________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैनेन्द्र-व्याकरणम्
[प्र. ४ पा० । सू० १-२
तेरसङ्ख्यादेः ॥४।१।९॥ तस्य पूरण इति वर्तते । “पवत्यादि' श५८] सूत्रे तिरिति त्यो निपातितः । त्यन्तात्सङ्ख्यावाचिनो मृदोऽसङ्ख्यापूर्वोत्तम भवति । "विंशत्यादेवा' [१०] इति विकल्पे प्राप्त नित्यार्थोऽयमारम्भः । षष्टे: पूरणः षष्टितमः । सप्ततितमः । अशीतितमः । नवतितमः । श्रसङख्यादेरिति प्रतिषेधः किमर्थः १ यावता तिरिति त्यः, त्यग्रहणे यस्मात्स तदादेहमिति षष्ट्यादीनामेव ग्रहणम् , तदन्तानां ग्रहणं नास्तीत्यस ङ्ख्यादेरिति प्रतिषेधोऽनर्थकः । इदमेव ज्ञापकं भवति । इह सङ्ख्यापूर्वपदानामपि ग्रहणम् । तेन एकषष्टेः पूरणः एकषष्टः एकषष्टितमः इत्येवमादिषु "विंशत्यादेवा" [४।१।१०] इति वा तमड् भवति । पूर्वसूत्रेऽपि शतादेरुच्यमानस्तमट् तदन्तादपि भवति । एकशततमः । एकसहस्रतमः । शतसहस्रतमः ।
विंशत्यादेर्वा ॥४।११०॥ तस्य पूरण इति वर्तते । विंशत्यादिभ्यो वा तमड भवति । तमटा मुक्ते डट् भवति । विंशतः पूरणः विंशतितमः, विंशः । एकविंशतितमः, एकविंशः। त्रिंशत्तमः, त्रिंशः । सङ्ख्यापूर्वपदादपि भवतीति ज्ञापितम् । अथवा व्याप्तेायात् । विंशत्यादयो लोकप्रसिद्धाः सङ्ख्याशब्दा गृह्यन्ते न "पङ्कस्यादि" [३।४।५८] सूत्रे व्यवस्थिताः।
डटो ग्रहणे कः ॥४॥११॥ डडिति प्रत्याहारः । गृह्यतेऽनेनेति ग्रहणम् । डडन्तान्मृदो ग्रहणोपाधिविशिष्टात्स्वार्थे क इत्ययं त्यो भवति । द्वितीयं ग्रहणं द्वितीयकम् । तृतीयकम् । व्याकरणस्य ग्रन्थ एवाऽभिधानम् । अन्यत्र द्वितीयं ग्रहणं धान्यस्येति वाक्यमेव भवति । "डटो वा उब्वक्तव्यः" वा०] द्विकं द्वितीयकम् । तृकम् । तृतीयकम् व्याकरणस्य । तेन "गृहास्युपचेति वक्तव्यम्" वा०]। डडन्ताद् भासमर्थाद् गृह्णाति इत्यस्मिन्नर्थे को भवति डटश्च नित्यमुप् । द्वितीयेन रूपेण गृह्णाति । कः। तीयस्य च उप् । द्विको देवदत्तः । एवं त्रिकः । "सनियोगशिष्टानामन्यतरापाये उभयोरप्यभावः" इति तीये निवृत्ते प्रकृत्यादेशोऽपि निवर्तते । चतुर्थेन गृह्णाति चतुष्कः । डटि निवृत्ते थुगपि निवर्तते । “इदुदुङोऽत्यप्रमुहुसः" [५।४।२८) इति रेफस्य सत्त्वम् । "हणः षः' (५।४।२७) इति षत्वम् । षष्ठेन गृह्णाति षटकः । ग्रन्थ एवाभिधानम् । इह न भवति । द्वितीयेन गृह्णाति पुस्तकम् ।
स एषां ग्रामणीः ॥४।१।१२ ग्रामणीर्मुख्य इत्यर्थः। स इति वासमर्थान्मृद् एषामिति चतुर्थे को भवति । यत्तद् वासमर्थ ग्रामणीश्चेत्स भवति । देवदत्तो ग्रामणीरेषां देवदत्तकाः । जिनदत्तकाः । सधेपीष्यते । देवदत्तो ग्रामणीरस्य सङ्घस्य देवदत्तकः ।
स्वाङ्गेषु प्रसिते ॥४।१।१३॥ अद्रवं मूर्तिमत्स्वाङ्गमित्यादिना परिभाषितमिह स्वाङ्गम् । निर्देशादेव समर्थविभक्त्युपादानम् । स्वाङ्गवाचिभ्य ईप्समर्थेभ्यः प्रसित इत्यस्मिन्नर्थे को भवति । प्रसितः प्रसक्तः । केशेषु प्रसितः केशकः । “प्रसितोत्सुकाभ्यां भा च" [१४१५२] इतीप्। एवं दन्तकः । नखकः । केशादिसंस्कारे केशादिशब्दा वर्तन्ते । बहुत्वनिर्देशः किमर्थः १ स्वाङ्गसमुदायादपि यथा स्यात् । नखकेशकः । मुखदन्तकः ।
तदस्मिन्नन्न प्राये खौ ॥४१॥१४॥ तदिति वासमर्थादस्मिन्नितीबर्थे को भवति । यत्तद् वासमर्थमन्नं चेप्रायविषयं तद् भवति । त्यान्तं चेत्संज्ञायां वर्तते । नृपुटाः प्रायेणान्नमस्यां नृपुटिका पौर्णमासी। प्राय इति सूत्रे उपाधिलक्षणो वा विषयत्वलक्षणो वा ईग्निर्देशः। विग्रहे तु करणत्वविवक्षायां भा। अन्नविशेषणत्वविवक्षायां वाऽपि भवति । नूपुटाः प्रायोऽन्नमस्यामिति । एवं गुडाप्पाः प्रायेणान्नमस्यां गुडापूपिका । तिलापूपिका । कृतशरिका । "वटकेभ्य इन्वक्तव्यः" [ वा०] वटकिनी। खाविति किम् ? अपूपाः प्रायेयान(म) वन्तिषु ।
कुल्माषादण ॥४१।१५।। कुल्माषशब्दादण भवति तदस्मिन्नन्नं प्रायेण खावित्यस्मिन्विषये । कस्यापवादः। कुल्माषाः प्रायेणान्नमस्यां कोल्माषी पौर्णमासी ।
For Private And Personal Use Only