SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६२ जैनेन्द्र-व्याकरणम् (भ० ४ पा० । सू० १२८-२५ प्रकारोक्को जातीयः॥४।११२८।। प्रकारोक्तो सुबन्ताजातीय इत्ययं त्यो भवति स्वार्थे । पटुप्रकारः पटुजातीयः । पण्डितजातीयः । यज्जातीयः । तजातीयः । प्रकारवति चायं वेदितव्यः । प्रकारमात्रे थाथमौ । तेन तदन्तादपि । यथाजातीयः । कथंजातीयः । एवमर्थ वेहोक्तिग्रहणम् । एवात्कः ॥४।११२९|| "इवे प्रतिकृतौ कः" [१।१।१५०] इति वक्ष्यति । श्रा एतस्मादिव संशब्दनात् यदित ऊर्ध्वमनुक्रमिध्यामः, तत्र क इत्ययमधिकृतो वेदितव्यः। श्राडिह मर्यादावचनः। वक्ष्यति "कुत्साऽज्ञातयोः'' [ ||१३६ ] । कुत्सितोऽश्वोऽश्वः । गर्दभकः । इह सुप इत्यनुवर्तनान्मिङन्ताको नेष्यते । झिसर्वनाम्नोऽप्राक्टेः को दः ॥४॥१११३०॥ मिङ इति च वर्तते । झेः सर्वनाम्नश्च अगित्ययं त्यः टेः प्राग्भवति ककारस्य च दकारः एवादर्थेषु । कस्यापवादः। मृदः सुप इति च वर्तते । तत्राभिधानवशाद् व्यवस्था । भिसंशाके नास्ति विशेषः । उचकैः । नीचकैः। यदि ककारोऽस्ति तस्य दकारः। हिरुक, हिरकुत् । पृथक पृथकत् । सर्वनाम्नो मृदवस्थायामक् । सर्वके । विश्वके। उभको। उभयके । युष्मकाभिः । श्रमकाभिः । युष्मकासु । अस्मकासु। युवकयोः। आवकयोः। इह सुबन्तादेव। त्वयका । स्वयकि । मयकि । सुप इत्यादिसम्बन्धादेव "सुपो धुमृदोः" [१1१।१४२] इत्युम्नेष्यते । मिङः खल्वपि । पचकति । पठतकि । "तन्मध्यपतितास्तग्रहणेन गृह्यन्ते' इति मिङन्तमेवैतत् । "अप्रकरणे तूष्णीमः काम् वक्तव्यः' वा०] मकारः "परोऽचो मिद्" [11३५५] विशेषणार्थः । तूष्णीकामास्ते । “शीले को मखं च" [वा०] तूष्णी शीलस्तूष्णीकः । कुत्साऽज्ञातयोः ॥४।१।१३१।। कुत्साऽज्ञातत्वोपाधिकेऽर्थे वर्तमानान्मृदः स्वार्थे यथाविहितं त्यो भवति । कुत्सितोऽश्वः कस्यायमश्व इति वाऽश्वकः । उष्ट्रकः । उच्चकैः । सर्वके । पचतकि । इह कुत्सितक इत्यज्ञातार्थे । अज्ञातक इति कुत्सितेऽर्थे कः । अतः कविधेस्तमादयो भवन्ति । पूर्वनिर्णयेन, पश्चात्कादिविधिः । पटुतरकः । मृदुतरकः । पचतितरकाम् । छिन्नकादिषु के कृते तमादयः । छिन्नकतरः । भिन्नकतरः । अनुकम्पायाम् ॥४।१।१३२॥ सौहृदेन कारुण्येन वा परस्यानुग्रहोऽनुकम्पा तत्र वर्तमानान्मृदः सुबन्तान्मिङश्च यथाविहितं त्यो भवति । अनुकम्पितो माणवो माणवकः । बुभुक्षितक । नोचकैः । याचतके । नीतौ च तद्युक्तात् ।।४।१।१३३॥ अनुकम्पाविषयायां नीतो गम्यमानायां तयुक्तादनुकम्पायुक्तायथाविहितं त्यो भवति । चकारोऽनुकम्पाऽनुकर्षणार्थः । तेन सामोपप्रदानलक्षणा नीतिरिह गृह्यते, न भेदः दण्डलक्षणा । पूर्वसूत्रेणानुकम्प्यमानवाचिनस्त्यो विहितोऽनेन पुनस्तयुक्ताद्विधीयते । पुत्रक उत्संगक। उपविश कर्दमकेनासि दिग्धकः । हन्त ते तिलकाः । हन्त ते गुडकाः। एहकि । अद्धकि । उपविश, असि, ते, हन्त इत्येवमादिषु अनभिधानान्न भवति । बचो नृखोर्वा ठः ॥४।१।१३४|| अनुकम्पायां नोतौ च तद्युक्लादिति सर्वमनुवर्तते । बहुचो मृदो नृनामधेयाद् वा ठ इत्ययं त्यो भवति । अनुकम्पायां "नोतौ च तद्युक्तात्" [११३३] इति नित्ये के प्राप्ते वा ठः । अनुकम्पितो देवदत्तो देविकः । देवदत्तकः। जिनिक । जिनदत्तकः । "ठाऽचि द्वितीयारपरोऽचः" [११११३६] इति दत्तशब्दस्य खं ठस्येकादेशश्च । बह्वच इति किम् ? रामकः । दत्तकः । ऋग्रहणं किम् ? देवदत्तको हस्ती। खुग्रहणं किम् । माणवकः । घेलो ॥४।१३१३५॥ अनुकम्पायां नीतौ च तद्युक्तादिति वर्तते । बढ़चो नृखोर्घ इल इत्येतो त्यौ भवतः । अनुकम्मितो देवदत्ता देवियः, देवितः । पूर्वेण वा ठाऽपि भवति देविकः, देवदत्तकः । For Private And Personal Use Only
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy