SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४४ जैनेन्द्र-व्याकरणम् ० ३ पा० ४ सू० १६८-१६॥ त्य इष्यते । इह तर्हि प्राप्नोति । एकादश कार्षापणा अधिका अस्मिन् कार्षापणशते, गोत्रिंशदधिका अस्मिन् गोशत इति सङ्ख्याया इत्यनुवृत्तेन भवति । इतिकरणः किमर्थः १ शतसहस्रयोरेवाभिधानमिति ज्ञापनार्थः। तेनेह न भवति । एRAT अधिका अस्यां त्रिंशति, एकत्रिशदधिका श्रस्या षष्टाविति । कथम् एकादशं शतसहस्रमिति १ अनाऽपि शतसहस्रयोरन्यतरप्राधान्यमस्ति । उक्तञ्च"भधिके समानजाताविष्टः शतसहस्रयोः । यस्य सख्या तदाधिक्ये डः कर्तव्यो मतो मम ॥" [पा० म० ५।२।४४ ]। विशतेश्च ॥३४१६८॥ सङ्ख्याया इति वर्तते। विंशतिशब्दाद वासमर्थादधिकोपाधिविशिष्टादस्मिन्नितीबथै डो भवति । चशब्दात् विंशत्यन्तादपि भवति । विशतिरधिका अस्मिन् शते विशं शतं सहस्तम । तदन्तात् । एकविंश शतम् । इकर्विशं सहस्रम् । "ते विशतेडिति[१४।१२1 इति खे कृते "एप्यतोऽपदे" [४॥३८४] इति पररूपत्वम् । संख्याया इत्येव । गोविंशतिरधिका अस्मिन् गोशते इति । सङ्ख्याया गुणस्य निमाने मयट् ॥ ३।४।१६९ ॥ “तदस्य सक्षातम्" [३।११५७ ] इत्यतः तदस्येत्यनुवर्तते । गुणो भाग इत्यर्थः । गुणो निमीयते परिवर्त्यते विक्रीयते वा येन तन्निमानं मूल्यमित्यर्थः । तदपि सामर्थ्याद् भाग एव । यतो गुणै रेव गुणो निमीयते । तदिति वासमर्थायाः संख्याया गुणस्य निमाने वर्तमानाया अस्येति ताऽर्थे निमेयेऽभिधेये मयड भवति । गणस्येति कर्मणि ता। यवानां दो भागो निमानमस्योदश्विदग्रहणस्य द्विमयमुदश्वित् यवानाम् । द्विगुणं मूल्यमित्यर्थः । एवं त्रिमयं चतुर्मयम् । यथा अरणादयः शब्दशक्तिस्वामान्यादपत्यापत्यवत्सम्बन्धे विधीयमाना अपि प्राधान्येन सम्बन्धमाचक्षते। अपगवोदरक्षि( प्रौपगवोदाक्षि )रिति । तथा मयडभागो विधीयमानो भागवन्तमाचष्टे तेन द्विमयमुदश्वित् इति सामानाधिकरण्यम् । टित्करणं द्वौ गुडस्य एवं शर्करायाः द्विमयी शर्करा । गुणनिमान इति वक्तव्ये गुणस्येत्येकत्वं विवदितम् । तेनेह न भवति । यवानां त्रयो भागा निमानमुदश्वितः । द्वयोर्भागयोरिति अधिकायाश्च संख्यायास्त्य इष्यते । तेनेह न भवति । एको भागो निमानमस्योदश्विदभागस्येति । इह तर्हि प्राप्नोति द्वौ यवानामध्यर्ध उदश्वित इति । अत्रापि गुणस्येति समर्थनिर्देशादेव न भवति । तदपेक्षया प्रकृतेरपि निरंशसंख्यानं द्रष्टव्यम् । तेनेह न भवति अध्य? यवानाम् एकस्योदश्वित इति । न च सकविधेरन्यत्र अध्यर्धशब्दस्य संख्यात्वमिष्टम् । गुणस्येति किम् ? द्वो ब्रीहियवौ निमानमस्योदश्वितः। अत्र भागस्येति न प्रयुक्तम् । निमान इति किम् ? द्वौ गुणो चारस्य एकस्तैलस्य द्विगणं क्षीरेण तैलपक्कम् । नात्र वासमर्थ गुणं निमाने वर्तते । श्रन्ये अन्यथा सूत्रार्थ वर्णयन्ति । निमीयते इति निमानं निनातव्यम् । बहुलवचनात्कर्मणि युट । गुणस्येति कर्तरि ता । करणस्यापि कर्तृत्वेन विवक्षितत्वात् । "वासमर्थायाः संख्याया गुणस्य निमेये वर्तमानयोः" [वा. ] निमानेऽभिधेये मयड् भवति । उदश्वितो वो भागो निमेयस्य यवभागस्य द्विमया यवा उदश्वितः। त्रिमयाः । चतुर्मया यवाः । अत्र व्याख्याने समर्थमुदश्वित्, यवास्तु त्यार्थः । पूर्वत्र महार्घमुदश्वित् , तदेव च त्यार्थः । मतद्वयमपि प्रमाणाम् । इत्यभयनन्दिविरचितायां जैनेन्द्रमहावृत्तौ तृतीयस्याध्यायस्य चतुर्थः पादः। समाप्तश्च तृतीयोऽध्यायः। For Private And Personal Use Only
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy