________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
4. पा. १ सू०१०-१४]
२५१ ____ ज्योत्स्नातमिनाङ्गिणोर्जस्विन्नूर्जस्वलवत्सलांशलवन्तुरहम्तिन्गोमिनस्वामिन्वर्णिन् मलिनमलीमसाः ॥४॥१॥४०॥ ज्योत्स्नादयः शब्दा निपात्यन्ते मत्वर्थे । "ज्योतिष उडः खं नश्च सुविषये निपात्यते।" ज्योत्स्नेति चन्द्रप्रकाशस्याख्या। अन्यत्र ज्योतिष्मती रात्रिः। तमसः खं च सबरच इवं निपात्यते ।" तमिस्रा रात्रिः। स्त्रीत्वमतन्त्रम् । तेन तमिस्र नभः। मतुरपि भवति । तमस्वती रात्रिः। "शृङ्गादिनो निपास्यते ।" शृङ्गिणः। शृङ्गवान् । “ऊर्जस्विन् ऊर्जस्वल इत्येतो निपात्येते " वी. अस्वलः, ऊर्जस्वान। "वत्सशिशब्दाभ्यां यथासङ्गय कामवति बसवति चलो निपात्यते ।" वत्सलः साधुः । स्नेहवान् इत्यर्थः। अंशलः पुरुषः । बलवानिस्यर्थः। रूढिशब्दावेतौ। रूढिश्च मत्वन्तेन न गम्यते इति रूढेरन्यत्र मतुर्वेदितव्यः । “इन्तशब्दादुचतोपाधिकादुरः।" दन्ता उन्नता अस्य सन्ति दन्तुरः। उन्नतविशेषणादन्यत्र दन्तवान् । “हस्तशब्दाज्जातावभिधेयायामिन"। इस्ती। शयन हस्तवान् पुरुषः । "गोशब्दान्मिन्"। गावोऽस्य सन्ति गोमी। गोमानिवि भवति "स्वशब्दान्मिन् दीत्वं च निपात्यत ऐश्वर्य गम्ये" स्वमस्यास्ति स्वामी । अन्यत्र स्ववान् । वर्णादिन् ब्रह्मचारिणि" । वर्णी । ब्राचारीत्यर्थः । “मलशब्दादिन ईमस इत्येतौ निपात्येते" । मलिनः । मलीमसः ।)
ठेनावतः॥४१॥४१॥ अकारान्तान्मृदष्ठ इन् इत्येतो त्यौ भवतो मत्वर्थे । दण्डिकः । दण्डी। छत्रिकः । छत्री । वेत्यनुवृत्तमतोः समुच्चयः । दण्डवान् । अत इति किम् ? खट्वावान् । अत्रेष्टिः ।
"एकाक्षरात् कृतो जारीबर्थे ' च न सौ स्मृतौ [पा. म. १०२११४५] । एकाक्षरात्-खवान् । स्ववान् । कृदन्तात् । कारकवान् । हारकवान् । जाते: । व्याघ्रवान् । सिंघवान् । ईबर्थे । दण्डा श्रस्या सन्ति दण्डवती शाला। नेदं वक्तव्यम् । अनभिधानादेवान ठेनो न भवतः। यत्राभिधानं तत्रभवत एव । कार्यो । हारीं । तन्दुलिकः । तन्दुली । ईबर्थे । खलिनी भूमिः । सा(शा)लिनी भूमिः।
ब्रीह्यादेः ॥४॥४२॥ ब्रोहि इत्येवमादिभ्यष्ठेनौ भवतो मत्वर्थे । वेत्यनुवृत्तेर्मतुरपि भवति । बोहयोऽस्य सन्ति ब्रीहिकः, ब्रीही, ब्रीहिमान् । मायिकः, मायी, मायावान् । इतिशब्दः प्रयोगनियमार्थोऽनवर्तते । न ग्रीह्यादिषु ये शिखादयः पठ्यन्ते तेभ्य इन् भवति । यवखडादिभ्यष्ठो भवति । परिशिष्टेभ्य उभयं भवति । सर्वत्र श्रादिशब्दः प्रकारवाची। शिखाऽस्यास्ति शिखी। शिखावान् । शिखा। माला । मेखला। शाखा। वीणा | संज्ञा । वडवा | अष्टका । बलाका । पताका । कर्मन् । धर्मन् । चर्मन् । यव । खड। नौ । कुमारी। एतेभ्य इन्नेष्यते । परिशिष्टे यो द्वावपि भवतः । "शीर्षानमः" [वा.] अशीर्षिकः । अशीर्षी । अशीर्षवान् । शीर्षशब्दोऽकारान्तोऽप्यस्ति ।
तुन्दादेरिलः ॥४१॥४३॥ तुन्द इत्येवमादिभ्य इलो भवति ठेनौ च मत्वर्थे । उत्तरान्नित्यग्रहणादिह ठेनोः समावेशो लभ्यते । मतोस्तु वेत्य नुवृत्ते रेव समुच्चयः । तुन्दमस्यास्ति तुन्दिलः । तुन्दिकः । तुन्दी। तुन्दवान् । तुन्द । उदर । पिचण्ड । चय । प्रोहिग्रहणं सरूपार्थम्, अर्थनिर्देशार्थ च । बोहिलः, बोहिकः, बीहिमान् । शालिलः, शालिकः, शालिमान् । स्वाङ्गविवृद्धौ । कर्णी विवृद्धावस्य कर्णिलः, कर्णिकः, कर्णा, कर्णवान् । पिच्छादयोऽपि पठनीयाः। तेभ्यष्ठेनोरभिधानं नास्ति । पिन्छा । उरस् । ध्रुवका । जटाघाटा काला त्रिभ्यः क्षेपे। पर्ण । उदक । प्रशा।
पकगोपूर्वाटठन्नित्यम् ॥४१॥४४॥ एकपूर्वाद् गोपूर्वाञ्च नित्यं ठञ् भवति मखर्थे । एकपूर्वात्समानाधिकरणाबसादेव विधिः । एकहलमस्यास्ति ऐकहलिकः । "हृदथै" [॥३॥४६] इति रसे कृते ठन । ननु लघुस्वात् परवाच बसे कृते वसेनोलखान्मत्वथीयो न प्राप्नोति यथा चित्रगरिति । सत्यम।
1.-ते समभ्यां च इति महाभाष्ये।
For Private And Personal Use Only