SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अ० ४ पा० १ सू० १३६ - १४० ] महावृत्तिसहितम् २६३ अडबू वोपादेः ||४|१|१३६॥ श्रनुकम्पायां नीतौ च तद्युक्तादिति वर्तते । उपशब्दादेर्मृदो बहुचो खोः श्रड व इत्येतौ त्यौ भवतो घेलो च वा । अनुकम्पितो उपेन्द्रदत्तः उपडः, उपकः, उपियः, उपिलः, उपकः, उपेन्द्र दत्तकः । यादिर्बुशब्दो यकारस्य खं कृत्वा निर्दिष्टः । तेन वोरकादेशः सिद्धः । जातिनाम्नः कः || ४|१|१३७ || जातेर्नाम जातिनाम जातिशब्द इत्यर्थः । बहवृचोऽबद्द् वृचश्च सायान्येनायं विधिः । जातिशब्दान्नृखो: अनुकम्पायां नीतौ च गम्यमानायां क इत्ययं त्यो भवति । अनुकम्पितो महिषो महिषकः । वराहकः । शरभकः । व्याघ्रकः । सिंहकः । इह केचिद्वाग्रहणमनुवर्त्य व्याप्रिलः, सिंहिलः इत्युदाहरन्ति तत्तु नातिश्लिष्टम् अस्य सूत्रस्य वैयर्थ्यप्रसङ्गात् । तस्माद् घादीनां वाधैव युक्ता । , खं वाजिनस्य ||४|१|१३८ ॥ नृखोरिति वर्तते । श्रजिनशब्दान्तान्मृदो नृखोः अनुकम्पायां tataौ च गम्यमानायां क इत्ययं त्यो भवति तस्य च द्योः खं भवति । अनुकम्पितस्तुलाजिनस्तुलकः । व्याघ्रकः । मृगकः । द्युग्रहणं किमर्थम् १ श्रजिनशब्दान्तस्य द्योः खं यथा स्यात् । अनुकम्पितो व्याघ्रमष्टाजिनो व्याघ्रकः । Bisfa द्वितीयात्परोऽचः ||४|१| १३६ ॥ खमिति वर्तते । प्रकृते ठेऽजादौ च परतः । प्रकृतेद्वितीयादचः परशब्दो नाश्यते । परग्रहणं सर्वनाशार्थम् । अनुकम्पितो देवदत्तो देविकः, देवियः, देविलः । अनुकम्पित उपेन्द्रदत्त उपडः, उपकः । श्रथाजातित्वादेव सिद्धे पृथक ठग्रहणं किमर्थम् ? खे कृते इकादेशो यथा स्यादित्येवमर्थः । श्रन्यथा अनुकम्पितो भानुदत्तः भानुकः । पित्तृकः इत्येवमः दि न सिद्धयेत् । इकस्य स्थानिवद्भावाग्रहणेन ग्रहणकादेशा भविष्यतीति चेन्न; "सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य " श्रीजादिसन्निपातकृत मुगन्तत्वम् । "चतुर्थादचः परस्य खं वक्तव्यम्" [ वा० ] बृहस्पतिदत्तः । बृहस्पतियः। बृहस्पतिलः । बृहस्पतिकः । “अनजादौ द्वितीयादचः परस्य वा खं वक्तव्यम्”[वाऽ] देवदत्तकः । देवकः । जिनदत्तकः । जिनकः । "पूर्वपदस्य च ठाजादौ अनजादौ च खं वक्तव्यम् [वा०] दत्तिकः । दत्तियः । दत्तिलः । दत्तकः । “विनापि निमित्तं पूर्वोत्तरपदयोर्वा खं वक्तव्यम्” [वा०] । सत्यभामा । भामा । सत्या वा । विष्णुगुप्तः । गुप्तः । विष्णुर्वा । "उवर्णादिलस्य च खं वक्तव्यम्" [वा०] । परस्यादेरितीकारस्य । भानुदत्तः, भानुलः । वसुलः । उक्तञ्च " "चतुर्थादनजादौ च नाशः पूर्वपदस्य च । अनिमित्त े तथैवेष्टः उवर्णान्तादिकस्य च ॥" "उगता दियेतयोः खं वक्तव्यम्" [ वा० ]। प्रकृते ठाचि द्वितीयात्परत्य खे कृते इयेलयोश्च परस्यादेः खे कृते भवादोकारो ये दीत्वं रीङ्भावः इत्येते विधयो न भवन्ति । भानुयः । मातृयः । भानुलः । "एचो द्वितोयत्वे तदादेः खं वक्तव्यम्" वा० | लोड: । लहिकः । कहोडः । कहिकः | कपोतरोम । कपिकः । कपिलः । श्रमो जिह्नः । श्रमिकः । श्रमिलः । " एकाक्षरपूर्वपदान धोः खं वक्तव्यमषषः " [ चा० ] अनुकम्पितो वागाशी ( दत्तः ) वाचिकः । त्वचिकः । श्रुचिकः । पूर्वस्य पदकार्यनिवृत्त्यर्थमेतत् । श्रषष इति किम् । षडङ्गुलिः षडिकः । शेवल सुपरिविशाल वरुणार्यमादेस्तृतीयात् ||४|१|१४०|| शेवल सुपरि विशाल वरुण अर्यमन् इत्येवमादेखो दस्तृतीयादचः परो नाश्यते ठाचि परतः । द्वितीयादचः परस्य खे प्राप्ते वचनम् । अनुकम्पितः शेवलदत्तः शेवलिकः । शेवलियः । शेवलिलः । सुपरिकः । सुपरियः । सुपरिलः । । वशालिकः । विशालियः । विशालिलः । वरुणिकः । वरुणियः । वरुणिलः । श्रर्थमिकः । श्रर्यमियः । श्रर्यमिलः । "अकृत सन्धीनां शेवलादीनामिति वक्तव्यम्” [वा०] । शेवलेन्द्रदत्तः शेवलिकः । सुपर्याशोदत्तः सुपरिकः । शेवलयिकः सुपर्यिक इति च माभूत् । नेदं वक्तव्यम् । श्रकृतवद्व्यूहेन सिद्धम् । प्रकृतवद्व्यूहो नाम अन्तरङ्गपरिभाषाया श्रव्यापारः । For Private And Personal Use Only
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy