________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४८
जैनेन्द्र-ध्याकरणम् [म०१ पा० । सू० १६-२३ कर्तरि ठो भवति । श्राद्ध कर्मनामधेयम् । श्रद्धा प्रयोजनमस्य श्राद्धम् । "अणप्रकरणे अग्निपदादिप उपसंख्यानम्"[वा०] इत्यण । "प्रज्ञाश्रद्धाऽचा" [४॥1॥१८] श्रादिना मत्वर्थीयो वाण् । श्राद्धं भुक्तमनेन श्राद्धिको देवदत्तः ।
इन ॥४॥१॥१९॥ श्राद्धं भुक्तमनेनेति वर्तते । इन् भवति श्राद्धशब्दात् । श्राद्धं भुक्तमनेनेति श्रादी. देवदत्तः। योगविभाग उत्तरार्थः। “ठेनोः समानकालग्रहणं वक्तव्यम्"। यस्मिन्नहनि श्राद्धमनेन भुक्तं तस्मिन्नेव श्राद्धिकः भाद्री वा ऽभिधीयते । अद्य भुक्ते श्राद्धे श्वः प्राद्धिकः श्राद्धीति च न भवति ।
पूर्वात् ॥४१॥२०॥ तदिति वर्तते अनेनेति च । पूर्वशब्दाद वासमर्थात् अनेनेति कर्तरि इन् भवति । कर्ता क्रियामन्तरेण न भवतीति पाकादिक्रिया व्याहर्तव्या। पूर्वशब्दः क्रियाविशेषणमिह गृह्यते । पूर्वमनेन भुक्तं पीतं गतं वा पूर्वी । प्रतीयमानस्य कर्मणोऽनुप्रयोगः । श्रोदनं सुरां ग्रामं वा ।
सपूर्वात् ॥४।१।२१।। सपूर्वाञ्च मृदः पूर्वशब्दान्ताद् वासमर्थादनेनेत्यस्मिन्नर्थे इन् भवति । पूर्वसूत्रे यत् क्रियापदमव्याहृतं तत्पूर्वात् पूर्वशब्दादिह त्यः। पूर्व कृतमनेन कृतपूर्वी कटम् । भुक्तपूर्वी श्रोदनम् । पीतपूर्वी सुराम् । त्योत्पत्तेः प्राक् मयूरव्यंसकादित्वात् [ ॥३६६ ] सविधिः । “भूतपूर्व चरट् [३।४।१४२] इति ज्ञापकात्पूर्वशब्दस्य परनिपातः। क्लान्तं भावे व्युत्पादनीयम् । अथापि कर्मणि व्युत्पाद्यते । इत्युत्पन्ने क्रियाकर्म सम्बन्धं त्यक्ला कर्ता सह वर्तते । इति कर्मण्यनुक्ते इबेव भवति । कर्मसम्बग्धामावादेव टापो निवृत्तिः । ननु “पूर्वात्'' [ ४१२०] इत्युक्तं तत्र तदन्तविधिना संपूर्वाद् भविष्यति, व्यपदेशिवभावेन केवलाच्च भविष्यति, किमर्थ योगान्तरम ! एवं तहीदमेव योगद्वयं ज्ञापकम् । श्रस्तीदं परिभाषाद्वयम, मृग्रहणे न तदन्तविधिः, व्यपदेशिवभावो न मृदेति ।
इष्टादेः ॥४।१।२२॥ तदिति अनेनेति च वर्तते । इष्ट इत्येवमादि यो मुद्यो वासमर्थेभ्योऽनेनेत्यस्मिन्नर्थे हन् भवति । इष्टमनेन इष्टी यज्ञे । कस्येविषयस्य कर्मणीव्वक्तव्येति ईप । इष्ट । पूर्त । उपपादित । निगदित। परिविदित । निकथित । निपतित । सङ्कलित | परिकलित । संरक्षित । परिरक्षित। गणित । अवकीर्ण । श्रायुक्त । निगृहीत । अाभत । श्रत । श्रासेवित । अवधारित । अवकम्पित । निराकृत । उपाकृत | अनुयुक्त । अनुगणित । अनुपठित । व्याकुलित ।
तदस्यास्त्यस्मिन्निति मतुः ।।४।१।२३ ॥ तदिति वासमर्थादस्य अस्मिन्नित्येतयोरर्थयोर्मतुभवति । यत्तद् वासमर्थमस्त्युपाधिकं चेत्तद् भवति । इति करण सूत( गस्तत श्चेद्विवक्षा । प्रायो भूमादिषु विवक्षा।
"भूमनिन्दाप्रशंसास नित्ययोगेऽतिशायने । संसर्गेऽस्तिविवक्षायां मत्वादिविधिरिष्यते ।"
भूम्नि-गावोऽस्य सन्ति गोमान् । निन्दायाम-शङ्खादकोऽस्याऽस्ति शङ्खादकी। ककुदावर्ती । प्रशं. सायाम-रूपमस्यास्ति रूपवान् । नित्ययोगे-क्षीरमेषां सन्ति क्षीरिणो वृक्षाः । अतिशायने-उदरिणी कन्या । संसर्ग-दण्डी । भूमाद्यभावेऽपि विवक्षा । व्याघवान् पर्वतः । स्पर्शवान् वायुः । हस्तिमती शाला। "मस्वच्छ षिकाच्चापि मस्वधः शैषिकस्तया । सरूपस्स्यविधिर्नेष्टः समन्तान्न सनिष्यते ॥"
"गुणवचनेभ्यो मत्वर्थीयस्या वक्तव्यः" (वा०] । शुक्लो गुणोऽस्यास्तीति शुक्लः पटः । कृष्णः । "रसादिभ्यो मतुवैक्लन्यः" [वा. ]। रसवान् । रस । रूप । वर्ण । गन्ध । स्पर्श । शब्द । स्नेह । एते गुणशब्दाः । 'एकाचः' खवान् । स्ववान् । अन्यनिवृत्यर्थमिदं वक्तव्यम् । कथं रूपिणी कन्या । रूपिको दारकः । रसिको नटः । इति ? इतिकरणाद् भवति, अगुणार्थत्वाद् वा । अस्यास्मिमिति द्वयोरुपादानं किम् ? नानयो.
For Private And Personal Use Only