________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२७२
जैनेन्द्र-व्याकरणम्
वर्णेऽनित्ये ||४| २|३७|| श्रनित्ये वर्णे वर्तमानाल्लोहितशब्दात्को भवति । कोपेन लोहितकं चक्षुः । स्त्रियां पूर्ववदुभयं भवति । लोहितिका कन्या कोपेन लोहिनिका वा । अनित्य इति किम् ? लोहित इन्द्रगोपकः । लोहितं रुधिरम् ।
Acharya Shri Kailassagarsuri Gyanmandir
[ अ०
अ० ४ पा० २ सू० ३७-४७
रक्ते ||४|२|३८|| लाक्षाकृमिरागादिना रक्ते वस्त्रादिके वर्तमानात् लोहितशब्दात्को भवति । लोहितक: पहाटकः । लोहितकः कम्बलः । अत्र योगवशात् यावद् द्रव्यमावि लोहितत्वमिति पूर्वेण प्राप्तिः । स्त्रियां पूववदुभयम् । लोहितिका पट्टसाटिका लोहिनिका वा ।
कालाच ||४|२|३९|| वर्णे नित्ये रक्ते इति द्वयस्यानुकर्षणार्थश्चकारः । श्रनित्ये वर्णे रक्ते च वर्तमानात् कालशब्दात् को भवति । कोपेन कालकं वस्त्रम् । कालिका साटी । श्रनुक्रान्तेषु चतुर्ष्वपि चेति वर्तते ।
विनयादेष्ठ ||४ | २|४०|| विनय इत्येवमादिभ्यः स्वार्थे ठण् भवति । विनय एव वैनयिकम् । विनयः । समय । उपायात्प्रश्च । सङ्गति । कथञ्चित् । अकस्मात् । उपचार। समाचार । व्यवहार | सम्प्रदान । समुत्कर्ष । समूह । विशेष । श्रत्यय । वेत्यनुवर्तत एव । अनुगादिशब्दोऽपीह पठनीयः ।
वाचस्तदर्थायाः ||४|२||४१॥ सा वाक् अर्थोऽभिधेयोऽस्या इति तदर्था । तदर्थाया वाचः स्वार्थे ठ भवति । देवदत्तेन सन्दिष्टा वाग् जिनदत्ते । सा यया वाचा जिनदत्तेन परस्य प्रकाश्यते सा वाक्तदर्था वागर्थेत्यर्थः । वागेव वाचिकम् । तदर्थाया इति किम् ? स्निग्धवाक् सुजनस्य च व्यवह्नियते ।
तद्युक्ता कर्मणो ||४|२|४२|| तया वाचा युक्तं यत्कर्म तदभिधायिन: स्वार्थेऽण् भवति । यदेव वाचा व्यवह्रियते इदं कर्म कुर्विति, तदेव क्रियमाणं कर्म वाग्युक्तमुच्यते । कर्मेव कार्मणाम् । तद्युक्तादिति किम् ? स्वयमेव देवदत्तेन कर्मकृतम् ।
श्रोषघेरजातो ||४|२|४३|| श्रोषधिशब्दादजातौ वर्तमानादण् भवति । श्रोषधिरेव श्रौषधं पीयते । प्रजाताविति किम् ? स्थिरोऽयमस्त्वोषधिः क्षेत्रे |
प्रज्ञादेः || ४|२| ४४ || प्रज्ञ इत्येवमादिभ्यः स्वार्थेऽण् भवति । प्रजानातीति प्रज्ञः । प्रज्ञ एव प्राज्ञः । 'प्रज्ञाश्रद्धाऽर्चावृत्तिभ्यो णः [ ४।१।२८ ] इति मत्वर्थीयेन सिद्धेपि स्त्रियां विशेषः । ऋणि प्राज्ञी | खे प्राज्ञा । प्रश । वणिज् | उशिक् । उष्णिन् । प्रत्यक्ष । विद्वस् । विदन् । वशिक | द्विदश । षोडन् । विद्या । मनस् । श्रोत्र शरीरे । जुहृत् । कृष्ण मृगे। चिकीर्षत् । वसु । मस्त् । सत्वन्तु । दशार्ह | वयस् । क्रुट् । रक्षस् | असुर | शत्रु | चोर । योध । चक्षुष् । पिशाच । अशनि । कार्षापण । देवता । बन्धु । श्राकृतिगणोऽयम् । विकृतिरेव वैकृतम् ।
मृदस्तिकः || ४|२| ४५|| मृत्-शब्दात्स्वार्थे तिको भवति । मृदेव मृत्तिका । स्त्रीविषयत्वाद्यापि कृते "स्यस्थे क्यापीद” [५/२/५० ] इत्यादिना इत्वेन सिद्ध इकारोच्चारणं किम् ? द्वाभ्यां मृत्तिकाभ्यां क्रीतं द्विमृत्तिकम् । "हृप्युप्" [ १1१18 ] इति स्त्रीत्यस्यापि श्रवणार्थम् ।
सस्ना प्रशंसे ||४|२|४६|| प्रशंसे वर्तमानान्मृच्छन्दान्नित्यं स स्न इत्येतौ त्यौ भवतः । रूपापवादः । प्रशंत इति प्रकृत्यर्थविशेषणमेतत् । मृत्सा । मृत्स्ना । उत्तरत्र वाग्रहणादिह नित्यो विधिः । यक्ष मृच्छदेन प्रशंसो नाभिधीयते किन्तु शब्दान्तरेण गृह्यते तदा वाक्यतिकौ भवतः । मृत्प्रशस्ता । मृत्तिका प्रशस्ता ।
For Private And Personal Use Only
बहल्यार्थाच्छस्कारकाद्वा ||४ |२| ४७॥ बह्वर्थादल्पार्थाच्च कारकविशेषणात् शस् भवति वा । इह बहुशब्दो नानाधिकरणवाची न वैपुल्यवाचो । अल्पशब्दोऽपि नानाधिकरणवाची नत्वीषदर्थवाची गृह्यते ।