________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्थोऽध्यायः
तस्य पुरणे डट ॥४॥११॥ सङ्ख्यामा इति वर्तते । पूर्यतेऽनेनेति पूरणः । तस्येति तासमर्थात्सङ्ख्यावाचिनः पूरण इत्येतस्मिन्नर्थे डड. भवति । एकादशानां पूरण एकादशः। द्वादशः। द्वादशी। द्वितीयमपि सङ्ख्याग्रहणमनुवर्तते । तत्सङ्ख्यानप्रधानं सत् त्यार्थविशेषणम् | सङ्ख्याया डड् भवति सङ्ख्यानपूरण इति न सङ्ख्येयपूरणे डट भवति । एकादशानामुष्ट्रिकाणां ( मुष्टिकानां) पूरणो घट इति । ननु नात्र एकादशभ्यः प्रकृत्यर्थभूतेभ्योऽन्यः पूरण इत्यर्थ उपलभ्यते । अतो वृत्तिनं प्राप्नोति । नैष दोषः । समुदायस्य चावयवानां च कथञ्चिद् भेद इति । यथा वृक्षान्त ताऽपि शाखा वृक्षस्येति व्यवह्रियते । उक्तञ्च"बहूनां वाचिका (पाचिका ) सङ्ख्या पूरणं स्वैक इष्यते । अन्यत्वादुभयोवृत्तिवाक्षी शाखानिदर्शनम् ॥
[पा० म०५२।४८] । नोऽसे मट् ॥४।१।२॥ न इति वर्णनिर्देशः । वर्णग्रहणं सर्वत्र तदन्तविधि प्रयोजयति । नकारान्तात्सङ्ख्यावाचिनो मृदो मड्भवत्यसे तस्य पूरण इत्यस्मिन्विषये । डटोऽपवादः । पञ्चानां पूरणः पञ्चमः । सप्तमः । सप्तमी । अस इति किम् ? एकादशानां पूरण एकादशः।
षटकतिकतिपयचतुरां थुक् ॥४।१।३।। मूलसूत्रे विहितो यो डट् तस्येहानुवर्तमानस्यार्थवशादीबन्तात्पट कति कतिपय चतुर इत्येतेषां डटि परतस्थुगागमो भवति । इदमेव डटि थुग्वचनं शापकं भवति । कतिपयशब्दादपि डट् । षण्णां पूरणः षष्ठः । कतिथः । कतिपयथः । चतुर्थः । थुग्वचनसामर्थ्याट्टिखं न भवति । पूर्वान्तकरणं पदकार्यनिवृत्यर्थम् । इह कतिपयानां स्त्रीणां पूरणी कतिपयथी। "तस्य हुत्यदे"वा०] इति विषयनिर्देशात्प्रागेव थुकः पुंवद्भावः । “चतुरश्छयावाद्यक्षरशु (स्य ) खं चेति वक्तव्यम्" चतुर्गा पूरणः, तुरीयः, तुर्यः।
___ यापूगगणसञ्जस्य तिथुक ॥३॥१४॥ डाडति वर्तते । बहु पूग गण · व इत्येतेषां डटि परतस्तिथुगागमो भवति । डडि (टि) ति थुग्वचनं ज्ञापकं भवति पुगसङ्घाभ्यां डट । बहूनां पुरणः बहुतिथः । पगतिथः । सङ्घतिथः । गणतिथः । इह बह्वीनां पूरणी बहुतिथी। "तस्य हस्यो" [घा० ] पुंवद्भावे कृते तिथुग्वेदितव्यः ।
वतोरिथुक् ॥४१॥५॥ डडिति वर्तते । वत्वन्तस्य डटि परत इथुगागमो भवति । "पतोट" [ २०] इत्यत्र वत्वन्तस्य संख्यासंज्ञा प्रतिपादिता । यावतां पूरणः यावतिथः । तावतिथः । एतावतिथ । इयतिथः । कियतिथः।
देस्तीयः॥४।१६।। तस्य पूरण इति वर्तते । द्विशब्दात्तीय इत्ययं त्यो भवति । डोऽपवादः । द्वयोः पूरणः द्वितीयः।
स्त च ॥४॥णा तस्य पूरण इति वर्तते । त्रिशब्दात्तीयो भवति तु इत्ययं चादेशः । अयमपि डटोऽपवादः । त्रयाणां पूरणः तृतीयः ।
शतादिमासार्धमाससंवत्सरात्तमट् ॥१॥ शतादिभ्यो मासाधमास सवत्सर इत्येतेभ्यश्च समड् भवति तस्य पूरण इत्यस्मिन्विषये । डयोऽपवादः । शतस्य पूरणः शततमः । सहसतमः । लक्षतमः । "विंशत्यादेवा" [ 10] इत्येषा विभाषा शतात् पूर्वी सङ्ख्यामवगाहते । मासार्धमाससंवत्सराणामसङ्ख्याशब्दत्वात् डटाऽप्राप्ते तमट् । मासस्य पूरणो मासतमो दिवसः। अर्धमास्तमः। संकसरतमः । संवत्सरतमी तिथिः।
For Private And Personal Use Only