SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६० जैनेन्द्र-व्याकरणम् [म. १ पा० १ सू० १११-१२२ मिङः ॥४॥१॥११॥ यद्यपि मिडन्ते साधनप्रधाने अभिधानरूपेण गुणीभूता क्रिया, तथापि तस्याः साध्यमानत्वात्प्राधान्यम् । तदपेक्षायां साधनप्रकर्षेऽयं विधिर्वेदितव्यः। मिडन्तादतिशायने तम इत्ययं त्यो भवति । ड्याम्मृदधिकारात् पूर्वेण प्राप्तिर्नास्ति । सर्व इमे पचन्ति, अयमेषां पतितमाम् । पठतितमाम् । 'किमेन्मिमिमादामद्रव्ये" [ २०] इत्याम् । इष्टो "गुणवचनादेव" [ 1] इति नियमादिह न सम्भवति । द्विविभज्यतरेयसू ॥४११११६॥ द्वौ च विभज्यं च, द्विविभज्यम् । द्विग्रहणमर्थनिर्देशपरम् । विभक्तव्यं विभज्यं पृथककर्तव्यमित्यर्थः । इदमेव निपातनं यविधेः । द्वयर्थे विभज्ये च प्रयुक्त सति ङ्याम्मूदो मिश्च अतिशायने द्योत्ये तर इयसु इत्येतो त्यो भवतः। तमष्ठयोरपवादः। यथासङख्यमवरितखादिह नेष्यते । उभाविमावाट्यौ, अयमनयोराढ्यतरः । कारकतरः। द्वाविमौ पचतः। अयमनयोः पचतितराम् । ईयसुर्गुणवचनादेव । द्वाविमौ पटू, अयमनयोः पटीयान् । सूत्रे द्विशब्देन यद्यर्थग्रहणं द्वयोरर्थयोरेकतरस्यातिशायने इति तदा सिद्धमिदम् । अस्माकं देवदत्तस्य च देवदत्तोऽभिरूपतर इति व्यर्थवादस्य । इदं तु न सिद्धयति । दन्तौष्ठस्य दन्ताः स्निग्धतराः । पाणिपादस्य पाणी सुकुमारतराविति । अत्रापि जात्यपेक्षयाsद्विखोपपत्तेः। विभज्ये। सांकाश्यका माथुरेभ्य श्रादयतरा: ।। पटीयांसः। अत्र जात्यभावाद्वयर्थता नास्ति । तथापि नासौ शब्दोपाता। अत एव बहन्तमदाहरणम् तादी झः ॥४॥॥११७॥ अतिशायने चत्वारस्त्या विहितास्तेषु तकारादी झसंज्ञौ भवतः । कुमारितरा । कुमारितमा। "झरूपकल्पचेलबवगोत्रमतहते प्रोऽनेकाच;" [४।३।१५५इति पूर्वस्य प्रादेशः । झान्तादतष्टाप् । शेषौ गुणवचनादेव ॥४।१।११८॥ तादी मुक्त्वा इष्ठेयसू शेषौ । शैषो गुणवचनादेव भवतो नान्यः स्मादिति नियमोऽयम् । सर्व इमे पटवः अयमेषां परिष्ठः । द्वाविमो पटू, अयमनयोः पटीयान् । अयमस्मात्पटीयान् । शेषग्रहणं प्रकृततादिनिवृत्त्यर्थम् । गुणवचनादिति किम् ? गोतमः । एवकार इष्टतोऽवधारणार्थः । मैवं विज्ञायि, शेषावेव गुणवचनादिति । एवं द्विपटुतम इति न स्यात् । प्रशस्यस्य श्रः ।।४।१।११९।। शेषग्रहणं प्रकृतम् । तदर्थवशादीपा विपरिणम्यते । प्रशस्यशब्दस्य श्र इत्ययमादेशो भवति शेषयोः परतः । प्रशंसनीयः, प्रशस्यः। "शसिद्धहि गुहिभ्यो वेति वक्तव्यम" [10 वा०] इत्युपसङ्ख्यानाक्यप् । इदमेव ज्ञापकम् । इह शेषो गुणवचनादेवेति नियमो न प्रवर्तते । सर्व इमे प्रशस्याः । अयमेषां श्रेष्ठः। द्वाविमो प्रशस्यौ अयमनयोः श्रेयान् । “नैकाच" [४।४।१५४] इति शेषे टिखं न । तरतमौ भवत एव । प्रशस्यतमः । प्रशस्यतरः । ज्यः ॥४।१।१२०॥ प्रशस्यशब्दस्य ज्य इत्ययमादेशो भवति शेषयोः परतः। सर्व इमे प्रशस्याः, अयमेषां ज्येष्ठः । द्वाविमौ प्रशस्यौ, अयमनयोायान् । अयमस्मात् ज्यायान् । “ज्यादेयसः" [IRIK२] इति परस्यादेराकारः यथासङ्ख्यनिवृत्त्यर्थ योगान्तरम् । वृद्धस्य ॥४।१।१२१॥ वृद्धशब्दस्य च ज्य इत्ययमादेशो भवति शेषयोः परतः । सर्व इमे वृद्धाः, अयमेषां ज्येष्ठः । द्वाविमो वृद्धो अयमनयोायान् । अयमस्मात् ज्यायान् । श्रादेशार्थ वचनम् । तरतमो सिद्धावेव । वृद्धतरः । वृद्धतमः । “बहुलगुरूरवृद्धादि" [ १४६] सूत्रेण वृद्धशब्दस्य वर्षादेशोऽपि भवति । वर्षिष्ठः । वर्षीयान् । वाढान्तिकयोः साधनेदौ ॥४।१।१२२॥ वाढान्तिकशब्दयोः यथासङ्ख्यं साध नेद इत्येतावादेशी भवतः शेषयोः परतः । निमित्ततो यथासङ्ख्यं नेष्यते, भिन्नयोगनिर्दिष्टत्वात् । सर्व इमे वाढं जल्पन्ति, अयमेषां For Private And Personal Use Only
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy