________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०३ पा० ४ सू० १४८-१५५ ]
महावृत्तिसहितम्
२४१
घेः शालशङ्कटो ॥३४॥१४॥ प्रादयः पुनरेवमात्मका यत्र क्रियावाची शब्दः प्रयुज्यते तत्र क्रियाविशेषमाहः। यत्र न प्रयुज्यते तत्र ससाधनां क्रियामाहुरिति । वेः ससाधनक्रियावचनाच्छालशङ्कट इत्येतौ त्यो भवतः स्वार्थे । विसृषे ( विगते ) शृङ्गे विशाले । विशङ्कटे । तद्योगात्ताच्छब्दो (च्छन्दयम् ) विशालो मौः। विशङ्कटो गौरिति । अथवा विशालादयः परमार्थतो गुणशब्दाः, ते यथाकथञ्चिद् व्युत्पाद्यन्ते । तेन विशालः पटः, विशाल यशः इत्येवमादि सिद्धम् ।
सम्प्रोदश्च कटः ॥३।४।१४६॥ सम् प्र उद् इत्येतेभ्यो वेश्च कट इत्ययं त्यो भवति । अत्रापि ससाव(ध )नक्रियावचनेभ्यस्त्यो वेदितव्यः। सङकृष्टं सङ्कटम् । प्रकटम् । उत्कटम् । विकटम । विकटदन्तयोगाद् विकटो हस्ती "अलाबूतिलोमाभनाभ्यो रजस्युपसंख्यामम्" [4. ] अलाबूनां रवः अलाबूकटम् । तिलकटम् । उमाकेटम् । भङ्गाकटम् ।)
__ कुटारश्चावात् ॥३।४।१५०॥ अवात् ससाव(ध)नक्रियावचनात् कुटार इत्ययं त्यो भवति कटश्च स्वार्थे । अवकृष्टः, अवकुटारः । श्रवकटः । “गोष्टादयस्त्याः स्थानादिषु पशूनामिति वक्तव्यम्' [वा०] गवां स्थानं गोगोष्ठम् । महिषीगोष्ठम् | अजागोष्ठम् | "समूहे कट:" [वा०] अवीनां समूहः, अविकटः । पशुकरः । "विस्तारे पट:" [वा.] अवीनां विस्तारः, अविपटः । “द्वित्वे गोयुगः" [वा०] उष्ट्रगोयुगम् । अश्वगोयुगम् । महिषगोयुगम् । "प्रकृत्यर्थस्य षटत्वे षड्गवः" [वा० ] हस्तिनां षट्त्वं हस्तिषड्गवम् । "संस्कृते शुक्ष्यः" [वा० ] पिठरे संस्कृतं पिठरशूल्यम् । “विकारे स्नेहे तैल':' [वा०] इनुदीनां स्नेहः इङगुदीतैलम् । "प्ररोहणे झाकटशाकिनो” [ वा० ] इक्षणां प्ररोहणं क्षेत्रम्, इक्षुशाकटम् । मूलशाकरम् । इत्तुशाकिनम् । मूलशाकिनम् ।
नते नासिकायाः खौ टीटनाटभ्रटाः ॥३॥४॥१५॥ अवादिति वर्तते । नमनं नतम् । नासिका नतवाचिनोऽवशब्दाधीट नाट भ्रट इत्येते त्याः स्वार्थ भवन्ति खुविषये। नासिकाया इति सम्बन्धसामान्ये ता। तत्र यदा नासिकायाः कर्तृत्वविवक्षा, तदा सामानाधिकरण्येन विग्रहः। अवनता नासिका अवटीटा। अवनाटा । अवघंटा । यदा सम्बन्धित्वविवक्षा तदा वैयधिकरण्येन, नासिकाया अवनतम, श्रवटीटम् । अवनाटम् । अवभ्रटम् । एवमुत्तरत्रापि विग्रहद्वयं ज्ञातव्यम् । तद्योगात्पुरुषेऽपि तथोच्यते । अवटीटः
नेबिडबिरीसौ ॥२४१५२॥ नते नासिकायाः खाविति वर्तते । निशब्दान्नासिकानतार्थवचनाद बिड बिरीस इत्येतो त्यौ भवतः। निनता नासिका निबिडा। निबिरीसा। निबिडम् निबिरीसमिति वा । तद्योगात्पुरुषोऽपि निबिडः । निबिरीसः । कथं निबिडं वस्त्रं निरिडाः केशा इति । उपमानात्सिद्धम् ।
केनौ वि(चिक ॥३।४।१५३॥ नते नासिकायाः खाविति वर्तते निरिति च । नासिकानतार्थवाचिनो नेः क इन इत्येतौ त्यो भवतः वि(चि)क इत्ययञ्चादेशः प्रकृतेः। निनता नासिका विचि)का । वि(चि) किना । तद्योगाद् वि(चि)क्को देवदत्तः । वि(चि)किनः ।
पिटे चिः ॥३।४।१५४॥ नासिकानतार्थवाचिनो ने पिटे त्ये परतश्चिरित्ययमादेशो भवति । अनेनैव पिटस्य विधानम् । निनता नासिका चिपिय । तद्योगाञ्चिपिटो देवदत्तः । “क्लिनस्य चिपिली लरक्षक्षुषीति वक्तव्यम्" [वा] क्लिन्नं चक्षुः चिल्लम् , पिल्लम् । तद्योगादेवदत्तोऽपि चिल्लः । “चुनादेशश्च वकन्यः" [वा० ] क्लिन्नं चक्षुः चुल्लम् । तद्योगाद्देवदत्तोऽपि चुल्लः ।
उपत्यकाऽधित्यके ॥२४।१५५।। उपत्यका अधित्यका इत्येतौ शब्दौ निपात्येते । उपशब्दात्पर्यतासन्ने देशे वर्तमानात्स्वार्थे त्यक इत्ययं त्यो निपात्यते इत्वाभावश्च स्त्रीलिङ्गे खुविषये । पर्वतमुपासन्नो देश
३१
For Private And Personal Use Only