________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५८
जैनेन्द्र-व्याकरणम्
[अ० ४ पा० । सू० ११-१००
वैनोऽदूरेऽकायाः ॥४श६९॥ दक्षिण, उत्तर, अवर (अधर) शब्देभ्यो वा एनो भवति अस्तादर्थेऽ दूरे गम्येऽकायाः। कायाः पर्युदासेन वेपौ गृह्यते । दक्षिणेन रमणीयम् । दक्षिणेनं वसति ग्रामम् । उत्तरेण रमणीयम् । उत्तरेण वसति । अवरेण (अधरेण) रमणीयम् | अवरेण (अधरेण) वसति । वावचनाद्यो यतो विहितः स च भवति । अदूर इति किम् ? हिमवतो दक्षिणाद वसति । अत्रावरे रखविमादरे (अत्रावधिलधिमान् दूरे ) विवक्षितः । अकाया इति किम् ? दक्षिणादागतः । “दिक्छन्दमात्रादयमेनो वक्तव्यः' [वा०] दक्षिणोत्तरावर (घर) ग्रहणं नानुवर्तनीयमिति केचित । श्रच्यन्ता दिक्छब्दादनभिधानान्न भवति ।
दक्षिणादा ॥४।१।१००॥ अकाया इति वर्तते । दक्षिणशब्दादा इत्ययं त्यो भवति अस्तादर्थे । दक्षिणा रमणीयम् । दक्षिणा वसति । सामान्येन दूरादूरयोरिहोदाहरणम् । उत्तरत्र दूरग्रहणात् । अकाया इत्येव । दक्षिणत श्रागतः।
आहि च दूरे ॥४।११०१॥ अकाया इति वर्तते । दक्षिणशब्दादाहित्यो भवति आभ्रा ( चादा) अस्तादर्थे दूरे गम्यमाने । दक्षिणाहि रमणीयम् । दक्षिणाहि वसति । दक्षिणा वसति काञ्चीपुरात् । अकाया इत्येव । दक्षिणत आगतः ।
उत्तराञ्च ॥४११०२॥ अकाया इति वर्तते दूर इति च । उत्तरशब्दादाहि श्रा इत्येतो त्यौ भवतो अस्तादर्थे । श्रा इत्यनुकर्षणार्थश्चकारः। उत्तराहि रमणीयम् । उत्तरा रमणीयम् । उत्तराहि वसति । उत्तरा वसति । अकाया इत्येव । उत्तरत अागतः । दूर इत्येव । मार्गमुत्तरेण प्रया (पा)।
पूर्वावराधराणां पुरवधोऽसि ॥४॥॥१०॥ अकाया इति निवृत्तम् दूर इति च । पूर्व, अवर, अधर, इत्येतेषां यथासङ्ख्यं पुर अव अध इत्येते श्रादेशा भवन्ति अस्तादर्थ असि परतः । अनेनैवासो विधानम् । पुरो रमणीयम् । पुर पागतः। पुरो वसति । अवो रमणीयम् । अव अागतः । श्रवो वसति । अधो रमणीयम् । अघ श्रागतः । अधो वसति ।
अस्ताति ॥४।१।१०४॥ अस्ताति च परतः पूर्वादीनां पुरादयः श्रादेशा भवन्ति । इदमेव शापकम् । अस्तादपि भवतीति । अन्यथा विशेषविहितेनासा बाधा स्यात् । पुरस्ताद्रमणीयम् । पुरस्तादागतः। पुरस्ताद् वसति । अधस्ताद् रमणीयम् । अधस्तादागतः । अधस्तावसति ।
वाऽवरस्य ॥४११०५॥ अस्ताति परतोऽवरस्यावादेशः । अवस्ताद्रमणीयम् । अवस्तादागतः । अवस्ताद् वसति ।
सङख्याया विधाऽर्थे धा॥४॥१११०६॥ यथासम्भवं विभक्तीयोगः। सङख्याशब्देश्यो विधाऽर्थे वर्तमानेभ्यो धा इत्ययं त्यो भवति स्वार्थे । अर्थग्रहणसामर्थ्याद विधाशब्द इह प्रकारवाची गृह्यते । स च प्रकारः द्रव्यगुणक्रियाविषयः । षभिः प्रकारैः षोढा द्रव्यम् । बहुधा गुणाः । पञ्चधा करोति रक्तम् । द्वाभ्यां प्रकारा'यां द्विधा करोति । त्रिधा। चतुर्धा । “अधिकरणविचाले चेति वक्तव्यम्" वा]। अधिकरणं द्रव्यम् । तस्य विचालः सख्यान्तरापादनम् । एकस्य नानात्वापादनम् । अनेकस्य वा एकत्वापादनमित्यर्थः। तस्मिन् गम्यमाने सङ्ख्याया धात्यो वक्तव्यः । एक राशिं पञ्चधा कुरु । सप्तधा । नवधा । अनेकमेकधा कुरु । न वक्तव्यः। द्रव्यगुणक्रियाभेदेन त्रिविधो विधार्थ इत्युक्तम् । तत्र वान्तर्भावात । प्रकारोक्तौ जातीयः" [११२८] इत्यस्यापवादः ।
वैकाध्यमुब् ॥४।१।१०७॥ एकशब्दाध्यमुञ भवति । पक्षे घा भवति । एकं राशिं कुरु, ऐकध्यं कुरु । ऐकध्यं भुङ्क्ते । एकधा भुङ्क्ते ।
For Private And Personal Use Only