________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
10. पा० । सू० १०-१५]
महावृत्तिसहितम्
२५९
॥४।१।१०८ वेति वर्तते । द्वित्रिभ्यां वा धमुज भवति विधार्थे । द्वैध द्विधा । त्रैधं त्रिधा । "अमुमन्तात् स्वार्थे डो वक्तव्यः"वा०] । मतिद्वैधानि। पथिद्वैधानि ।
एधा ॥४२१०६॥ द्वित्रिभ्यामेधा भवति विधार्थे । द्वेधा । त्रेधा। यथासंख्यनिवृत्यों योगविभागः।
याप्ये पाशः ।।४।१।११०।। याप्य इह कुत्सितोभप्रेतः। याप्यन्ते अपनीयन्तेऽस्माद् गुणा इति याप्यः। बहूल वचनादपादाने व्यसंज्ञः । याप्येऽर्थे वर्तमानान्मृदः पाश इत्ययं त्यो भवति स्वार्थे । वैयाकरणो याप्यः, वैयाकरणपाशः । यस्य गुणस्य हि भावाद् द्रव्ये शब्दविनिवेशः, तत्कुत्सने भवति । इह मा भूत् । चौ ये (रो) वैयाकरणः । इह याप्या कुमारी, कुमारपाशा। "तसादो" [1३।१४७] इति पुंवदभावः । "वयस्यनन्रये" [ २४] इत्यस्य काविधेः कृतलात्पाशान्ताट्टाप् भवति । उक्तं च
"स्वार्थमभिधाय शब्दो निरपेक्षो द्रव्यमाह समवेतम् । समवेतस्य तु वचने लिङ्ग संख्या विभक्तीश्च ।। अभिधाय तान्विशेषानपेक्षमाणस्तु कृत्स्नमात्मानम् । प्रियकुत्सनादिषु पुनः प्रवर्ततेऽसौ विभक्त्यन्तः" ।। [१३७४ पातं. भा०]
षष्ठाऽष्टमाद् भागे बः ॥४|१११११॥ षष्ठ-अष्टमशब्दाभ्यां भागे वर्तमानाभ्यां स इत्ययं त्यो भवति स्वार्थे । षष्ठो भागः, बाष्ठः। श्राष्टमः। विकल्पाधिकारादनुत्पत्तिरपि भवति । षष्ठः। श्रष्टमः। भाग इति किम् १ षष्ठः पुरुषः।
मानपश्वङ्गयोः कोपौ च ॥४।९।११२॥ भाग इति वर्तते । षष्ठाष्टमशब्दाभ्यां मानपश्वङ्गयोर्भागविशेषयोरभिधेययोः क उप इत्येतो भवतः पूर्वेण विहितस्य अस्य उप द्रष्टव्यः । षष्ठशब्दान्माने भागविशेषे को भवति । अष्टमशब्दात्पश्वङ्गभागविशेषे अस्य उन्भवति । षष्ठको भागो मानं चेत्तद् भवति । अष्टमो भागः पश्वङ्गं चेत्तद् भवति । विहितस्य अस्योविधानसामर्थ्याद वा ओऽपि भवति । पाष्ठः । षष्ठः। श्राष्टमः । श्रष्टमः।
एकादाकिश्वासहाये ॥४।१।११३|| एकशब्दादसहायवाचिन श्राकिन्नित्ययं त्यो भवति कोपों च स्वार्थे । कस्योप १ काकिनोः । एकाकी । एककः। एकः । असहाय इति किम् ? यदैकशब्दः सख्यायामन्यार्थे वा वर्तते तदा मा भूत् । अत एव द्विबहू अपि भवतः । एकाकिनो। एकाकिनः। सख्यावाचिते (त्वे) एकवचनमेव स्यात् । अन्यार्थत्वे बहुवचनमेव स्यात् ।
नमेषासतिशायरे ॥४२११४॥ अतिशायनं प्रकर्षः। "श्रन्यस्यापि" [३२३२ इति दीलम । दं च प्रत्यर्थविशेषणं सर्वेषां स्वाथिकानां द्योत्यम् । अतिशायनविशिष्टेऽर्थे वर्तमानान्मदः स्वायें तम इष्ठ इत्येतो त्यौ भवतः अतिशायने द्योत्ये । वान्तात्योत्पत्तिः । सर्व इमे श्राद्याः, अयमेषामायतमः । सकमारतमः । सर्व इमे पटवः, श्रयमेषां पटुतमः । कथं गोतमः। कारकतमः इति ? श्रत्रापि क्रियागुणद्वारेण प्रकर्षापकर्षयोगोऽस्ति । “शेषौ गुणवचनादेव" [११११८] इति नियमो वक्ष्यते । सर्व इमे पटवः, अयमेषा पटिष्टः । यदा प्रकर्षवतां पुनः प्रकर्षविवक्षा, तदा श्रातिशायिकान्तादपरः श्रातिशायिकः । श्रेष्ठतमः । अदूरविप्रकर्षिणां समानकक्षाणां स्पर्दा । तेनेह न भवति । सर्षपाणां महतामतिशायने महान् हिमवान् इति ।
For Private And Personal Use Only