू० २८-३६ ] महावृत्तिसहितम्
तत्प्रकृतोक्लो मयट् ॥४॥२८॥ प्रकर्षेण कृतं प्रकृतं प्रचुरमित्यर्थः । तदिति वासमर्थात् प्रकृतोक्लो वर्तमानात् स्वार्थे मयड् भवति । अन्नं प्रकृतम् अन्नमयं पूजायाम् । दधिमयं पूजायाम् । यवागूः प्रकृता यवागमयी । पेयामयी। स्वार्थिकाः प्रकृतिलिङ्गसंख्ये अनुवर्तन्तेऽपि । अथवा नायं स्वार्थिकः। अधिकरणार्थेऽयं विधीयते । कथं ज्ञायते । उक्तिर्वचनम् । प्रकृतस्योक्तिः प्रकृतोक्तिः। तदिति वासमर्थात प्रकृतोक्तावर्थे मयड भवति । घृतं प्रकृतमुच्यतेऽस्मिन् घृतमय उत्सवः । घृतमयी पूजा। पुष्पमय उत्सवः । पुष्पायी पूजा । उक्तिग्रहणसामथ्यात् उभयोऽपि सूत्राथः प्रमाणम् ।
समूहवच्च बहुषु ॥४।२।२६।। तत्प्रकृतोक्ताविति वर्तते । समूहवत् त्यविधिर्भवति मयट च बहुषु प्रकृतेषु । यथेह भवति । अपूपानां समूहः अापूपिकम् । 'अचित्तहस्तिधेनोष्ठ" [३।२।३६] इति ठण् । एवम् अपूपाः प्रकृता श्रापूपिकम् । पक्षे अपूपमयम् । एवं मौदकिकम् । मोदकमयम् । शाक. लिकम् । शकुलीमयम् । प्रकृतिलिङ्ग संख्यातिवर्तनम् । द्वितोयसूत्राथें अपूपाः प्रकृता अस्मिन्नुच्यन्ते अापूपिक उत्सवः) अपूपमयः । आपूपिको अपूपमयी पूजा । शाष्कुलिकः शकुलीमय उत्सवः । शाकुलिकी शष्कुलीमयी पूजा ।
भेषजानन्तावसथेतिहाभ्यः ॥४२॥३०॥ भेषजादिभ्यः स्वार्थे त्र्यो भवति । कण्डवादिषु भिषजिति पठ्यते औषधस्य करणम् । तस्य कर्तृत्वविवक्षायां भिषज्यतीति भेषजम् । पचादित्वादच । "हलो यः" [४ ] इति यखम् । अत एव निपातनादेप । भेषजमेव भैषज्यम् । अनन्तमेवानन्त्यम् । श्रावसथ एवावसथ्यम् । इतिहेत्यैतिह्यम् । विभाषेह सम्बद्ध यते ।
देवतान्तात्तायें यः॥४॥२॥३१॥ तस्मै इति तदर्थम् । तदेव तादर्थ्यम् । देवताशब्दान्तातादर्थं वाच्ये यो भवति । गुरुदेवतायै इदम् गुरुदेवत्यम् । पितृदेवत्यम् ।
पाद्यायें ॥४।२।३२।। पाद्यार्थ्यशब्दौ निपात्येते । पादशब्दात्तादर्थ्य यः पाच्छब्दस्य पदादेशाभावश्च निपात्यते । पादार्थमुदकम् पाद्यम् । अर्घशब्दात्तादर्थे यः । अर्घार्थमय॑म् ।
ण्योतिथेः ॥४ारा३३|| तादयें इति वर्तते । अतिथिशब्दात्तादयेऽभिधेये ण्यो भवति । अतिथ्यर्थमिदमातिथ्यम् ।
देवात्तल ॥४॥२॥३४॥ तादर्थ्य इति निवृत्तम् । देवशब्दात् स्वार्थे तल भवति । देव एव देवता।
कोवियावादे ॥४२॥३५।। अविशब्दाद् याव इत्येवमादिभ्यश्च मुद्भधः स्वार्थे को भवति । अविरेव अविकः । यावादिष्वेव अविशब्दः पठितव्यः । पृथग्रहणं किमर्थम १ अवेर्विकार श्राविकमित्येवमादो के कृतेऽण्यथा स्यात् । यवानां विकारो यावः। याव एव यावकः। यान | मणि । अस्थि । लान्द्र । मडु। पीत । स्तम्ब । ऋतावुष्याशीते । पशौ लूनविपाते। अणु निपुणे । पुत्रात् कृत्रिमे । पुण्य । शात । अज्ञात । स्नात वेदसमाप्तौ । शून्य रिक्ते । तनु सूत्रे । ईयसश्च । भूयस्कम् । श्रेयस्कम् । कुमार क्रीड़कानि च । उत्कण्ठकः । कन्दुकः । वेत्यनुवर्तते।
लोहितान्मणौ ॥४॥२॥३६।। लोहितशब्दान्मणौ वर्तमानात् स्वार्थे को भवति । लोहित एव लोहितको मणिः। “कोहितशब्दात् स्त्रीस्यस्य परत्वात् अनेन केन बाधनं वक्तव्यम्" [वा.। परवात के कृते सकद्गते परनिर्णये बाधितो बाधित एवेति नत्वङीविधावसति , अतष्टापि कृते लोहितका मणिरिति । यदावबाधनं तदा नत्वङीविधौ कृते पश्चात्कः। “केऽणः" [२२।१२५] इति प्रादेशः। लोहिनिका मणिः। मगाविति किम् ? लोहिता खदिरः।
For Private And Personal Use Only