________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अ० ४ पा० २ सू. 11-10] महावृत्तिसहितम्
२६६ तत्वात्को न प्राप्नोतीति प्रतिषेधवचनमनर्थकम् । एवं तहीदमेव प्रतिषेधवचनं ज्ञापकं स्वार्थेऽप्ययं को भवति । तेन सिद्धम् । भिन्नतरकम् । बहुतरकम् । अर्धच्छिन्नकम् | अर्धभिन्नकम् ।
वृहतिका ॥४।२।१४। बृहतिकेति निपात्यते । बृहत शब्दादाच्छादने वर्तमानात्स्वार्थे नित्यं को निपात्यते । बृहतिका साटी । आच्छादनादन्यत्र को न भवति । बृहती ओषधिः।
खोऽलङ्कर्मपुरुषात् ॥४ा|१५|| अलङ्कर्मन् अलम्पुरुष इत्येताभ्यां स्वार्थे खो भवति । अलङ्कमणेऽलङ्कौणः । अलम्पुरुषायालम्पुरुषीणः । “नमस्स्वस्ति'' [ २६] इत्यादिनाऽप् । 'विकुप्रादयः" [11३८१] इत्यत्र "पर्यादयो ग्लानाद्यर्थे अपा" [वा०] इति षसः ।
अषडक्षा सतवधिद्योः ४।२।१६॥ अषडद, अासितङ्ग, अधिद्य इत्येतेभ्यः स्वाथें खो भवति । अविद्यमानानि षडक्षोण्यस्मिन्निति अषडक्षीणो देवदत्तः । पितृपितामहपुत्राणामक्षीणि न पश्यतीत्यर्थः । मन्त्रोऽपि द्वाभ्यां यः क्रियते, येन वा कन्दुकेन द्वो क्रीड़तः सोऽप्येवमुक्तः । अथवाऽनशब्द इन्द्रियपर्यायोऽस्ति । अविद्यमानानि षडक्षाण्यस्य अषडक्षीणो मत्स्यः । गुणदोषविचारक्षम षष्ठमक्षमस्य नास्तीत्यर्थः । श्रासिता गावोऽस्मित्रित्यासितङ्गवीनमरण्यम् । अतएव निपातनात्कतरि क्तः। पूर्वपदस्य च मुगागमः ।रानि अधि राजाधीनम् । पुण्येऽधि पुण्याधीनम् । “ईश्वरेऽधिना" [10१८इति अधिना योगे ईप गिति संज्ञाप्रतिषेधश्च । अधिशब्दः शौण्डादिषु पठ्यते, तेन घसः । नित्यश्चेह ख इष्यते, उत्तरसूत्रे वाग्रहणात् ।
बाऽञ्चेरदिक् स्त्रियाम् ।।४।।१७॥ अञ्च्यन्तान्मृदोऽदिक् स्त्रियां वर्तमानात् खो भवति स्वार्थे वा । अदिकस्त्रियामिति प्रसज्यप्रतिषेधादिह तदन्तविधिलभ्यते । प्राश्चतीति प्राङ् (प्राक) प्राचीनम् । उदक उदीचीनम। अवाङ (क) श्रवाचीनम् । अदिक स्त्रियामिति किम् ? प्राची दिक। प्रतीची। दिगग्रहणं किम् ? प्राचीना शाला। तिरश्चीना स्थूणा । स्त्रीग्रहणं किम ? प्राचीनं दिग्रमणीयम् । प्राची दिग्रमणीयेति विगृह्य "दिक्छब्द' [४११९२] इत्यादिना श्रस्तात् । "अञ्चेरुप्" [३६] इति तस्योप् । स्वभावत उप्यस्तातेर्नपुंसकलिङ्गम् । वावचनात् स्वाथिकेषु निवृत्ता महाविकल्पाधिकार इति गम्यते । तेन पाशतमादयः प्राक। छदत्वा देशात् कल्पदशायात् । ध्यादयः प्राग्लुनः। श्रामादयः प्राङमयटः नित्या वेदितव्याः। याप्यो वैयाकरणः । अयमेषामतिशयेन परित्येवमादो वाक्येन प्रकृतिर्याप्येऽतिशायने वा वर्तते किन्त पदारमतस्त्यो न भवति ।
जातेछो वन्धुनि ।।४।२।१८। बध्यतेऽस्मिन् जातिरिति बन्धुद्रव्यमिह जात्यधिकरणभतं गृह्यते नपा निर्देशात् । जातिशब्दाद्वन्धुनि वर्तमानात् छो भवति । केवल जातिशब्दस्य बन्धुनि वृत्त्यसम्भवात्तदन्तविधिः । क्षत्रियो जातिरस्य क्षत्रियजातीयः। क्षत्रिय एवोच्यते । शोभना जातिरस्य शोभनजातीयः । दुष्टा जातिरस्य दुर्जातीयः । का जातिर्भवतः, किंजातीयो भवान् । द्वयोर्विकल्पयोर्मध्ये नित्योऽयं विधिः। "प्रकारोक्तो जातीयः" [1१1१२८] इत्येव सिद्ध किमर्थमिदं जात्यन्तस्य बसस्य केवलस्य च प्रयोगो माभूत इत्येवमर्थम् । कथं दुर्जातेः सूतपुत्रस्येति प्रयोगः । चिन्त्यमेतत् । बन्धुनीति किम् ? ब्राह्मणजातिरदृश्यपापा।
वेवे स्थानान्तात् ॥४।२।१६॥ स्थानान्तान्मृद इवार्थे वा छो भवति । पितुः स्थानमिव स्थानमस्य पितृस्थानः ।"इवोपमानपूर्वस्य शुखं वा" वा०] इति । उपमानपूर्वस्य बसो भवति द्योश्च खम् । यथा उष्ट्रमुख इति । अयं स्थानान्तो बस इवाथें वर्तते । अस्माद्वा छो भवति । पितृस्थानीयः । पितृस्थानः। गुरुस्थानीयः । गुरुस्थानः । पुनर्वाग्रहणमनन्तरस्य नित्यतां ख्यापयति । इव इति किम् १ गवां स्थानम् गोस्थानम् । "मृग्रहणे तदन्तविधिनास्ति" इति अन्तग्रहणं कृतम् । इह कस्मान्न भवति । गोः स्थानमिति । नैष दोषः। इवग्रहणं
१. रघपा-ब।
For Private And Personal Use Only