________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२६८
जैनेन्द्र व्याकरणम्
[ अ० ४ पा० २ सू० ७-१३
अभिजिद्विदभृतोऽणो यम ||४|२|७|| शस्त्रजीविसङ्घादिति निवृत्तम् । अभिजित् विदभृत् इत्येता यामण्णन्ताभ्यां स्वार्थे यञ् भवति । "वृद्धाद् वृद्धवदिति वक्तव्यम्” [वा.] वृद्धापत्ये योऽ विहितः तदन्तादयं यञ् वृद्ध वच्च भवति । श्रभिजितोऽपत्यमण । श्रभिजितः । तदन्ताद्यञ श्रभिजित्यः । श्राभिजित्यौ । श्रभिजिताः । वैदभृत्यः । वैदभृत्यो । वैदभृताः । वृद्वादिति किम् ? अभिजिद् देवताऽस्य ग्राभिजितः । विदभृत इदं वैभृतम् । वृद्धवदिति किम् ? अभिजित्यस्यापत्यं युवाऽऽभिजित्यायनः । "यजिजो: " [ ३|१|१० ] इति फण् सिद्धः ।
Acharya Shri Kailassagarsuri Gyanmandir
शिखाशालाशम्यूर्णाश्रियां मतोः ॥४२॥ शिखा, शाला, शमी, उर्णा, श्री, इत्येतेषां शब्दानां मतोर्योऽण् तदन्तात्स्वार्थे यञ् भवति । शिखावतोऽपत्यमित्यण । तदन्तादयं यञ् । शैखावत्यः । शैखावत्यौ । शैखावताः । शालावत्यः । शालावत्यौ । शालावताः । शामीवत्यः । शामीक्त्यौ । शामीवताः । श्रौर्णावत्यः । श्रीवत्यौ । श्रर्णावतः । श्रमत्यः । श्रमत्यौ । श्रमताः । वृद्वादित्येव शिखावत इदं शैखावतम् । “वृद्धवदिति वक्तव्यम्” [वा०] शैखावत्यायनः । नेदं वक्तव्यम् । श्रपत्यस्वार्थिकाः श्रापत्यग्रहणेन गृह्यन्त इत्येव सिद्धम् ।
ते द्रयः || ४|२|९|| ते ज्यादयो द्रिसंज्ञका भवन्ति । तथैवोदाहृतम् । ते ग्रहणम् श्रनुक्रान्तसंशिप्रतिपत्त्यर्थम् ।
संख्यायाः पादशतेभ्यो वीप्सादण्डत्यागे वुन् ||४|२| १०|| संख्यादेः पादशतान्तान्मृदः वीप्सात्यागेषु गम्यमानेषु वुन् भवति । तासन्निधानेऽन्त्यस्यालः खं च । "यस्य ङ छ” । [ ४।१।१३६ ] इति यदि खं क्रियते, तस्य परनिमित्तत्वात् "परेऽचः पूर्वविधौ ' (१|१|१७ ) इति स्थानिवद्भावात् " पादः पत्" [४|४|११६] इति पद्भावो न स्यात् । इदं पुनः खमनिमित्तमिति न स्थानिवद्भावः । द्वौ द्वौ पादौ भुङ्क्ते द्विपदिकां भुङ्क्ते । त्रिपदिकां भुङ्क्ते । हृदर्थे रसः । वुनैव वीप्सार्थस्य द्योतित्वात् वीप्सालक्षणं द्वित्वं निवर्तते । द्वे द्वे शते भुङ्क्ते द्विशतिकां भुङ्क्ते । त्रिशतिकां भुङ्क्ते । दराडे — द्वौ पादौ दण्डितः द्विपदिकां दण्डितः । त्रिपदिकां दण्डितः । त्यागे— द्वौ पादौ व्यवसृजति द्विपदिकां व्यवसृजति । त्रिपदिकां व्यवसृजति | त्रिशतिकां व्यवसृजति । वुन्नन्तं स्वभावतः स्त्रियां वर्तते । संख्याया इति किम् ? पादं पादं ददाति । पादशतेभ्य इति किम् ? द्वौ द्वौ प्रस्थौ ददाति । बहुत्वनिर्देशादन्यत्रापि भवति । द्वौ द्वौ मोदकौ ददाति द्विमोदकिकां ददाति । द्विहलिकां ददाति । बीप्सादिग्रहणं किम् ? द्वौ पादौ भुङ्क्ते ।
स्थूलादिभ्यः प्रकारोक्तौ कः ||४| २|११|| स्थूल इत्येवमादिभ्यः प्रकारोक्तौ गम्यमानायां को भवति । जातीयस्यापवादः । श्रत्रापि प्रकारवति त्यः स्थूला गुमाषेषु । स्थूलप्रकारः स्थूलकः । अणुकः । माषकः । इषुकः । श्रपरेषां व्याख्या । माषेष्वित्युपाधिः । स्थूलका माषाः । श्रणुका माषाः । स्थूलामाषेषु । कृष्णतिलेषु । पाद्यकालावदाताः सुरायाम् । गोमूत्र श्राच्छादने । समस्तव्यस्ते । यवब्रीहिषु । कुमारीपुत्र । कुमारी । श्वसुरः । पाठः कर्तव्यः ।
सुराया हौ । जीर्णशालिषु । पत्रमूले मणि इच्छु तिल । चञ्चवृहतोरप्यत्र
क्कादनत्यन्ते ॥४|२|१२|| श्रनत्यन्तमकार्यम् । अनत्यन्ते वर्तमानात् क्वान्तान्मृदः को भवति । श्रत्यन्ते भिन्न भिन्नकम् । छिन्नकम् । अनत्यन्त इति किम् ? भिन्नम् । अत्र भेदनक्रियायाः कार्त्स्न्येन संबन्धः ।
न सामेः ||४|२| १३ ॥ सामिशब्दात्परं यक्क्तान्तं तस्मात् को न भवति । सामिकृतम् । सामिभुक्तम् । सामिपर्यायाणामपि ग्रहणमिति केचित् । अर्धकृतम् । नेमकृतम् । ननु चात्र पदान्वरेणानत्यन्तगतेरभिहि
For Private And Personal Use Only