________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अ० ४ ० १ सू० २३ - ६१ ]
महावृत्तिसहितम्
३५३
टो वयसि ||४|१|५३ ॥ इन्निति वर्तते । डडन्तान्मुद इन्नेव भवति वयसि गम्यमाने । पञ्चमोऽ स्यास्ति सर्वत्सरो मासो वा पञ्चमी उष्ट्रः । एवं नवमी । दशमी ।
सुखाः ||४|१|५४ ॥ सुख इत्येवमादिभ्य इन्नेव भवति मत्वर्थे । सुखमस्यास्ति सुखी । सुख । दुःख । तृप्र । कृच्छ्र । श्रभ्र । श्राव । अलीक । करुण । कृपण । सोढ । सोफ । प्रतीप । शील । इल । फल । माला क्षेपे । माली । अन्यत्र मालावान् माली च । व्रीह्यादिषु शिखादिमालाशब्दाः पठ्यन्ते, क्षेपे मतुबाधनार्थस्तस्येह पाठः ।
धर्मशीलवर्णान्तात् ||४|१|५|| धर्मान्तात् शीलान्तात् वर्णान्ताच्च मृद इन्नेव भवति मत्वर्थे । तपस्विनां धर्मः तपस्विधर्मः, सोऽस्यास्तीति तपस्विधर्मी । तपस्विशीली । क्षत्रियवर्णी ।
1
पुष्करादेर्दे ||४|१|५६ ॥ पुष्कर इत्येवमादिभ्य इन्नेव भवति मत्वर्थे देशेऽभिधेये । पुष्पकरिणी । पद्मिनी । देश इति किम् । पुष्करवान् हस्ती । पुष्कर । पद्म । उत्पल । कुमुद । तमाल । नड । कपित्थ । कर्दम । बिस | मृणाल । साल्वक । विगई । करीष । शिरीष । यवास । हिरण्य । श्रष्टयः - "इन्प्रकरणे बलाद् बाहूरुपूर्वादुपसंख्यानम् ' [ वा०] । बाहुबली । ऊरुबली । “सर्वादेव ेति वक्तव्यम्" [बा०] । सर्ववनी । सर्ववाजी । सर्वकेशी । “अर्थादूवाऽसच्चिहिते वर्तमानादिन् वक्तव्य:" [वा०] । सन्निहितस्यास्तित्वेन विरोध इति चेद्, एवं तहिं तद्विषयाभिलाषस्याविरोधः । अर्थो । अर्थाभिलाषवानित्यर्थः । श्रसन्निहित इति किम् १ अर्थवान् । " तदन्ताद्वेति वक्तव्यम्' [वा०] धान्यार्थी । हिरण्यार्थी । “शृङ्गवृन्दाभ्यामारको वक्तव्य:' [वा०] शृङ्गे श्रस्य स्तः शृङ्गारकः । वृन्दारकः । "फळबहुभ्यामिनः " [वा०] फलिनो वृक्षः । बर्हिणो मयूरः । "हृदयाच्चालुर्वा वक्तव्य:" [T]| हृदयालुः । हृदयिकः । हृदयी । हृदयवान् । शीतोष्ण तृप्तेभ्यस्तन्न सहत इत्यालुर्वकम्यः " [वा०] शीतं न सहते शीतालुः । उष्णालुः । तृप्तालुः । "हिमाच्चै लुः " [वा०] । हिमं न सहते हिमेलुः । "बलादूल : ' ' [ वा०] । बलं न सहते बलूलः । वातात्समूहे तन्न सहते इति च'' [वा०] । वातसमूहो वातूलः । वातं न सहते वातूलः । "तः पर्वमरुद्भ्यां मत्वर्थे" [वा०] । पर्वाण्यस्य सन्ति पर्वतः । मरुतः ।
बलादेमतुर्वा ||४|१|५७ || बल इत्येवमादिभ्यो मतुर्भवति । वावचनेन पदे इन् प्रकृतः समुच्चीयते । ठोऽत्र न भवति । बलमस्यास्ति बलवान् । बली । इदमेव मतुवचनं ज्ञापकम्, इन्विषये मतुर्न भवतीति । बल ! उत्साह । उद्दास । उद्भास । वुल । दुष । पुल । दल । कुल । श्रायाम । व्यायाम । प्रयाम | उपयाम । श्रारोह । श्रवरोह । परिणाह । शिखादेराकृतिगणत्वात्सिद्धे प्रपञ्चार्थमिदम् ।
मन्माभ्यां खौ || ४ | १|५८ ॥ मन्नन्तान्मशब्दान्ताच्च मृद इन् भवति मत्वर्थे खुविषये । धर्मिणी । चार्मणी । चर्मवतीति निपातनं वक्ष्यति । तत एव मतुः । मान्तात् । भामिनी । कामिनी ।
तुडविलेर्भः ||४|१|५९ ॥ तुडि वटि वलि इत्येतेभ्यो भ इत्ययं त्यो भवति मत्वर्थे । विवृद्धा नाभिस्तुण्डिः, सोऽस्यास्ति तुण्डिभः । तुन्दादिषु स्वाङ्गविवृद्धाविति इलमतुठेनः प्राप्ताः । वटिभः । मतुः प्राप्तः । वलिभः । श्रस्मात्पामादिषु पाठात् नमतू च भवतः । वलिनः । वलिमान् ।
कंशम्भ्याम् ||४|१|६०॥ कशंशब्दौ मकारान्तौ जलसुखयोर्वाचकौ । कं शं शब्दाभ्यां भत्यो भवति मत्वर्थे । कम्भः । शम्भः ।
षयस्तितुताः ||४|१|६१ ॥ शम्भ्यां व यख वि तु ता इत्येते त्या भवन्ति मत्वर्थे । कम्बः, शम्बः, कंयः, शंयः । सकारः "सिवि” [१।२1१०५] इति पदसंज्ञाऽर्थः । पदस्येत्यधिकृत्य यकारस्यानुस्वारपरस्वत्वे सिद्धे
For Private And Personal Use Only