SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५० जैनेन्द्र-व्याकरणम् [.४ पा० । सू० ११-॥ सिकताशर्कराभ्याम् ॥४॥१॥३१॥ सिकता शर्करा इत्येताभ्यामण भवति मत्वर्थे । सैकतः । शार्करः । प्रदेशार्य प्रारम्भः। उसिलो च देशे ॥४॥१॥३२॥ सिकताशर्कराभ्यामुस् इल् इत्येतो त्यौ भवतः, चकारादण् मतुश्च देशेऽभिधेये । तदस्यास्त्यस्मिन्निति वर्तते । कस्योस् ? मतोः । तेन चत्वारा शब्दाः । सिकता देशः । सिकतिलः । सैकतः । सिकतावान् । शर्करा देशः । शरिलः । शार्करः । शर्करावान् । देश इति किम् ? सैकतो घटः । शार्करो घटः । मधूषशुषिमुष्काद्रः ॥४॥३३॥ मधु ऊष शुषि मुष्क इत्येतेभ्यो रो भवति मत्वर्थे । वेत्यनुवृत्तेर्मतुरपि भवति । इइ मधुशब्दो रसवाची गृह्यते न द्रव्यवाची। मधु अस्मिन्नस्ति मधुरो गुडः । रसवाचिनि मधुशब्दे कथं मधुरो रसः ? इति चेत्, उपचारात् । रसवाचिनो मधुशब्दान्मतोरभिधानं नास्ति । अपरं क्षेत्रम् । शुषिरो वंशः । मुष्करः पशुः। रप्रकरणे खमुखकुम्जेम्य उपसंख्यानम्" [वा०](खं महत्कण्ठविवरमस्यास्ति खरः । मुखमस्यास्ति मुखरः । कुञ्जोऽस्यास्ति कुञ्जरः । “विधिनंगपाशुभ्याम्" [वा०] । (नगरः। पांशुः ।। धंद्रभ्यां मः ॥४।१।३४|| युद्र शब्दाभ्यां मो भवति मत्वर्थे । द्यौरस्यास्तीति घुमः | "दिव उत्" [४।३।१०८) इति उत् । धुशब्दो वा प्रकृत्यन्तरम् । द्रूण्यस्य सन्ति द्रुमः । रूढिशब्दावेतौ । यदा रूढि स्ति तदा मतुरेव भवति । युमान् । द्वमान् । केशाद्वो वा ॥४।१॥३५॥ केशशब्दाद् व इत्ययं त्यो भवति वा मत्वर्थे । प्रकृतं वाग्रहणं मतुसमुच्च यार्थम् । इदं तु सर्वविकल्पार्थम् । तेन ठेनावपि भवतः । केशवः। केशवान् । केशिकः। केशी। "मणिप्रभृतिभ्य इति वक्तव्यम्" [वा०] । मणिवः। हिरण्यवः । कुररावम् । इष्टकावम् । गजीवम् । "अर्णसः खं च" [चा०] | अर्णवः । गाण्ड्यजगात्खो ॥४॥१॥३६॥ गाण्डी अजग इत्येतान्यां वो भवति मत्वर्थखुविषये । गाण्डीवं धनुः । अजगवं धनुः । प्रादपि भवति । गाण्डिवं धनुः। मत्वन्तैन संज्ञा न गम्यते इति मतुर्न भवति । खाविति किम् ? गाएडीमान् दण्डः। काण्डाएडादोरः॥४॥१॥३७॥ काण्ड-अण्डशब्दाभ्यामीर इत्ययं त्यो भवति मत्वर्थे । ठेनोरपवादः। काण्डीरः। एडीरः । वेति मतुसमुच्चयार्थ वर्तते । काण्डवान् । अण्डवान् । रजाकृष्यासुतिपरिषदो वलः ॥४१॥३८॥ रजः कृषि आसुति परिषद् इत्येतेभ्यो चलो भवति मत्वर्थे । रजसो विनि प्राप्ते इतरेभ्यो मतो वचनम । रजस्वला नारी। कृषीवलः कुटुम्बी। श्रासुतीवलः कल्पपालः । 'बले' [४।२२२१] इति दीत्वम् । परिषद्वलो नृपः। इतिशब्दः प्रयोगनियमार्थमनुवर्तते । परिषदः सामान्येन । इतरेभ्यः संज्ञायां प्रयोगः। तेनेह वलो न भवति । रजोऽस्मिन् ग्रामेऽस्ति, श्रासुतिरसिन् भाण्डेऽस्ति । "वलप्रकरणेऽन्येभ्योऽपि दृश्यते इति वक्तव्यम्" [वा०] । पुत्रवलः । भ्रातृवलः । उत्सङ्गवलः । “यले" [॥३॥२२१] इत्यत्र खावित्यनुवर्तनादखौ दीत्वं न भवति । आन्तशिखात्खौ ॥११॥३९॥ दन्त-शिखाशब्दाद वलो भवति मत्वर्थे खुविषये। दन्तक्लो नाम कश्चित् । शिखावलं नाम नगरम् । यत्र तदन्तेन संज्ञा गम्यते तत्र मतुरपि भवति । शिखावान्नाम ऋषिः । ननु देशः खावित्युच्यमाने "शिखाया वल" शि६८] इत्यनेन चातुरर्थिकेन सिद्ध किमर्थमिदं वक्तव्यम् ? अदेशार्थमिदं वक्तव्यम् । तदपि निर्वृत्ताद्यर्थ वक्तव्यम् । For Private And Personal Use Only
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy