________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५२
जैनेन्द्र-व्याकरणम्
[० ४ पा० १ सू०१५-१३
इह तु वचनाद् भवति । एकस्य हलम्, एकहलम्, इत्यत्रानभिधानान्नेष्यते । एवम् ऐकशतिकः । ऐकसहनिकः। गवां शतं गोशतं तदस्यास्ति गौशतिकः । गौसहस्रिकः। यदि अत इति वर्तते इह न भवति । एकविंशतिरस्यास्ति, गोविंशतिरस्यास्ति । इदं तु न सिद्ध्यति । ऐकगविक इति सान्ते कृते भविष्यति । कथमेका शकटिरस्यास्ति, ऐकशकटिकः । गौशकटिक इति ? श्रव्यविकन्यायेन शकटान्ता इत्यन्ति (न्तादुत्पत्तिः)। नित्यग्रहणं ठेनोर्मतोश्च बाधनार्थम् । कथमेकद्रव्यखादिति ? चिन्त्यमेतत् ।
निष्काच्छतसहस्रान्तात् ॥१४॥ निष्कात्परौ यो शत-सहस्रशब्दौ तदन्तान्मृदो नित्यं ठत्र भवति मत्वर्थे । निष्काणां शतम् , निष्कशतम् , तदस्यास्ति नैष्कशतिकः । नैष्कसहस्रिकः । सुवर्णनिष्कशतमस्यास्तीत्येवमादिष्वनभिधानान्न भविष्यति ।
रुप्यहिम्यगुण्याः ॥४१॥४६॥ रूप्य हिम्य गुण्य इत्येते शब्दाः निपात्यन्ते मत्वर्थे । रूपशब्दादाहतविशिधाच्च यत्यो निपात्यते । श्राहतं रूपमस्यास्ति रूप्यः कार्षापणः । प्रशस्तं रूपमस्यास्ति रूप्यो गौः। रूप्या कन्या । अाहतप्रशंसान्यामन्यत्र रूपवान् । हिममस्यास्तीति हिम्यः पर्वतः। गुणा अस्य सन्ति गुण्यस्तपस्वी। नित्यग्रहणं ठआ सह निवृत्तम् । वेत्यनुवृत्तेर्मतुरपि भवति । रूपवान् । हिमवान् । गुणवान् ।
विन्नस्मायामेघास्रजः ॥४।१४७।। असन्तान्मृदो माया मेधा सज् इत्येतेभ्यश्च विन् भवति । मत्वर्थे । वेत्यनुवृत्तेर्मतुरपि भवति । ओजस्वी। तेजस्वी । मायावी। मेधावी। स्रग्वी। तेजस्वान । मेधावान् । स्रग्वान् । मायाशब्दस्य ब्रीह्यादिपाठान्मतुठेनो भवन्ति |
वाचो ग्मिन् ॥४॥१॥४८॥ वाक्शब्दाग्मिन् भवति मत्वर्थे । वाग्मी । "स्वादावधे" [१२।१०६] इति पदत्वात् पूर्वस्य कुत्वजस्त्वे । वाग्वान् । "मयः" [५।३।३.] इति मतोवत्वम् ।
बहुलापिन्यालाटौ ॥४।१।४६॥ वाच पाल श्राट इत्येतो त्यौ भवतो मत्वर्थे बहुलापिन्यभिधेये । वाचालः । वाचाटः। "कुत्सायामयं योगो वक्तव्यः ।" यो हि समीचीनं बहु संलपति वाग्मीति भवति ।
अर्शप्रादेरः ॥४१॥५०॥ अर्शस् इत्येवमादिभ्यः, श्र इत्ययं त्यो भवति मत्वर्थे । श्रादिशब्दः प्रकारवाची। प्रशास्यस्य सन्ति, अर्शसः । अर्शस् । उरस् । तुन्द । मुण्ड | चतुर । पलित । जटा । घाटा । श्राभ्यां सिध्मादित्वात् लमतू श्रपि भवतः। तुन्दादित्वादिलोऽपि भवति । श्रभ्र। अम्ल । लवण | स्वाक्षादुधीनात् । खञ्जः पादोऽस्याऽस्तीति खञ्जः। काणं चतुरस्य काणः । कथं कुणिः पुरुषः कुणिहस्तः । तद्योगात्तथोक्तः । यथा पङ्गुः। वर्णात् । शुक्लं हरितम् । ननु शुक्लादीनां भेदोपचारादेव भविष्यति । एवं तर्हि द्रव्यवाचिभ्यो भविष्यति । शुक्लगुणयुक्ताः प्रासादाः शुक्लाः अस्मिन् सन्ति शुक्लं नगरम् । "ज्योत्स्नातमिस्राभ्यां णिद् भवति पक्षे [वा. ] ज्योत्स्नः पक्षः । तामिस्रः पक्षः । नेदं वक्तव्यम् । "अप्रकरणे ज्योत्स्नादिभ्य उपसंख्यानमितिः' सिद्धम् । एवं च ज्योत्स्नी रात्रिः, तामिस्त्री रात्रिरिति डीविधेरपि लाभः ।
द्वन्दोपतापगात्प्राणिनीन् ||४|११५॥ उपतापो व्याधिः, गर्दा कुत्स्यम् । अत इति वर्तते । द्वन्द्वशब्दादुपतापवाचिनो गर्दवाचिनश्च मृदः प्राणिनि वर्तमानादिन् भवति मत्वर्थे । शङ्खनू पुरिणी। पटककेयूरिणी । "अप्राण्यङ्गादिति वक्तव्यम्" [वा. ] इह मा भूत् । पाणिपादवती । उपतापात् । कुष्ठी। किलासी। गात् । ककुदावर्ती । काकतालकी । प्राणिनीति किम् ? पुष्पफलवान् वृक्षः। अत हत्येव । कटुकण्ठिकावती । ठमत्वोर्वचनार्थ ( वाधनार्थे ) सूत्रम् ।
वातातीसाराभ्यां कुक् ॥४॥१॥५२॥ वात अतीसारशब्दाभ्यां मत्वर्थे इन् भवति, तत्सन्नियोगेन कुगागमः । उपतापलात्पूर्वेणेनि सिद्धे कुगर्थ श्रारम्भः । वातकी । अतीसारकी । "पिशाचाच्चेति वक्तव्यम्" | वा.] पिशाचकी।
For Private And Personal Use Only