________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२५६
जैनेन्द्र-व्याकरणम्
[ अ० ४ पा० १ सू० ८१-११
सर्वस्य सोवादि ||४|११ ८१ ॥ सर्वशब्दस्य स इत्ययमादेशो भवति वा दा इत्येतस्मिन्परतः । ईप इति वर्तते । काल इति च । वृद्धकुमारीवरवाक्यन्यायेन इदमेव लक्षणं दाविधानस्य । सर्वस्मिन् काले सदा । सर्वदा ।
Acharya Shri Kailassagarsuri Gyanmandir
दमोह ||४|१८२॥ इदम ईबन्तात् काले वर्तमानात् हिंत्यो भवति । हस्याऽपवादः । अस्मिन् काले एतर्हि । काल इत्येव । इह देशे ।
अधुना ||४|१| ८३ ॥ अधुनेति निपात्यते । श्रस्मिन्काले अधुना । इदमः श्रशुभावो धुना त्यः । अथवा अधुना इति त्यो निपात्यते । इदम इशादेश: । "यस्य हयाच" [४|४|१३६ ] इति तस्य खम् । दामीम् ||४|११८४|| इदम ईप्समर्थात्काले दानीमित्ययं त्यो भवति । श्रस्मिन्काले इदानीम् ।
तदः || ४ | १|८५|| तद ईबन्तात्काले दान भवति । तस्मिन्काले तदानीम् । तदः पूर्वे दाविहितः सोऽपि भवति । तदा ।
नतने हिं ||४|१|८६ ॥ किंबहु सर्वनामभ्योऽद्वयादिभ्य ईबन्तेभ्योऽनद्यतने काले हित्यो वा भवति । पक्षे यो यतो विहितः स च भवति । कहिं, कदा । यहि, यदा । तर्हि तदा । श्रमुर्हि, श्रमुत्र ।
पूर्वान्यान्येतरेतरापरावरो भयोत्तरेभ्योऽहन्येद्युस् ||४|११८७॥ पूर्वादिभ्य ईप्समर्थेभ्यो ऽहनि वर्त मानेभ्यद्युस् भवति । पूर्वस्मिन्नहनि पूर्वेद्युः । श्रन्येद्युः । श्रन्यतरेद्युः । इतरेद्युः । श्रपरेद्युः । श्रवरेद्युः । उभयस्मिन्नहनि उभयेद्युः । उत्तरेद्युः । " श्वोभयाद्वक्तव्यः” [वा०] | उभयद्यः ।
सद्योऽधैषमः परेद्यविपत्परारि ||४|११८८५|| सद्य इत्येवमादयः शब्दा निपात्यन्ते । ईप इति वर्तते काल इति च । समानस्य सभावो द्यश्वाहनि निपात्यते । समानेऽहनि सद्यः प्राणकरं जलपानम् । इदमोऽ मू) भावोऽहनि द्य इत्ययं च त्यः । अस्मिन्नहनि श्रद्य । इदमः समसण संवत्सरे । श्रस्मिन् संवत्सरे ऐषमः । अकार उच्चारणार्थः । इदम इशादेशः । श्रादे रैप् । “त्यादेशयोः " [ ५।४।३६ ] इति षत्वम् | परशब्दादहनि द्यवि । परस्मिन्नहनि परेद्यवि । पूर्वपूर्वतरयो : परभावः उदारी च त्यौ संवत्सरे । पूर्वस्मिन् संवत्सरे पत् । पूर्वतरे संवत्सरे परारि । कथं परुद्दास्यामि, परारि दास्यामि इति । एवं तर्हि परपरतरयोरपि प्रकृत्योः परिग्रहः कर्तव्यः ।
I
प्रकारे था || ४|१|८६ ॥ ईप् इति निवृत्तं काल इति च । किंबहुसर्वनामभ्योऽद्वयादिभ्यो यथा सम्भवं सर्वविभक्तयन्तेभ्यः प्रकारे वर्तमानेभ्यस्था इत्ययं त्यो भवति स्वार्थे । सामान्यस्य भेदको विशेषनिर्देशः प्रकारः । गच्छतीति सामान्यम् । तस्य विशेषनिर्देश: रथेन श्वेन पादाभ्यामित्यादिः । पुरुष इति सामान्यम् । तस्य विशेषनिर्देशः बुद्धिमान् दक्षः शूर इत्यादि । वर्तते इति सामान्यम् । तस्य विशेषा अध्यापनादयः । सर्वेण प्रकारेण सर्वथा । यथा । तथा । श्रद्वयादेरिति किम् ? द्वाभ्यां प्रकाराभ्यां गच्छति । श्रयं प्रकारमात्रे भवति । जातीयः पुनः प्रकारवति । यज्जातीयः । तजातीयः ।
किमिदम्याथम् ||४|१|६० ॥ किम् इदम् इत्येताभ्यां प्रकारे वर्तमानाभ्यां थमित्ययं त्यो भवति । था इत्यस्यापवादः । केन प्रकारेण कथम् । श्रनेन प्रकारेण इत्थम् ।
ते विभक्त्यः || ४ | १|११|| ते तसादयस्त्या विभक्तीसंज्ञा वेदितव्याः । विभक्तीकार्यं कृत्वोदाहरणानि दत्तानि । “तसादिषुभशब्दस्य उभयादेशो वक्तव्यः " [वा०] । उभाभ्यामुभयतः उभयोरुभयत्र । उभाभ्यां प्रकाराभ्यामुभयथा । नेदं वक्तव्यम् । उभशब्दस्य तसादिविषयेऽभिधानं नास्ति । यथा उभयपुत्र इत्येवमादौ ।
For Private And Personal Use Only