________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२४०
जैनेन्द्र-व्याकरणम्
[ श्र० ३ पा० ४ सू० १४२ - १४७
sare तामर्थादेकाहगम इत्यस्मिञ्चर्थे खल । गम्यते गमः । एकमहः, एकाहः । एकाहेन गमः, एकाह गमः । “साधनं कृष" [१|३|२१] इति सः । श्रश्वस्य एकाइगम श्राश्वीनोऽध्वा । श्राश्वीनानि पञ्चदशयोजनानि । पाचतरणशब्दा दिप्समर्था दई वीत्यस्मिन्नर्थे खञ चुखं च निपात्यतेऽकार्येऽभिधे । कूपावतरणमर्हति कोपनं पापम् । करोतिः क्रियासामान्येन वर्तते । तेनाऽद्रष्टव्यमप्यकार्यम् । कौपीनमिन्द्रियम् । तात्स्थ्याद् वस्त्रमपि ॥ शाळाप्रवेशशब्दा दिप्सम दर्हतीत्यस्मिन्नर्थे खन् निपात्यते चुखं चानुष्टेऽभिधेये । शालाप्रवेशमर्हति शालीनः । श्रप्रगल्भ इत्यर्थः । व्रातकर्मशब्दाद् भासमर्थाज्जीवतीत्यस्मिन्नर्थे खञ, खं च । नानाजातीया अनियतवृत्तय उत्सेधजीविनः संघा व्राताः । उत्सेधः शरीरम्, तदायासेन ये जीवन्ति ते उत्सेधजीविनः । त्रातकर्मणा जीवति प्रातीनः । तेषामेव व्रातानामन्यतमो यस्त्वन्यो वातकर्मणा भारोद्वहन जीवति स त्रातीन इति नेष्यते । सप्तपदशब्दाद् भासमर्थादवाप्यते इत्यस्मिन्नर्थे खम् निपात्यते सख्येऽभिधेये । सप्तभिः पदैरवाप्यते साप्तपदीनं सख्यम् । कथं साप्तपदीनं मित्रमिति सामानाधिकरण्यम् । श्रर्शश्रादिपाठादकारो मत्वर्थयो द्रष्टव्यः । ह्योगोदोहशब्दात्तासमर्थाद्विकार इत्यस्मिन्नर्थे खम निपात्यते प्रकृतेश्च हियभावः । संज्ञायां ह्योगोदोहस्य विकारः हैयङ्गवीनम् । अभिनवष्टतस्य संज्ञेषा । अन्यत्र ह्यो गोदोहस्य विकारः, श्रणि, ह्योगोदो क्रम् |
Acharya Shri Kailassagarsuri Gyanmandir
भूतपूर्वे वरट् ||३|४|१४२ ॥ पूर्वं भूतो भूतपूर्वः । “काला:" [१।३।२५ ] इति क्लान्तेन षसः । श्रतएव निपातनादेवं जातीयेषु पूर्वंशब्दस्य परनिपातो द्रष्टव्यः । भूतपूर्वे यन्ड्याम्मृद्रूपं वर्तते तस्मात्स्वार्थे भवति । श्राढ्यो भूतपूर्व श्राढ्यचरः । श्राढ्या भूतपूर्वा श्राव्यचरी । "तसादौ” [४|३|१४७ ] इति पुंवद् - भावः । यद्यपि भूतशब्दः पूर्वशब्दश्च अतीत कालवाचिनौ तथापि विशेषणविशेष्यभाव उपपद्यते । किञ्चित्कालं भूत वेनावस्थाय दर्शनविषयतां नेदानीमस्तोत्ययं विशेषः पूर्वशब्दविशेषणात्प्रतीयते ।
ताया रूप्यश्च ||३|४|१४३ ॥ भूतपूर्व इति वर्तते । तान्वान्ङयाम्मृदो भूतपूर्वेऽर्थे रूप्यो भवति चर च । देवदत्तस्य भूतपूर्वो गौः, देवदत्तरूप्यः, देवदत्तचरः । इहासामर्थ्यान्न भवति । कम्बलो देवदत्तस्य गौर्भूतः पूर्वो जिनदत्तश्येति । इह ऋद्धस्य देवदत्तस्य भूतपूर्वी गौरिति समुदायस्यातान्तत्वादवयवस्य चामन्न भवति ।
पाकमूले पीलुकर्णादिभ्यः कुणजा हो ||३|४|१४४ ॥ ताया इति वर्तते । तासमर्थेभ्यः पील्वादिभ्यः कर्णादिभ्यश्च यथासंख्यं पाकमूलयोरर्थयोः कुण जाह इत्येतौ भवतः । पीलूनां पाकः पीलुकुणः । पोलु । कर्कन्धु । शमी । करीर । बदर | कुवत । श्रश्वत्थ । खदिर । कर्णादिभ्यो जाहः । कर्णस्य मूलं कर्णजाहम् । कर्यं । अक्षि | मुख नख । पाद । गुल्फ । भ्रू । दन्त । श्रोष्ठ । केश । शृङ्ग । पुष्प ।
1
पक्षाप्तिः ॥ ३४ | १४५|| ताया इति वर्तते । पदशब्दान्तान्मूलेऽर्ये तिर्भवति । द्वयोः पीलुपाकयोरनुवर्तनेऽपि पाकस्याऽसम्भवान्मूलग्रहण मेवाभिसम्बध्यते । पक्षस्य मूलं पक्षतिः ।
तेन वित्तश्णो ||३२|४|१४६ ॥ | वित्तः प्रतीत इत्यर्थः । तैनेति भासमर्थावित्त इत्येतस्मिन्नर्थे चुञ्चु चणइत्येतौ त्यौ भवतः । न्यायेन वित्तो न्यायचुञ्चुः । न्यायचणः । केशैर्वित्तः केशचुञ्चुः । केशचणः ।
विनञ्भ्यां नानावो न सह || ३ | ४ | १४७ || न सहेति प्रकृतिविशेषणम् । कर्मादियोगाऽसम्भवाद् वाविभक्त्यत्र समर्था । असहायें वर्तमानाभ्यां विनञ्भ्यां यथासंख्यं नानात्रौ भवतः । स्वार्थे । न सह, विना । न सह, नाना ।
For Private And Personal Use Only