________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२७०
जैनेन्द्र-व्याकरणम्
[अ० ४ पा० २ सू० २०-२७
स्थानविशेषणम् । इवार्थे यः स्थानशब्दो वर्तते, तदन्तादिति । बसे च स्थानशब्द इवार्थे वर्तते । बसे तु पदसङ्घात इवार्थे वर्तते इति न भवति ।
Acharya Shri Kailassagarsuri Gyanmandir
किमेडि भिदामद्रव्ये ||४ |२| २०|| किम एकारान्तस्य मिङः मिसंज्ञकस्य च अनन्तरो यो भस्तदन्तान्मृद श्रामित्ययं त्यो भवत्यद्रव्ये । लिङ्गसंख्यायुक्तप्रत्ययकारणं द्रव्यम् । द्वाविमौ किम्पचतंः, यमनयोः किंतरां पचति । किंतमाम् पचति । एतौ द्वाविमौ पूर्वाह्न भुञ्जाते । श्रयमनयोः पूर्वाह्न तर भुङले । एतद्ग्रहणसामर्थ्याद् द्रव्येऽपि काले विधिरयम् । इह कस्मान्न भवति । जयतेविंचि तरे च कृते जेतर इति । अनभिधानादत्र विजेव नास्ति । मिङ् - पचतितराम् । पचतितमाम् । द्वाविमौ उच्चैर्हतः । श्रयमनयोरुच्चैस्तरां इसति । अद्रव्य इति किम् ! उच्चैस्तरो वृक्षः । उच्चैस्तमो वृक्षः ।
त्रिनोऽण् ||४|२|२१|| ''निभिविधौ” [२२३१६] इति भावे जिन् विहितः । न्निन्ताद भवति स्वायें । “कृद्ग्रहणे तिकारकपूर्वस्यापि ग्रहणम्' [प] सांकोटिनम् । सांगविणम् । सांमार्जिनम् । " प्रायोऽनपत्येणीन: " [४|४|१५५] इति टिखप्रतिषेधः ।
नास्त्रियाम् ||४|२|२२|| स्त्रियामित्यधिकृत्य 'कर्मव्यतिहारे जः " [२।३।७६ ] इति जो विहितस्तदन्तात्स्वार्थे ऽण् भवति स्त्रियाम् । व्यावक्रोशी | व्यात्युक्षी । व्यावर्ची वर्तते । "पदे खोरैयोव्" [ २८ ] इति तस्य विधेः “न जे” [५।२।११] इति प्रतिषेधे कृते । श्रादेरप् । स्त्रीग्रहणं किम् ? स्त्रियामेव हिजो विहितस्तस्मादयं स्वार्थिकः । स्वार्थिकाश्च प्रकृतिलिङ्गसंख्ये अनुवर्तन्त इति एवं तर्हि इदमेव ज्ञापकम् । कचित्स्वार्थिकाः प्रकृतिलिङ्गसंख्ये अतिवर्तन्तेऽपि । कुटीरः । देवता । गुडकल्पा द्राक्षा इत्येवमादि सिद्धम् ।
विसारिणो मत्स्ये ||४ | २|२३|| विसारिन्शब्दात्स्वार्थेऽण भवति मत्स्येऽभिधेये । विसारीति वैसारिणो मत्स्यः । ग्रहादिपाठारिन् । मत्स्य इति किम् ? विसारी तैलबिन्दुरिवाम्भसि ।
संख्याया ध्वभ्यावृत्तौ कृत्वस् ||४|२|२४|| ध्वर्थः क्रियारूपः साहचर्याद्धुशब्देनोक्तः । ध्वभ्यावृत्तिः अभिन्नकर्तृकायाः क्रियायाः पौनःपुन्यम् । ध्वभ्यावृत्तौ वर्तमानेभ्यः संख्याशब्देभ्यः स्वार्थे कृत्वखित्ययं त्यो भवति । श्रस्वपदेनात्र विग्रहः । पञ्चवारान् भुङ्क्ते पञ्चकृलोऽह्नो भुङ्क्ते । शतं वारान् भुङ्क्ते शतं वा वाराणां भुङ्क्ते शतकृत्वः । बहुकृत्वः । तावत्कृत्वः । कतिकृत्वः । संख्याया इति किंम् १ मुहुर्मुहुर्भुङ्क्ते । प्रभूतान् वारान् भुङ्क्ते । घुग्रहणं किम् ? द्रव्यस्य गुणस्य वा श्रभ्यावृत्तौ माभूत् । पञ्च कालेषु दण्डी । षट्सु कालेषु शुक्लः । श्रभ्यावृत्तिग्रहणं किम् ? पञ्च पाकाः । नात्राभिन्नस्य पाकस्य पौनःपुन्यं किन्त्वोदनमुद्गादोनां पाकाः ।
द्वित्रिचतुर्भ्यः सुच् ||४ |२| २५ || द्वित्रिचतुर् इत्येतेभ्यो ध्वभ्यावृत्तौ सुन भवति । कृत्वो ऽपवादः । चकारः "कालेऽधिकरणे सुजधै" [१/४/६७ ] इत्यत्र विशेषणार्थः । उकार उच्चारणार्थः । द्विर्भुङ्क्क्ते । त्रिर्भुङ्क्ते । भुजिक्रिया सामान्येनैका । Bा कालभेदाद्भिद्यते ।
एकस्य सकृत् ||४|२|२६ ॥ एकशब्दस्य मकृदित्ययमादेशो भवति सुचत्यः । ध्वभ्यावृत्तिरत्र व्यपदे शिवद्भावेनाभिसंबध्यते । एकवारं भुङ्क्ते सकृद् भुङ्क्ते । एकः पाक इत्यत्राभिधानान्नास्ति ।
बहोर्घा वाऽऽसत्तौ || ४|२|२७|| श्रासत्तिरविप्रकृष्टकालता । विषयद्वारेण ध्वभ्यावृत्तिविशेषणमेतत् । श्रासतो या क्रियाया अभ्यावृत्तिस्तस्यां वर्तमानाद्वहुशब्दाद्धा इत्ययं त्यो भवति वा । बहुधा भुङ्क्ते । बहुकृत्वो भुङ्क्ते । श्रासत्ताविति किन् ? बहुकृत्वो भुङ्क्ते मासस्य ।
For Private And Personal Use Only