________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैनेन्द्र-व्याकरणम्
[अ० ४ पा० । सू०१२-६॥
भसंशायां हि कम्यः शम्यः इत्यनिष्टं प्रसज्येत । कन्तिः, शन्तिः, कन्तुः, शन्तुः, कन्तः, शन्ता, । सर्वत्र पूर्वस्य पदत्वात् "मोऽनुस्वारः" [२७] इत्यनुस्वारः । तस्य "वा पदान्तस्य' [शा१३३] इति परस्वत्वम् ।
ऊर्णाऽहशुभंभ्यश्च युस् ॥४२६२।। ऊर्णा, अहम्, शुभम् , इत्येतेभ्यः कंशम्न्यां च युस् इत्ययं त्यो भवति मत्वर्थे । सकारः “सिति" [१॥२१०५] इति पदसंज्ञार्थः । ऊर्णायुः । अहमित्यहकारवाचि शब्दान्सरम् | अहंयुः । शुभमिति मकारान्तः शुभपर्यायः । शुभंयुः । क्युः । शंयुः। नासिक्यस्य योरनादेशो वक्ष्यते इत्यस्य न भवति ।
सूक्तसाम्नोश्छः ॥४।९।६३।। मृदश्छो भवति मत्वर्थे सूक्ते साम्नि चाभिधेये । वेदे वाक्यसमूहः सक्कम, सामेति च संज्ञा । मतुठेनामपवादः। अच्छावाकशब्दोऽस्मिन्नति अच्छावाकीयं सूक्तम् । मैत्रावरुणीयं सूक्तम् । यज्ञशब्दोऽस्मिन्नस्ति यज्ञीयं साम। वारतन्तवीयं साम । अनुकरणशब्दा एतेऽनुकार्यशब्दैरर्थवन्त इति मृत्संज्ञा सिद्धा। तेऽन्यपदसङधातादपि अनुकरणात्यो न भवति । अस्यवामशब्दोऽस्मिन्नस्त्यस्यवामीयम् । कयाशुभशब्दोऽस्मिन्नस्ति कयाशुभीयम् ।
अध्यायाऽनुवाकयोर्वोप श६४।। अध्यायाऽनुवाकयोरभिधेययोम॒दश्छो भवति मत्वर्थे तस्य च वा उन्भवति । गर्दभाण्डशब्दोऽस्मिन्न स्ति गर्दभाण्डीयः । गर्दभाण्डः। कूर्चमुखः । उच्छिष्टीयः। उच्छिष्टः। दीर्घजीवितीयः । दीर्घजीवितः। पदसमुदायाच्यः। वलितस्कम्भीयः । वलितस्कम्भः। विमुक्तादिभ्योऽण् ॥
४५॥ विमुक्त इत्येवमादिभ्योऽण् भवति मत्वर्थेऽध्यायानुवाकयोरभिधेययोः। विमुक्तशब्दोऽस्मिन्नस्ति वैमुक्तोऽध्यायोऽनुवाको वा। विमुक्त । देवासुर । रक्षोऽसुर । उपसत् । परिसारक । वसु । मरुत् । सखन्तु( त् )। पत्नीवन्तु( त्)। दशाह । वयस् । हविर्धाता। महित्री । सोमापूषन् । ईडा । श्राम्नाविषु (अग्नाविष्णू)। वृत्र । हर्तृ ।
घोषदादेवन् ॥४॥६६॥ अध्यायानुवाकयोरिति वर्तते । घोषदादिभ्यो मृद्-यो वुन् भवति मखर्थे । घोषच्छब्दोऽस्मिन्नर्थे (स्मिन्नस्तीत्यर्थे ) वुन् भवति । घोषदकोऽध्यायोऽनुवाको वा। द्योषदिति केषाञ्चित्पाठः। घोषद् । ईषेखा। मातरिश्वन् । देवस्य खा। देवीराया (रापः)। देवीस्या। कृष्णो स्याखरेखा (खरेष्ट)। देवीन्विया ( देवी घियम् )। रक्षोहण । अर्जत । प्रतूर्त । दृशान । अधार । अञ्जन । प्रभूता ( प्रभृत) । कृशानु ।
वनहिरण्ये कामे ॥४१॥६७॥ वनहिरण्यशब्दाभ्यामीप्समर्थाभ्यां काम इत्येतस्मिन्नर्थे युन् भवति । कामोऽभिलाषः । वने कामः, वनको देवदत्तस्य । हिरण्यको देवदत्तस्य ।
किंबहुसर्वनाम्नोद्ध्यादेः ॥४१.६८॥ किमः, बहुशब्दात्, सर्वनाम्नश्च यादिवर्णिताद् वक्ष्यमाणात्या भवन्तीत्येषोऽधिकारो वेदितव्यः । "ते विभक्त्यः" [१६१] इति वक्ष्यति । प्रागेतस्मादयमधिकारः। यादिपर्युदासेन प्रतिषेधे प्राप्ते किमः पृथग्रहणम् । वक्ष्यमाणास्तसादयः स्वार्थिकाः । तेषुः समर्थग्रहणं प्रथमग्रहणं च प्रतियोगिनो द्वितीयस्याऽभावान्न सम्भवति । वाग्रहणं खनुवर्तत एव । कुतः । कस्मात् । बहुतः । बहुभ्यः। बहुशब्दश्चेह सख्यावाची गृह्यते, न वैपुल्यवाची । तेनेह (न) भवति बहोः सूपात् । यतः । यस्मात् । ततः । तस्मात् ।
इदम इशू ॥४।१।६९॥ इदम इश् भवति वक्ष्यमाणेषु तसादिषु परतः। शकारः सर्वादेशार्थः । इतः । इह । इदानीम्।
For Private And Personal Use Only