________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
4. पा. १०.०-८०] महावृत्तिसहितम्
एसेतो र्थोः ॥४।१७०॥ इदम एत इत् इत्येतावादेशौ भवतो यथासङ्ख्यं रेफथकारादौ तसादौ परतः । शोऽपवादः । अस्मिन् काले एतहि । अनेन प्रकारेण इत्यम् | "इदमो हि" [ २] "किमिदभ्यो थम्" [1980] इति हिथमौ ।
एतवः ॥४॥२७॥ एतदश्च एत इत् इत्येतावादेशौ भवतो यथासङ्ख्यं रेफथकारादौ परतः । एतस्मिन्काले, एतर्हि । "वाऽनद्यतने हिं'' [१६] इति हिः। इदमो यो रेफथकारादिः, तस्मिन्परत इतीदं विशेषणम् । एतदोऽपि प्रकारे थं भवति । एतेन प्रकारेण इत्थम् ।
अश ॥१॥७२॥ एतदोऽशित्ययमादेशो भवति वक्ष्यमाणेषु तसादिषु परतः । शकारः सर्वादेशार्थः । प्रतः। अत्र।
कायास्तस ॥१॥११७३॥ किंबहुसर्वनाम्नोऽद्वयादेरिति वर्तते । कान्तात्तस् भवति । कस्मात् कुतः । बहुभ्यो बहुतः । यस्माद् यतः। तसि कृते पूर्वस्य सुपः 'सुपो धुमृदोः" [10१४२] इत्युप् । अद्वथादेरित्येव । द्वाभ्याम् । युष्मत् । अस्मत् ।
तसे ॥४।१।७४॥ "प्रतियोगे कायास्तसिः'। [१६] "अपादानेऽहीयरुहो" [ १०] इत्येवमादिना विहितस्य तसेरिह ग्रहणम् । एतदर्थमेव च तत्रेकारेत्करणम् । किम्बहुसर्वनाम्नः परस्य तसेस्तसादेशो भवति । कुत श्रागतः। बहुत आगतः। यत श्रागत । विभक्तीसंज्ञार्थ तसेस्तसादेशः। पूर्वेणैव ससा सिद्धमिति चेत्, नैवं शक्यम् , होयरहोः प्रयोगे कुतो हीनः यतो हीन इत्यत्र तसं पूर्व सावकाशं बाधित्वा हीयहोरप्रयोगे (१) अपादाने किंबहुसर्वनामन्यः परत्वात्तसिर्भवति ।
पर्यभिभ्याम् ॥४॥११७५।। परि अभि इत्येताभ्यां तस् भवति । परितः । अभितः । यथासङ्ख्यं सर्वोभयार्थे वर्तमाना यामिष्यते । इह मा भूत् । परिभवति । अभ्येति ।
ईपनः॥४।१।७६॥ किम्बहुसर्वनामभ्यो द्वधादिवर्जिते य ईबन्तेभ्यस्त्र इत्ययं त्यो भवति स्वार्थे । बहुषु बहुत्र । यस्मिन् यत्र । किमिदम्भ्यामपवादो वक्ष्यति ।
इदमो हः ॥४।१।७७॥ इदम ईबन्तात् ह इत्ययं त्यो भवति । त्रस्यापवादः । अस्मिन् , इह ।
किमोड ४१७८॥ किम ईबन्तात् अ इत्ययं त्यो भवति । त्रस्यापवादः । कस्मिन् कः । "क्षो वयोः (कुक्वौ तयोः )" [१३] इति किमः कशब्दादेशः । कथं कुत्रचित् इति ? चिन्त्यमेतत् ।
दृश्यन्तेऽन्यतोऽपि ॥४।१७६॥ कामीपं च विहाय अन्यविभक्त्यन्तेभ्योऽपि दृश्यन्ते तसादयः । किंबहसर्वनाम्मोऽद्वथादेरिति वर्तते । क पुनह श्यन्ते १ भवदादिशब्दस्य प्रयोगे । के पुनर्भवदादयः १ भवान् दीर्घायुदेवानां प्रियः। श्रायुष्मानिति । स भवान् । ततो भवान् । तत्र भवान् । तं भवन्तम् । ततो भवन्तम् । तत्र भवन्तम् । तेन भवता । ततो भवता । तत्र भवता । तस्मै भवते । ततो भवते । तत्र भवते । तस्माद भवतः। सो भवतः । तत्र भवतः। तस्य भवतः । ततो भवतः। तत्र भवतः। तस्मिन् भवति । तत्र भवति । ततो भवति । एवमन्यत्राप्युदाहरणानि योज्यानि । भवदादिभ्योऽन्यत्रापि प्रयोगवशात्तसादयो वेदितव्याः। तो गतः । अनेन गतः । इत श्रास्यताम् । इह प्रास्यताम् ।
दैकान्यक्रियत्तवः काले ॥४.१८०॥ ईप् इति वर्तते । एक अन्य किं यचद् इत्येतेभ्य ईपसमर्थेभ्यः काले वर्तमानेभ्यो दा इत्ययं त्यो भवति । त्रादेरपवादः। एकस्मिन् काले एकदा । अन्यदा। कदा । तदा । यदा। काल इति किम् ! एकस्मिन् देशे एकत्र ।
For Private And Personal Use Only