________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अ० ४ प १ सू० १४-३० ]
महावृत्तिसहितम्
नियतः समावेशः । देशान्तरे राज्ञो हस्तिनः । न वैते राशि भवन्ति । कूपे गर्गाः । न च ते तस्य भवन्ति । अस्तिग्रहणं वर्तमानकाल सत्ताप्रतिपत्त्यर्थम् । इह मा भूत् । गावोऽस्याऽसन् । गावोऽस्य भवितारः इति । कथं गोमानासीत्, गोमान् भविता इति ? “घुयोगे त्या : " [२|४|१] इत्यत्रोपपत्तिर्वक्तव्या ।
२४६
प्राण्यङ्गादातो वा लः || ४ | १ | २४ ॥ प्राण्यङ्गवाचिन श्राकारान्ताद्वा ल इत्ययं त्यो भवति मत्वर्थे । चूडालः । चूडावान् । घाटालः । घाटावान् । कथं तर्हि कर्णिकालः । कर्णिकावान् ? प्राणिनि श्रङ्गं प्राण्यङ्गमिति विग्रहाल्लभ्यते । श्रथवा कर्णिका प्राण्यङ्गमप्यस्ति नाभरणविशेष एव । प्राणिग्रहणं (किम् ) १ शिखावान् प्रदीपः । श्रङ्गग्रहणं किम् ? धर्मान्मा भूत् । चिकीर्षावान् । श्रात इति किम् ? इस्तवान् ।
सिमादेः || ४|१|२५|| सिध्म इत्येवमादिभ्यश्च वा लो भवति मत्वर्थे । वाग्रहणमिह मतोः समुच्चयार्थम् । न विकल्पार्थम् । उत्तरत्र वाग्रहणात् । तेन येऽत्राकारान्तास्तेभ्यष्ठेनौ न भवतः । सिध्मान्यस्य सन्ति सिध्मलम् । सिध्म । वर्म । गडु । तुण्डि । मणि । नाभि । बीज । निष्पाव । सुयात । दत्त | सक्तु । पशुं । पांशु । मांस । पाणिधमन्योर्दीत्वं च । "वा तदन्तवाल ललाटानामूङ च" [ वा० ] "जटा. घटाकालेभ्यः क्षेपे" । वा० ] पर्णं । उदक । प्रश " क्षुद्रजन्तूपतापायां चेष्यते" [ वा० ] यूकालःः । मक्षिकालः । उपतापात् विचर्चिकालः । विपादिकालः । मूर्च्छालः ।
फेनादिल || ४|१|२६|| फेनशब्दादिलो भवति लश्च मत्वर्थे । वाग्रहणं मतुसमुच्चयार्थमनुवर्तते । फेनिलम् । फेनलम् | फेनवदुदकम् । “पिच्छादेश्चेति वक्तव्यम्" [ वा०] पिच्छिलः । पिच्छलः । पिच्छवान् । पिच्छ । उरस् । ध्रुवक' । ध्रुवक । “जटा घटा काला त्रिभ्यः क्षेपे” [ वा० ] पर्ण । उदक । प्रज्ञा ।
स्तोमपामादिभ्यां शनौ ||४|१|२७|| लोमादिभ्यः पामादिभ्यश्च यथासंख्यं श न इत्येतौ त्यौ भवतो मत्वर्थे । वेत्यनुवृत्तेर्मतोः समुच्चयः । लोमान्यस्य सन्ति लोमशः । लोमवान् । लोमन् । रोमन् ।
। बल्लु (बलगु) । हरि । कपि । मुनि । तरु । पामादिभ्यः । पामन: । पामवान् । पामन् । क्षमन् | हेमन् ! श्लेष्मन् । बलि । सामन् । अङ्गः कल्याणे । श्रङ्गानि कल्याणान्यस्याः सन्ति श्रङ्गना । अङ्गवती अन्यत्र | लक्ष्म्या अच्च । लक्ष्मणः । दद्रुशाकी पळाली प्रश्च । दद्रुणः । शाकिनः । पलालिनः । "विष्यगिति घुखं चाकृतसन्धेः " । विष्वञ्चोऽस्य सन्ति विषुणः । विषुशब्दो निसंज्ञः ।
प्रशाश्रद्धाsaवृत्तिभ्यो णः || ४|११२८ ॥ प्रज्ञा श्रद्धा श्रर्चा वृत्ति इत्येतेभ्यो णो भवति मत्वर्थे । वेत्यनुवृत्तेर्मतोः समुच्चयः । प्रशाऽस्यास्तीति प्राज्ञः । प्रज्ञावान् । श्राद्धः । श्रद्धावान् । श्रार्चः । श्रर्चावान् । वार्त्तः । वृत्तिमान् ।
तपःसहस्राभ्यां विनिनो || ४|१/२६ ॥ तपस् सहस्र इत्येताभ्यां यथासङ्ख्यं विन् इन् इत्येतौ त्यौ भवतो मत्वर्थे । तपस्वी । सहस्रो वेत्यनुवृत्तेर्मतुरपि । तपस्वान् सहस्रवान् । तपसोऽसन्तत्वादेव विनि सिद्धे वक्ष्यमाणेनाणा बाघा माभूदिति पुनर्वचनम् |
अण् ॥४|१|३०॥ अण च भवति तपः सहस्राभ्यां मत्वर्थे । तापसः । साहस्रः । " अय्प्रकरणे ज्योत्स्नादिभ्य उपसंख्यानम्" [ वा० ] । ज्योत्स्ना श्रस्मिन्नस्ति ज्योत्स्नः पक्षः । तमिस्रा । तामिस्रः । कुण्डल | कौण्डलः । कुण्डलाई इत्यर्थः । कुतप । कौतुपः । विसर्प । वैसर्पः । विपादिका । वैपादिकः ।
For Private And Personal Use Only
१. धवका । ध्रुवका प्र० । ध्रुवका ध्रुवका पू० । ध्रुवका । ध्रुवका इति काशिकायाम् ।
२. भरु प्र० पू० ।
३२