________________
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
म.पा., सू० १२३-१२७]
महावृत्तिसहितम्
२६१
साधिष्ट जल्पति । अयमनयोः साधीयो जल्पति । यदि वाढशब्दो द्रव्यवचनः साधीयानिति । सर्वाणीमानि अन्तिकानि, इदमेषां नेदिष्ठम् । इदमेनयोर्नेदीयः । इदमस्मान्नेदीयः । तस्तमौ भवत एव । वाढतरम् । वाढतमम् ।
युवाऽल्पयोः कन्वा ॥४॥१११२३॥ युव अल्प इत्येतयोः कन्नित्ययमादेशो भवति वा शेषयोः परतः । शेषयोर्विधानं पूर्ववद्व्याख्येयम् । सर्व इमे युवानः, अयमेषां कनिष्ठः । कनीयान् । यदा युवशब्दस्य कन्नादेशो न भवति तदा "स्थूल दूरेत्यादिना'' [४।४।१४०] यणः खमिक एप । यविष्ठः । यवीयान् । सर्व इमेऽल्पा श्रयमेषां कनिष्ठः । कनीयान् । अल्पिष्ठः । अल्पीयान् । तरतमौ भवत एव ।
विन्मतोरुप ॥४।१।१२४|| विन् मतु इत्येतयोरुन्भवति शेषयोः परतः। इदमेव ज्ञापकम् । शेषयोविधानस्य यथासङ्ख्यमत्र नेष्यते । सर्व इमे स्रग्विणः, अयमेषां स्रजिष्ठः । सजीयान् । सव इमे त्वग्वन्तः, अयमेषां त्वचिष्ठः, स्वचीयान् ।
प्रशंसायां रूपः ॥४।१।१२५॥ ड्याम्मृद इति वर्तते मिङ इति च । प्रशंसायां वर्तमानान्ड्याम्मृदो मिडश्च रूप इत्ययं त्यो भवति प्रशंसायां धोत्यायाम् । स्वार्थिकानां प्रकृत्यर्थविशेषणं द्योत्यं भवति | वाच्यं पुनस्तत्प्रकृतेरेव । वैयाकरणः प्रशस्तः, वैयाकरणरूपः । पटुरूपः। प्रशस्ता कुमारी कुमारिरूपा । "तसादौ" [४/३१३७ इति पुंवद्भावे प्राप्ते "झरूपेत्यादिना" [३।१५५) प्रादेशः। वयोलक्षण्डीविधेः कृतत्वाद्रुपान्ताट्टाप् । कथं निन्दायां प्रयोगः १ वृषलरूपोऽयं यो मांसेन सुरां पिबेत् । चौररूपोऽयं योऽक्षिस्थमजनमपि हरेत् । अत्रापि प्रकृत्यर्थस्य वैस्पष्टयम् । प्रशंसायां मिङः खल्वपि । पचति रूपम् । पचतो रूपम् । पचन्ति रूपम् । लोकाश्रयमिह नपुंसकलिङ्गम् । क्रियाप्रधानमाख्यातम् । एका च क्रियेति रूपान्तादेकवचनमेव भवति ।
प्रसिद्धो देश्यदेशीयकल्पाः ॥४।१।१२६॥ सिद्धिः परिपूर्णता, न सिद्धि रसिद्धिः । ईषदसिद्धिरासिद्धिः। तद्विशिष्टेऽर्थे वर्तमानान्ड्याम्मृदो मिङन्ताच्च देश्य देशीय कल्प इत्येते त्या भवन्ति स्वार्थे । ईषदसिद्ध ः पतुः, पटुदेश्यः। पटुदेशीयः। पटुकल्पः । स्त्रियां पट्विदेश्या तसादिष्वपरिगणनात् पुंवद्भावो नास्ति । पटुदेशीया। "पुवद्यजातीय" ३१५५] इति पंवदभावः । पटविकल्पा कल्पस्य तस्यातसादित्वात "तसादौ" [१॥३॥१४७] इति पुंवद्भावे प्राप्ते "झरूप" [१।३।१५५] इत्यादिनेकारान्तस्य प्रः। "जात् स्त्रियाम्" श२२] इत्यत्र वक्ष्यते । अतिवर्तते च स्वार्थिकाः प्रकृति लिङ्गसङ्ख्ये इति । तेन गुडकल्पा द्राक्षा । तैलकल्पा प्रसन्ना । पयस्कल्पा यवागूः । मिङः। ईषदसिद्धं पचति, पचतिदेशीयम् । पचतिकल्पम् । पचतःकल्पम् । पचन्तिकल्पम् ।
राक्त ॥४२१२७॥ श्रासिद्धाविति वर्तते। ईषदसिद्धिविशिष्टेऽथे वर्तमानान्मदः सुबन्ताद् बहुत्यो वा भवति । स तु प्राग्भवति । विभाषया त्योत्पत्तिर्यथा स्यात् प्राग्भावस्तु नित्यः । इत्यस्य व्यतिरेकस्य दर्शनार्थस्तुशब्दः। ईषदसिद्धं कृतं बहुकृतम् । त्ये कृते मृत्संज्ञायां पुनः सुप् । "कृद्धत्साः" [11] इत्ययं नियमस्तुल्यजातीयस्य सुबन्तसमुदायस्यान्यत्यान्तस्य च मृत्संज्ञां निवर्तयति । तेन बहकृतशब्दात्सुबुत्पत्तिः । एवं बहुपटुः। बहुगुडः। यदा द्राक्षाविशेषणं भवति तदा टाप् । बहुगुडा द्राक्षा'। वाग्रहणं देश्यादिसमावेशार्थम् । अन्यथा मिङन्ते सावकाशान् देश्यादीनयं बाधेत | सुप इति किमर्थ यावता "प्रियकुत्सनादिषु पुनः प्रवर्ततेऽसौ विभक्त्यन्त" इत्युक्त पुनः सुग्रहणं मिनिवृत्त्यर्थम् । परत्वाद्देश्यादिष कृतेषु तमादयः। पटुदेश्यतमः । बहुपटुतमः। ईषदसिद्धेः प्रकर्षों नास्तीति प्रकृत्यर्थप्रकर्षे तमादयः।
For Private And Personal Use Only